TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ६

श्रीवामनपुराण - अध्याय ६

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ६

पुलस्त्य उवाच

हद्भवो ब्रह्मणो योऽसौ धर्मो दिव्यवपुर्मुने ।

दाक्षायणी तस्य भार्या तस्यामजनयत्सुतान् ॥१॥

हरिं कृष्णं च देवर्षे नारायणनरौ तथा ।

योगाभ्यासरतौ नित्यं हरिकृष्णौ बभूवतुः ॥२॥

नरनारायणौ चैव जगतो हितकाम्यया ।

तप्येतां च तपः सौम्यौ पुराणावृषिसत्तमौ ॥३॥

प्रालेयाद्रिं समागम्य तीर्थे बदरिकाश्रमे ।

गृणन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे ॥४॥

नरनारायणाभ्यां च जगदेतच्चराचरम् ।

तापितं तपसा ब्रह्मञ्शक्रः क्षोभं तदा ययौ ॥५॥

संक्षुब्धस्तपसा ताभ्यां क्षोभणाय शतक्रतुः ।

रम्भाद्याप्सरसः श्रेष्ठाः प्रेषयत्स महाश्रमम् ॥६॥

कन्दर्पश्च सुदुर्धर्षश्चूताङ्कुरमहायुधः ।

समं सहचरेणैव वसन्तेनाश्रमं गतः ॥७॥

ततो माधवकन्दर्पो ताश्चैवाप्सरसो वराः ।

बदर्याश्रममागम्य विचिक्रीडुर्यथेच्छया ॥८॥

ततो वसन्ते संप्राप्ते किंशुका ज्वलनप्रभाः ।

निष्पत्राः सततं रेजुः शोभयन्तो धरातलम् ॥९॥

शिशिरं नाम मातङ्गं विदार्य नखरैरिव ।

वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने ॥१०॥

मया तुषारौघकरी निर्जितः स्वेन तेजसा ।

तमेव हसतेत्युच्चैः वसन्तः कुन्दकुङ्मलैः ॥११॥

वनानि कर्णिकाराणां पुष्पितानि विरेजिरे ।

यथा नरेन्द्रपुत्राणि कनकाभरणानि हि ॥१२॥

तेषामनु तथा नीपाः किङ्करा इव रेजिरे ।

स्वामिसंलब्धसंमाना भृत्या राजसुतानिव ॥१३॥

रक्ताशोकवना भान्ति पुष्पिताः सहसोज्ज्वलाः ।

भृत्या वसन्तनृपतेः संग्रामे सृक्प्लुता इव ॥१४॥

मृगवृन्दाः पिञ्जरिता राजन्ते गहने वने ।

पुलकाभिर्वृता यद्वत् सज्जनाः सुहदागमे ॥१५॥

मञ्जरीभिर्विराजन्ते नदीकूलेषु वेतसाः ।

वक्तुकामा इवाङ्गुल्याकोऽस्माकं सदृशो नगः ॥१६॥

रक्ताशोककरा तन्वी देवर्षे किंशुकाङ्घिका ।

नीलाशोककचा श्यामा विकासिकमलानना ॥१७॥

नीलेन्दीवरनेत्रा च ब्रह्मन् बिल्वफलस्तनी ।

प्रफुल्लकुन्ददशना मञ्जरीकरशोभिता ॥१८॥

बन्धुजीवाधरा शुभ्रा सिन्दुवारनखाद्भुता ।

पुंस्कोकिलस्वना दिव्या अङ्कोलवसना शुभा ॥१९॥

बर्हिवृन्दकलापा च सारसस्वरनूपुरा ।

प्राग्वंशरसना ब्रह्मन् मत्तहंसगतिस्तथा ॥२०॥

पुत्रजीवांशुका भृङ्गरोमराजिविराजिता ।

वसन्तलक्ष्मीः सम्प्राप्ता ब्रह्मन् बदरिकाश्रमे ॥२१॥

ततो नारायणो दृष्ट्वा आश्रमस्यानवद्यताम् ।

समीक्ष्य च दिशः सर्वास्ततोऽनङ्गमपश्यत ॥२२॥

नारद उवाच

कोऽसावनङ्गो ब्रह्मर्षे तस्मिन् बदरिकाश्रमे ।

