TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ४३

श्रीवामनपुराण - अध्याय ४३

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ४३

ऋषय ऊचुः

स्थाणुतीर्थस्य माहात्म्यं वटस्य च महामुने ।

सांनिहत्यसरोत्पत्तिं पूरणं पांशुना ततः ॥१॥

लिङ्गानां दर्शनात् पुण्यं स्पर्शनेन च किं फलम् ।

तथैव सरमाहात्म्यं ब्रूहि सर्वमशेषतः ॥२॥

लोमहर्षण उवाच

शृण्वन्तु मुनयः सर्वे पुराणं वामनं महत् ।

यच्छुत्वा मुक्तिमाप्नोति प्रसादाद वामनस्य तु ॥३॥

सनत्कुमारमासीनं स्थाणोर्वटसमीपतः ।

ऋषिभिर्बालखिल्याद्यैर्ब्रह्मपुत्रैर्महात्मभिः ॥४॥

मार्कण्डेयो मुनिस्तत्र विनयेनाभिगम्य च ।

पप्रच्छ सरमाहात्म्यं प्रमाणं च स्थितिं तथा ॥५॥

मार्कण्डेय उवाच

ब्रह्मपुत्र महाभाग सर्वशास्त्रविशारद ।

ब्रूहि मे सरमाहात्म्यं सर्वपापक्षयावहम् ॥६॥

कानि तीर्थानि दृश्यानि गुह्यानि द्विजसत्तम ।

लिङ्गानि ह्यतिपुण्यानि स्थाणोर्यानि समीपतः ॥७॥

येषां दर्शनमात्रेण मुक्तिं प्राप्नोति मानवः ।

वटस्य दर्शनं पुण्यमुत्पत्तिं कथयस्व मे ॥८॥

प्रदक्षिणायां यत्पुण्यं तीर्थस्त्रानेन यत्फलम् ।

गुह्येषु चैव दृष्टेषु यत्पुण्यमभिजायते ॥९॥

देवदेवो यथा स्थाणुः सरोमध्ये व्यवस्थितः ।

किमर्थं पांशुना शक्रस्तीर्थं पूरितवान् पुनः ॥१०॥

स्थाणुतीर्थस्य माहात्म्यं चक्रतीर्थस्य यत्पलम् ।

सूर्यतीर्थस्य माहात्म्यं सोमतीर्थस्य ब्रूहि मे ॥११॥

शंकरस्य च गुह्यानि विष्णोः स्थानानि यानि च ।

कथयस्व महाभाग सरस्वत्याः सविस्तरम् ॥१२॥

ब्रूहि देवाधिदेवस्य माहात्म्यं देव तत्त्वतः ।

विरिञ्चस्य प्रसादेन विदितं सर्वमेव च ॥१३॥

लोमहर्षण उवाच

मार्कण्डेयवचः श्रुत्वा ब्रह्मात्मा स महामुनिः ।

अतिभक्त्यां तु तीर्थस्य प्रवणीकृतमानसः ॥१४॥

पर्यङ्कं शिथिलीकृत्वा नमस्कृत्वा महेश्वरम् ।

कथयामास तत्सर्वं यच्छुतं ब्रह्मणः पुरा ॥१५॥

सनत्कुमार उवाच

नमस्कृत्य महादेवमीशानं वरदं शिवम् ।

उत्पत्तिं च प्रवक्ष्यामि तीर्थानां ब्रह्मभाषिताम् ॥१६॥

पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।

बृहदण्डमभूदेकं प्रजानां बीजसम्भवम् ॥१७॥

तस्मिन्नण्डे स्थितो ब्रह्मा शयनायोपचक्रमे ।

सहस्त्रयुगपर्यन्तं सुप्त्वा स प्रत्यबुध्यत ॥१८॥

सुप्तोत्थितस्तदा ब्रह्मा शून्यं लोकमपश्यत ।

सृष्टिं चिन्तयतस्तस्य रजसा मोहितस्य च ॥१९॥

रजः सृष्टिगुणं प्रोक्तं सत्त्वं स्थितिगुणं विदुः ।

उपसंहारकाले च तमोगुणः प्रवर्तते ॥२०॥

गुणातीतः स भगवान् व्यापकः पुरुषः स्मृतः ।

तेनेदं सकलं व्याप्तं यत्किंचिज्जीवसंज्ञितम् ॥२१॥

स ब्रह्मा स च गोविन्द ईश्वरः स सनातनः ।

