TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ७८

श्रीवामनपुराण - अध्याय ७८

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ७८

नारद उवाच

कानि तीर्थानि विप्रेन्द्र प्रह्लादोऽनुजगाम ह ।

प्रह्लादतीर्थयात्रां मे सम्यगाख्यातुमर्हसि ॥१॥

पुलस्त्य उवाच

श्रृणुष्व कथयिष्यामि पापपङ्कप्रणाशिनीम् ।

प्रह्लादतीर्थयात्रां ते शुद्धपुण्यप्रदायिनीम् ॥२॥

संत्यज्य मेरुं कनकाचलेन्द्रं तीर्थं जगामामरसंघजुष्टम् ।

ख्यातं पृथिव्यां शुभदं हि मानसं यत्र स्थितो मत्स्यवपुः सुरेशः ॥३॥

तस्मिंस्तीर्थवरे स्त्रात्वा संतर्प्य पितृदेवताः ।

सम्पूज्य च जगन्नातमच्युतं श्रुतिभिर्युतम् ॥४॥

उपोष्य भूयः सम्पूज्य देवर्षिपितृमानवान् ।

जगाम कच्छपं द्रष्टुं कौशिक्यां पापनाशनम् ॥५॥

तस्यां स्त्रात्वा महानद्यां सम्पूज्य च जगत्पतिम् ।

समुपोष्य शुचिर्भूत्वा दत्त्वा विप्रेषु दक्षिणाम् ॥६॥

नमस्कृत्य जगन्नाथमथो कूर्मवपुर्धरम् ।

ततो जगाम कृष्णाख्यं द्रष्टुं वाजिमुखं प्रभुम् ।

तत्र देवह्नदे स्त्रात्वा तर्पयित्वा पितृन् सुरान् ॥७॥

सम्पूज्य हयशीर्षं च जगाम गजसाह्वयम् ।

तत्र देवं जगन्नाथं गोविन्दं चक्रपाणिनम् ॥८॥

स्त्रात्वा सम्पूज्य विधिवज्जगाम यमुनां नदीम् ।

तस्यां स्त्रातः शुचिर्भूत्वा संतर्प्यर्षिसुरान् पितृन् ।

ददर्श देवदेवेशं लोकनाथं त्रिविक्रमम् ॥९॥

नारद उवाच

साम्प्रतं भगवान् विष्णुस्त्रैलोक्याक्रमणं वपुः ।

करिष्यति जगत्स्वामी बलेर्बन्धनमीश्वरः ॥१०॥

तत्कथं पूर्वकालेऽपि विभुरासीत् त्रिविक्रमः ।

कस्य वा बन्धनं विष्णुः कृतवांस्तच्च मे वद ॥११॥

पुलस्त्य उवाच

श्रूयतां कथयिष्यामि योऽयं प्रोक्तस्त्रिविक्रमः ।

यस्मिन् काले सम्बभूव यं च वञ्चितवानसौ ॥१२॥

आसीद धुन्धुरिति ख्यातः कश्यपस्यौरसः सुतः ।

दनुगर्भसमुद्भूतो महाबलपराक्रमः ॥१३॥

स समाराध्य वरदं ब्रह्माणं तपसाऽसुरः ।

अवध्यत्वं सुरैः सेन्द्रैः प्रार्थयत् स तु नारद ॥१४॥

तद वरं तस्य च प्रादात् तपसा पङ्कजोद्भवः ।

परितुष्टः स च बली निर्जगाम त्रिविष्टपम् ॥१५॥

चतुर्थस्य कलेरादौ जित्वा देवान् सवासवान् ।

धुन्धुः शक्रत्वमकरोद्धिरण्यकशिपौ सति ॥१६॥

तस्मिन् काले स बलवान् हिरण्यकशिपुस्ततः ।

चचार मन्दरगिरौ दैत्यं धुन्धुं समाश्रितः ॥१७॥

ततोऽसुरा यथा कामं विहरन्ति त्रिविष्टपे ।

ब्रह्मलोके च त्रिदशाः संस्थिता दुःखसंयुताः ॥१८॥

ततोऽमरान् ब्रह्मसदो निवासिनः श्रुत्वाऽथ धुन्धुर्दितिजानुवाच ।

व्रजाम दैत्या वयमग्रजस्य सदो विजेतुं त्रिदशान् सशक्रान ॥१९॥

ते धुन्धुवाक्यं तु निशम्य दैत्याः प्रोचुर्न नो विद्यति लोकपाल ।

गतिर्यया याम पितामहाजिरं सुदुर्गमोऽयं परतो हि मार्गः ॥२०॥

इतः सहस्त्रैर्बहुयोजनाख्यैर्लोको महर्नाम महर्षिजुष्टः ।