यं ददर्श जगन्नाथो देवो नारायणोऽव्ययः ॥२३॥

पुलस्त्य उवाच

कन्दर्पो हर्षतनयो योऽसौ कामो निगद्यते ।

स शंकरेण संदग्धो ह्यनङ्गत्वमुपागतः ॥२४॥

नारद उवाच

किमर्थं कामदेवोऽसौ देवदेवेन शंभुना ।

दग्धस्तु कारणे कस्मिन्नेतदव्याख्यातुमर्हसि ॥२५॥

पुलस्त्य उवाच

यदा दक्षसुता ब्रह्मन् सती याता यमक्षयम् ।

विनाश्य दक्षयज्ञं तं विचचार त्रिलोचनः ॥२६॥

ततो वृषध्वजं दृष्ट्वा कन्दर्पः कुसुमायुधः ।

अपत्नीकं तदाऽस्त्रेण उन्मादेनाभ्यताडयत् ॥२७॥

ततो हरः शरेणाथ उन्मादेनाशु ताडितः ।

विचचार मदोन्मत्तः काननानि सरांचि च ॥२८॥

स्मरन् सतीं महादेवस्तथोन्मादेन ताडितः ।

न शर्म लेभे देवर्षे बाणविद्ध इव द्विपः ॥२९॥

ततः पपात देवेशः कालिन्दीसरितं मुने ।

निमग्ने शंकरे आपो दग्धाः कृष्णत्वमागताः ॥३०॥

तदाप्रभृति कालिन्द्या भृङ्गाञ्जननिभं जलम् ।

आस्यन्दत् पुण्यतीर्था सा केशपाशमिवावनेः ॥३१॥

ततो नदीषु पुण्यासु सरस्सु च नदेषु च ।

पुलिनेषु च रम्येषु वापीषु नलिनीषु च ॥३२॥

पर्वतेषु च रम्येषु काननेषु च सानुषु ।

विचरन् स्वेच्छया नैव शर्म लेभे महेश्वरः ॥३३॥

क्षणं गायति देवर्षे क्षणं रोदिति शंकरः ।

क्षणं ध्यायति तन्वङ्गी दक्षकन्यां मनोरमाम् ॥३४॥

ध्यात्वा क्षणं प्रस्वपिती क्षणं स्वप्नायते हरः ।

स्वप्ने तथेदं गदति ता दृष्ट्वा दक्षकन्यकाम् ॥३५॥

निर्घृणे तिष्ठ किं मूढे त्यजसे मामनिन्दिते ।

मुग्धे त्वया विरहितो दग्धोऽस्मि मदनाग्निना ॥३६॥

सति सत्यं प्रकुपिता मा कोपं कुरु सुन्दरि ।

पादप्रणामावनतमभिभाषितुमर्हसि ॥३७॥

श्रूयसे दृश्यसे नित्यं स्पृश्यसे वन्द्यते प्रिये ।

आलिङ्ग्यसे च सततं किमर्थं नाभीभाषसे ॥३८॥

विलपन्तं जनं दृष्ट्वा कृपा कस्य न जायते ।

विशेषतः पतिं बाले ननु त्वमतिनिर्घृणा ॥३९॥

त्वयोक्तानि वचांस्येवं पूर्वं मम कृशोदरि ।

विना त्वया न जीवेयं तदसत्यं त्वया कृतम् ॥४०॥

एह्येहि कामसंतप्तं परिष्वज सुलोचने ।

नान्यथा नश्यते तापः सत्येनापि शपे प्रिये ॥४१॥

इत्थं विलप्य स्वप्नान्ते प्रतिबुद्धस्तु तत्क्षणात् ।

उत्कूजति तथारण्ये मुक्तकण्ठं पुनः पुनः ॥४२॥

तं कूजमानं विलपन्तमारात् समीक्ष्य कामो वृषकेतनं हि ।

विव्याध चापं तरसा विनाम्य संतापनाम्ना तु शरेण भूयः ॥४३॥

संतापनास्त्रेण तदा स विद्धो भूयः स संतप्ततरो बभूव ।

संतापयंश्चापि जगत्समग्रं फूलत्कृत्य फूत्कृत्य विवासते स्म ॥४४॥

तं चापि भूयो मदनो जघान विजृम्भणास्त्रेण ततो विजृम्भे ।

ततो भृशं कामशरैर्वितुन्नो विजृम्भमाणः परितो भ्रमंश्च ॥४५॥

ददर्श यक्षाधिपतेस्तनूजं पाञ्चालिकं नाम जगत्प्रधानम् ।