यस्तं वेद महात्मानं स सर्वं वेद मोक्षविद् ॥२२॥

किं तेषां सकलैस्तीर्थैराश्रमैर्वा प्रयोजनम् ।

येषामनन्तकं चित्तमात्मन्य व व्यवस्थितम् ॥२३॥

आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलसमाधीयुक्ता ।

तस्यां स्त्रातः पुण्यकर्मा पुनाति न वारिणा शुद्ध्यति चान्तरात्मा ॥२४॥

एतत्प्रधानं पुरुषस्य कर्म यदात्मसम्बोधसुखे प्रविष्टम् ।

ज्ञेयं तदेव प्रवदन्ति सन्तस्तत्प्राप्य देही विजहाति कामान् ॥२५॥

नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।

शीले स्थितिर्दण्डविधानवर्जनमक्रोधनश्चोपरमः क्रियाभ्यः ॥२६॥

एतद ब्रह्म समासेन मयोक्तं ते द्विजोत्तम ।

यञ्ज्ञात्वा ब्रह्म परमं प्राप्स्यसि त्वं न संशयः ॥२७॥

इदानीं श्रृणु चोत्पत्तिं ब्रह्मणः परमात्मनः ।

इमं चोदाहरन्त्येव श्लोकं नारायणं प्रति ॥२८॥

आपो नारा वै तनव इत्येवं नाम शुश्रुमः ।

तासु शेते स यस्माच्च तेन नारायणः स्मृतः ॥२९॥

विबुद्धः सलिले तस्मिन् विज्ञायान्तर्गतं जगत् ।

अण्डं बिभेद भगवांस्तस्मादोमित्यजायत ॥३०॥

ततो भूरभवत् तस्माद् भुव इत्यपरः स्मृतः ।

स्वः शब्दश्च तृतीयोऽभूद भूर्भुवः स्वेति संज्ञितः ॥३१॥

तस्मात्तेजः समभवत् तत्सवितुर्वरेण्यं यत् ।

उदकं शोषयामास यत्तेजोऽण्डविनिः सृतम् ॥३२॥

तेजसा शोषितं शेषं कललत्वमुपागतम् ।

कललाद बुदबुदं ज्ञेयं ततः काठिन्यतां गतम् ॥३३॥

काठिन्याद धरणी ज्ञेया भूतानां धारिणी हि सा ।

यस्मिन् स्थाने स्थितं ह्यण्डं तस्मिन् संनिहितं सरः ॥३४॥

यदाद्यं निः सृतं तेजस्तस्मादादित्य उच्यते ।

अण्डमध्ये समुत्पन्नो ब्रह्मा लोकपितामहः ॥३५॥

उल्बं तस्याभवन्मेरुर्जरायुः पर्वताः स्मृताः ।

गर्भोदकं समुद्राश्च तथा नद्यः सहस्त्रशः ॥३६॥

नाभिस्थाने यदुदकं ब्रह्मणो निर्मलं महत् ।

महत्सरस्तेन पूर्णं विमलेन वराम्भसा ॥३७॥

तस्मिन् मध्ये स्थाणुरुपी वटवृक्षो महामनाः ।

तस्माद विनिर्गता वर्णा ब्राह्मणाः क्षत्रिया विशः ॥३८॥

शूद्राश्च तस्मादुत्पन्नाः शुश्रूषार्थं द्विजन्मनाम् ।

ततश्चिन्तयतः सृष्टिं ब्रह्मणोऽव्यक्तजन्मनः ।

मनसा मानसा जाताः सनकाद्या महर्षयः ॥३९॥

पुनश्चिन्तयतस्तस्य प्रजाकामस्य धीमतः ।

उत्पन्ना ऋषयः सप्त ते प्रजापतयोऽभवन् ॥४०॥

पुनश्चिन्तयतस्तस्य रजसा मोहितस्य च ।

बालखिल्याः समुत्पन्नास्तपः स्वाध्यायतत्पराः ॥४१॥

ते सदा स्त्राननिरता देवार्चनपरायणाः ।

उपवासैर्व्र\तैस्तीव्रैः शोषयन्ति कलेवरम् ॥४२॥

वानप्रस्थेन विधिना अग्निहोत्रसमन्विताः ।

तपसा परमेणेह शोषयन्ति कलेवरम् ॥४३॥

दिव्यं वर्षसहस्त्रं ते कृशा धमनिसंतताः ।

आराधयन्ति देवेशं न च तुष्यति शंकरः ॥४४॥

ततः कालेन महता उमया सह शंकरः ।

आकाशमार्गेण तदा दृष्ट्वा देवी सुदुःखिता ॥४५॥

प्रसाद्य देवदेवेशं शंकरं प्राह सुव्रता ।

क्लिश्यन्ते ते मुनिगणा देवदारुवनाश्रयाः ॥४६॥

तेषां क्लेशक्षयं देव विधेहि कुरु मे दयाम् ।

किं वेदधर्मनिष्ठानामनन्तं देव दुष्कृतम् ॥४७॥

नाद्यापि येन शुद्ध्यन्ति शुष्कस्त्राय्वस्थिशोषिताः ।

तच्छुत्वा वचनं देव्याः पिनाकी पातितान्धकः ।

प्रोवाच प्रहसन् मूर्ध्नि चारुचन्द्रांशुशोभितः ॥४८॥

श्रीमहादेव उवाच

न वेत्सि देवि तत्त्वेन धर्मस्य गहना गतिः ।

नैते धर्मं विजानन्ति न च कामविवार्जिताः ॥४९॥

न च क्रोधेन निर्मुक्ताः केवलं मूढबुद्धयः ।

एतच्छुत्वाऽब्रवीद् देवी मा मैवं शंसितव्रतान् ॥५०॥

देव प्रदर्शयत्मानं परं कौतूहलं हि मे ।

स इत्युक्त उवाचेदं देवीं देवः स्मिताननः ॥५१॥

तिष्ठ त्वमत्र यास्यामि यत्रैते मुनिपुंगवाः ।

साधयन्ति तपो घोरं दर्शयिष्यामि चेष्टितम् ॥५२॥

इत्युक्ता तु ततो देवी शंकरेण महात्मना ।

गच्छस्वेत्याह मुदिता भर्त्तारं भुवनेश्वरम् ॥५३॥

यत्र ते मुनयः सर्वे काष्ठलोष्ठसमाः स्थिताः ।

अधीयाना महाभागाः कृताग्निसदनक्रियाः ॥५४॥

तान् विलोक्य ततो देवो नग्नः सर्वाङ्गसुन्दरः ।

वनमालाकृतपीडो युवा भिक्षाकपालभृत् ॥५५॥

आश्रमे पर्यटन् भिक्षां मुनीनां दर्शनं प्रति ।

देहि भिक्षां ततश्चोक्त्वा ह्याश्रमादाश्रमं ययौ ॥५६॥

तं विलोक्याश्रमगतं योषितो ब्रह्मवादिनाम् ।

सकौतुकस्वभावेन तस्य रुपेण मोहिताः ॥५७॥

प्रोचुः परस्परं नार्य एहि पश्याम भिक्षुकम् ।

परस्परमिति चोक्त्वा गृह्य मूलफलं बहु ॥५८॥

गृहाण भिक्षामूचुस्तास्तं देवं मुनियोषितः ।

स तु भिक्षाकपालं तं प्रसार्य बहु सादरम् ॥५९॥

देहि देहि शिवं वोऽस्तु भवतीभ्यस्तपोवने ।

हसमानस्तु देवेशस्तत्र देव्या निरीक्षितः ।

तस्मै दत्त्वैव तां भिक्षां पप्रच्छुस्तं स्मरातुराः ॥६०॥

नार्य ऊचुः

कोऽसौ नाम व्रतविधिस्त्वया तापस सेव्यते ।

यत्र नग्नेन लिङ्गेन वनमालाविभूषितः ।

भवान् वै तापसो हद्यो हद्याः स्मो यदि मन्यसे ॥६१॥

इत्युक्तस्तापसीभिस्तु प्रोवाच हसिताननः ।

इदमीदृग् व्रतं किंचिन्न रहस्यं प्रकाश्यते ॥६२॥

श्रृण्वन्ति बहवो यत्र तत्र वाख्या न विद्यते ।

अस्य व्रतस्य सुभगा इति मत्वा गमिष्यथ ॥६३॥

एवमुत्कास्तदा तेन ताः प्रत्यूचुस्तदा मुनिम् ।

रहस्ये हि गमिष्यामो मुने नः कौतुकं महत् ॥६४॥

इत्युक्त्वा तास्तदा तं वै जगृहुः पाणिपल्लवैः ।

काचित् कण्ठे सकन्दर्पा बाहुभ्यामपरास्तथा ॥६५॥

जानुभ्यामपरा नार्यः केशेषु ललितापराः ।

अपरास्तु कटीरन्ध्रे अपराः पादयोरपि ॥६६॥