दृष्ट्वा त्रिनेत्रो धनदस्य पुत्रं पार्श्वं समभ्येत्य वचो बभाषे ।

भ्रातृव्य वक्ष्यामि वचो यदद्य तत् त्वं कुरुष्वामितविक्रमोऽसि ॥४६॥

पाञ्चालिक उवाच

यन्नाथ मां वक्ष्यामि तत्करिष्ये सुदुष्करं यद्यपि देवसंघैः ।

आज्ञापयस्वातुलवीर्य शंभो दासोऽस्मि ते भक्तियुतस्तथेश ॥४७॥

ईश्वर उवाच

नाशं गतायां वरदाम्बिकायां कामाग्निना प्लुष्टसुविग्रहोऽस्मि ।

विजृम्भणोन्मादशरैर्विभिन्नो धृतिं न विन्दामि रतिं सुखं वा ॥४८॥

विजृम्भणं पुत्र तथैव तापमुन्मादमुग्नं मदनप्रणुन्नम् ।

नान्यः पुमान् धारयितुं हि शक्तो मुक्त्वा भवन्तं हि ततः प्रतीच्छ ॥४९॥

पुलस्त्य उवाच

इत्येवमुक्तो वृषभध्वजेन यक्षः प्रतीच्छत् स विजृम्भणादीन् ।

तोषं जगामाशु ततस्त्रिशूली तुष्टस्तदैवं वचनं बभाषे ॥५०॥

हर उवाच

यस्न्मात्वया पुत्र सुदुर्धराणि विजृम्भणादीनि प्रतीच्छितानि ।

तस्माद्वरं त्वां प्रतिपूजनाय दास्यामि लोकस्य च हास्यकारि ॥५१॥

यस्त्वां यदा पश्यति चैत्रमासे स्पृशेन्नरो वार्चयते च भक्त्या ।

वृद्धोऽथ बालोऽथ युवाथ योषित् सर्वे तदोन्मादधरा भवन्ति ॥५२॥

गायान्ति नृत्यन्ति रमन्ति यक्ष वाद्यानि यत्नादपि वादयन्ति ।

तवाग्रतो हास्यवचोऽभिरक्ता भवन्ति ते योगयुतास्तु ते स्युः ॥५३॥

ममैव नाम्ना भविताऽसि पूज्यः पाञ्चालिकेशः प्रथितः पृथिव्याम् ।

मम प्रसादाद वरदो नराणां भविष्यसे पूज्यतमोऽभीगच्छ ॥५४॥

इत्येवमुक्तो विभुना स यक्षो जगाम देशान् सहसैव सर्वान् ।

कालञ्जरस्योत्तरतः सुपुण्यो देशो हिमाद्रेरपि दक्षिणस्थः ॥५५॥

तस्मिन् सुपुण्ये विषये निविष्टो रुद्रप्रसादादभिपूज्यतेऽसौ ।

तस्मिन् प्रयाते भगवांस्त्रिनेत्रो देवोऽपि विन्ध्यं गिरिमभ्यगच्छत् ॥५६॥

तत्रापि मदनो गत्वा ददर्श वृषकेतनम् ।

दृष्ट्वा प्रहर्त्तुकामं च ततः प्रादुद्रवद्धरः ॥५७॥

ततो दारुवनं घोरं मदनाभिसृतो हरः ।

विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः ॥५८॥

ते चापि ऋषयः सर्वे दृष्ट्वा मूर्ध्ना नताभवन् ।

ततस्तान् प्राह भगवान् भिक्षा मे प्रतिदीयताम् ॥५९॥

ततस्ते मौनिनस्तस्थुः सर्वेव महर्षयः ।

तदाश्रमाणि सर्वाणि परिचक्राम नारद ॥६०॥

तं प्रविष्टं तदा दृष्ट्वा भार्गवात्रेययोषितः ।

प्रक्षोभमगमन् सर्वा हीनसत्त्वाः समन्ततः ॥६१॥

ऋते त्वरुन्धतीमेकामनसूर्या च भामिनीम् ।

एताभ्यां भर्तृपूजासु तच्चिन्तासु स्थितं मनः ॥६२॥

ततः संक्षुभीताः सर्वा यत्र याति महेश्वरः ।

तत्र प्रयान्ति कामार्त्ता मदविह्वालितेन्द्रियाः ॥६३॥

त्यक्त्वाश्रमाणि शून्यानि स्वानि ता मुनियोषितः ।

अनुजग्मुर्यथा मत्तं करिण्य इव कुञ्जरम् ॥६४॥

ततस्तु ऋषयो दृष्ट्वा भार्गवाङ्गिरसो मुने ।

क्रोधान्विताब्रुवन्सर्वे लिङ्गोऽस्य पततां भुवि ॥६५॥

ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयन् ।

अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः ॥६६॥

ततः स पतितो लिङ्गो विभिद्य वसुधातलम् ।

रसातलं विवेशाशु ब्रह्माण्डं चोर्ध्वतोऽभिनत् ॥६७॥

ततश्चचाल पृथिवी गिरयः सरितो नगाः ।

पातालभुवनाः सर्वे जङ्गमाजङ्गमैर्वृताः ॥६८॥

संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन् पितामहः ।

जगाम माधवं द्रष्टुं क्षीरोदं नाम सागरम् ॥६९॥

तत्र दृष्ट्वा हषीकेशं प्रणिपत्य च भक्तितः ।

उवाच देव भुवनाः किमर्थं क्षुभिता विभो ॥७०॥

अथोवाच हरिर्ब्रह्मन् शार्वो लिङ्गो महर्षिभिः ।

पातितस्तस्य भारार्ता संचचाल वसुंधरा ॥७१॥

ततस्तदद्भुततमं श्रुत्वा देवः पितामहः ।

तत्र गच्छाम देवेश एवमाह पुनः पुनः ॥७२॥

ततः पितामहो देवः केशवश्च जगत्पतिः ।

आजग्मतुस्तमुद्देशं यत्र लिङ्गं भवस्य तत् ॥७३॥

ततोऽनन्तं हरिर्लिङ्गं दृष्ट्वारुह्य खगेश्वरम् ।

पातालं प्रविवेशाथ विस्मयान्तरितो विभुः ॥७४॥

ब्रह्मा पद्मविमानेन ऊर्ध्वमाक्रम्य सर्वतः ।

नैवान्तमलभद ब्रह्मन् विस्मितः पुनरागतः ॥७५॥

विष्णुर्गत्वाऽथ पातालन् सप्त लोकपरायणः ।

चक्रपाणीर्विनिष्क्रान्तो लेभेऽन्तं न महामुने ॥७६॥

विष्णुः पितामहश्चोभौ हरलिङ्ग समेत्य हि ।

कृताञ्जलिपुटौ भूत्वा स्तोतुं देवं प्रचक्रतुः ॥७७॥

हरिब्रह्माणावूचतुः

नमोस्तुऽ ते शूलपाणे नमोऽस्तु वृषभध्वज ।

जीमूतवाहन कवे शर्व त्यम्बक शंकर ॥७८॥

महेश्वर महेशान सुवर्णाक्ष वृषाकपे ।

दक्षयज्ञक्षयकर कालरुप नमोऽस्तु ते ॥७९॥

त्वमादिरस्य जगतस्त्वं मध्यं परमेश्वर ।

भवानन्तश्च भगवान् सर्वगस्त्वं नमोऽस्तु ते ॥८०॥

पुलस्त्य उवाच

एवं संस्तूयमानस्तु तस्मिन् दारुवने हरः ।

स्वरुपी ताविदं वाक्यमुवाच वदतां वरः ॥८१॥

हर उवाच

किमर्थं देवतानाथौ परिभूतक्रमं त्विह ।

मां स्तुवाते भृशास्वस्थं कामतापितविग्रहम् ॥८२॥

देवावूचतुः

भवतः पातितं लिङ्गं यदेतद् भुवि शंकर ।

एतत् प्रगृह्यतां भूय अतो देव स्तुवावहे ॥८३॥

हर उवाच

यद्यर्चयत्नि त्रिदशा मम लिङ्गं सुरोत्तमौ ।

तदेतत्प्रतिगृह्णीयां नान्यथेति कथंचन ॥८४॥

ततः प्रोवाच भगवानेवमस्त्विति केशवः ।

ब्रह्मा स्वयं च जग्राह लिङ्गं कनकपिङ्गलम् ॥८५॥

ततश्चकार भगवांश्चातुर्वर्ण्यं हरार्चने ।

शास्त्राणि चैषां मुख्यानि नानोक्ति विदितानि च ॥८६॥

आद्यं शैवं परिख्यातमन्यत्पाशुपतं मुने ।

तृतीयं कालवदनं चतुर्थं च कपालिनम् ॥८७॥