क्षोभं विलोक्य मुनय आश्रमेषु स्वयोषिताम् ।

हन्यतामिति संभाष्य काष्ठपाषाणपाणयः ॥६७॥

पातयन्ति स्म देवस्य लिङ्गमुद्धृत्य भीषणम् ।

पातिते तु ततो लिङ्गे गतोऽन्तर्धानमीश्वरः ॥६८॥

देव्या स भगवान् रुद्रः कैलासं नगमाश्रितः ।

पतिते देवदेवस्य लिङ्गे नष्टे चराचरे ॥६९॥

क्षोभो बभूव सुमहानृषीणां भावितात्मनाम् ।

एवं देवे तदा तत्र वर्तति व्याकुलीकृते ॥७०॥

उवाचैको मुनिवरस्तत्र बुद्धिमतां वरः ।

न वयं विद्मः सद्भावं तापसस्य महात्मनः ॥७१॥

विरिञ्चिं शरणं यामः स हि ज्ञास्यति चेष्टितम् ।

एवमुक्ताः सर्व एव ऋषयो लज्जिता भृशम् ॥७२॥

ब्रह्मणः सदनं जग्मुर्देवैः सह निषेवितम् ।

प्रणिपत्याथ देवेशं लज्जयाऽधोमुखाः स्थिताः ॥७३॥

अथ तान् दुःखितान् दृष्ट्वा ब्रह्मा वचनमब्रवीत् ।

अहो मुग्धा यदा यूयं क्रोधेन कलुषीकृताः ॥७४॥

न धर्मस्य क्रिया काचिञ्ज्ञायते मूढबुद्धयः ।

श्रूयतां धर्मसर्वस्वं तापसाः क्रूरचेष्टिताः ॥७५॥

विदित्वा यद बुधः क्षिप्रं धर्मस्य फलमाप्नुयात् ।

योऽसावात्मनि देहेऽस्मिन् विभुर्नित्यो व्यवस्थितः ॥७६॥

सोऽनादिः स महास्थाणुः पृथक्त्वे परिसूचितः ।

मणिर्यथोपधानेन धत्ते वर्णोञ्ज्वलोऽपि वै ॥७७॥

तन्मयो भवते तद्वदात्माऽपि मनसा कृतः ।

मनसो भेदमाश्रित्य कर्मभीश्चोपचीयते ॥७८॥

ततः कर्मवशाद भुङ्क्ते संभोगान् स्वर्गनारकान् ।

तन्मनः शोधयेद धीमाञ्ज्ञानयोगाद्युपक्रमैः ॥७९॥

तस्मिञ्शुद्धे ह्यन्तरात्मा स्वयमेव निराकुलः ।

न शरीरस्य संक्लेशैरपि निर्दहनात्मकैः ॥८०॥

शुद्धिमाप्नोति पुरुषः संशुद्धं यस्य नो मनः ।

क्रिया ह इ नियमार्थाय पातकेभ्यः प्रकीर्तिताः ॥८१॥

यस्मादत्याविलं देहं न शीघ्रं शुद्ध्यते किल ।

तेन लोकेषु मार्गोऽयं सत्पथस्य प्रवर्तितः ॥८२॥

वर्णाश्रमविभागोऽयं लोकाध्यक्षेण केनचित् ।

निर्मितो मोहमाहात्म्यं चिह्नं चोत्तमभागिनाम् ॥८३॥

भवन्तः क्रोधकामाभ्यामभिभूताश्रमे स्थिताः ।

ज्ञानिनामाश्रमो वेश्म अनाश्रममयोगिनाम् ॥८४॥

क्व च न्यस्तसमस्तेच्छा क्व च नारीमयो भ्रमः ।

क्व क्रोधमीदृशं घोरं येनात्मानं न जानथ्य ॥८५॥

यत्क्रोधनो यजति यच्च ददाति नित्यं यद वा तपस्तपति यच्च जुहोति तस्य ।

प्राप्नोति नैव किमपीह फलं हि लोके मोघं फलं भवति तस्य हि क्रोधनस्य ॥८६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:55.2500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Municipal fund

  • नगरपालिका निधि 
RANDOM WORD

Did you know?

तीन रस्ते एकत्र येऊन मिळतात, त्या ठिकाणास काय म्हणतात
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.