शैवश्चासीत्स्वयं शक्तिर्वसिष्ठस्य प्रियः सुतः ।

तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः ॥८८॥

महापाशुपतश्चासीद्भरद्वाजस्तपोधनः ।

तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः ॥८९॥

कालास्यो भगवानासीदापस्तम्बस्तपोधनः ।

तस्य शिष्यो भवद्वैश्यो नाम्ना क्राथेश्वरो मुने ॥९०॥

महाव्रती च धनदस्तस्य शिष्यश्च वीर्यवान् ।

कर्णोदर इति ख्यातो जात्या शूद्रो महातपाः ॥९१॥

एवं स भगवान् ब्रह्मा पूजनाय शिवस्य तु ।

कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः ॥९२॥

गते ब्रह्मणि शर्वोऽपि उपसंहत्य तं तदा ।

लिङ्गं चित्रवने सूक्ष्मं प्रतिष्ठाप्य चचार ह ॥९३॥

विचरन्तं तदा भूयो महेशं कुसुमायुधः ।

आरात्स्थित्वाऽग्रतो धन्वी संतापयितुमुद्यतः ॥९४॥

ततस्तमग्रतो दृष्ट्वा क्रोधाध्मातदृशा हरः ।

स्मरमालोकयामास शिखाग्राच्चरणान्तिकम् ॥९५॥

आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि ।

प्रादह्यत तदा ब्रह्मन् पादादारभ्य कक्षवत् ॥९६॥

प्रदह्यमानौ चरणौ दृष्ट्वाऽसौ कुसुमायुधः ।

उत्ससर्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा ॥९७॥

यदासीन्मुष्टिबन्धं तु रुक्मपृष्ठं महाप्रभम् ।

स चम्पकतरुर्जातः सुगन्धाढ्यो गुणाकृतिः ॥९८॥

नाहस्थानं शुभाकारं यदासीद्वज्रभूषितम् ।

तज्जातं केसरारण्यं बकुलं नामतो मुने ॥९९॥

या च कोटी शुभा ह्यासीदिन्द्रनीलविभूषिता ।

जाता सा पाटला रम्या भृङ्गराजिविभूषिता ॥१००॥

नाहोपरि तथा मुष्टौ स्थानं शशिमणिप्रभम् ।

पञ्चगुल्माऽभवज्जाती शशाङ्ककिरणोज्ज्वला ॥१०१॥

ऊर्ध्वं मुष्टया अधः कोट्योः स्थानं विद्रुमभूषितम् ।

तस्माद्वहुपुटा मल्ली संजाता विविधा मुने ॥१०२॥

पुष्पोत्तमानि रम्याणि सुरभीणि च नारद ।

जातियुक्तानि देवेन स्वयमाचरितानि च ॥१०३॥

मुमोच मार्गणान् भूम्यां शरीरे दह्यति स्मरः ।

फलोपगानि वृक्षाणि संभूतानि सहस्त्रशः ॥१०४॥

चूतादीनि सुगन्धीनि स्वाटूनि विविधानि च ।

हरप्रसादाज्जातानि भोज्यान्यपि सुरोत्तमैः ॥१०५॥

एवं दग्ध्वा स्मरं रुद्रः संयम्य स्वतनुं विभुः ।

पुण्यार्थी शिशिराद्रिं स जगाम तपसेऽव्ययः ॥१०६॥

एवं पुरा देववरेण शम्भुना कामस्तु दग्धः सशरः सचापः ।

ततस्त्वनङ्गेति महाधनुर्द्धरो देवैस्तु गीतः सुरपूर्वपूजितः ॥१०७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:37.8300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

tubiform

  • नलिकाकृति 
  • नळीसारखे 
RANDOM WORD

Did you know?

aatmyathyatmya meaning
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.