येषां हि दुष्ट्याऽर्पणचोदितेन दह्यन्ति दैत्याः सहसेक्षितेन ॥२१॥

ततोऽपरो योजनकोटिना वै लोको जनो नाम वसन्ति यत्र ।

गोमातरोऽस्मासु विनाशकारि यासां रजोऽपीह महासुरेन्द्र ॥२२॥

ततोपरो योजनकोटिभिस्तु षडभिस्तपो नाम तपस्विजुष्टः ।

तिष्ठन्ति यत्रासुर साध्यवर्या येषां हि निश्वासमरुत् त्वसह्यः ॥२३॥

ततोऽपरो योजनकोटिभिस्तु त्रिंशद्भिरादित्यसहस्त्रदीप्तिः ।

सत्याभिधानो भगवन्निवासो वरप्रदोऽभूद भवतो हि योऽसौ ॥२४॥

यस्य वेदध्वनिं श्रुत्वा विकसन्ति सुरादयः ।

संकोचमसुरा यान्ति ये च तेषां सधर्मिणः ॥२५॥

तस्मान्ना त्वं महाबाहो मतिमेतां समादधः ।

वैराजभुवनं धुन्धो दुरारोहं सदा नृभिः ॥२६॥

तेषां वचनमाकर्ण्य धुन्धुः प्रोवाच दानवान् ।

गन्तुकामः स सदनं ब्रह्मणो जेतुमीश्वरान् ॥२७॥

कथं तु कर्मणा केन गम्यते दानवर्षभाः ।

कथं तत्र सहस्त्राक्षः सम्प्राप्तः सह दैवतैः ॥२८॥

ते धुन्धुना दानवेन्द्राः पृष्टाः प्रोचुर्वचोऽधिपम् ।

कर्म तन्न वयं विद्मः शुक्रस्तद वेत्त्यसंशयम् ॥२९॥

दैत्यानां वचनं श्रुत्वा धुन्धुर्दैत्यपुरोहितम ।

पप्रच्छ शुक्रं किं कर्म कृत्वा ब्रह्मसदोगतिः ॥३०॥

ततोऽस्मै कथयामास दैत्याचार्यः कलिप्रिय ।

शक्रस्य चरितं श्रीमान् पुरा वृत्ररिपोः किल ॥३१॥

शक्रः शतं तु पुण्यानां क्रतूनामजयत् पुरा ।

दैत्येन्द्र वाजिमेधानां तेन ब्रह्मसदो गतः ॥३२॥

तद्वाक्यं दानवपतिः श्रुत्वा शुक्रस्य वीर्यवान् ।

यष्टुं तुरगमेधानां चकार मतिमुत्तमाम् ।

अथामन्त्र्यासुरगुरुं दानवांश्चाप्यनुत्तमान् ॥३३॥

प्रोवाच यक्ष्येऽहं यज्ञैरश्वमेधैः सदक्षिणैः ।

तदागच्छध्वमवनीं गच्छामो वसुधाधिपान् ॥३४॥

विजित्य हयमेधान् वै यथाकामगुणान्वितान् ।

आहूयन्तां च निधयस्त्वाज्ञाप्यन्तां च गुह्यकाः ॥३५॥

आमन्त्र्यन्तां च ऋषयः प्रयामो देविकातटम् ।

सा हि पुण्या सरिच्छ्रेष्ठा सर्वसिद्धिकरी शुभा ।

स्थानं प्राचीनमासाद्य वाजिमेधान् यजामहे ॥३६॥

इत्थं सुरारेर्वचनं निशम्यासुरयाजकः ।

बाढमित्यब्रवीदधृष्टो निधयः संदिदेश सः ॥३७॥

ततो धुन्धुर्देविकायाः प्राचीने पापनाशने ।

भार्गवेन्द्रेण शुक्रेण वाजिमेधाय दीक्षितः ॥३८॥

सदस्या ऋत्विजश्चापि तत्रासन् भार्गवा द्विजाः ।

शुक्रस्यानुमते ब्रह्मञ् शुक्रशिष्याश्च पण्डिताः ॥३९॥

यज्ञभागभुजस्तत्र स्वर्भानुप्रमुखा मुने ।

कृताश्चासुरनाथेन शुक्रस्यानुमतेऽसुराः ॥४०॥

ततः प्रवृत्तो यज्ञस्तु समुत्सृष्टस्तथा हयः ।

हयस्यानुययौ श्रीमानसिलोमा महासुरः ॥४१॥

ततोऽग्निधूमेन मही सशैला व्याप्ता दिशः खं विदिशश्च पूर्णाः ।

तेनोग्रगन्धेन दिवस्पृशेन मरुद्ववौ ब्रह्मलोके महर्षे ॥४२॥

तं गन्धमाघ्राय सुरा विषण्णा जानन्त धुन्धुं हयमेधदीक्षितम् ।

ततः शरण्यं शरणं जनार्दनं जग्मुः सशक्रा जगतः परायणम् ॥४३॥

प्रणम्य वरदं देवं पद्मनाभं जनार्दनम् ।

प्रोचुः सर्वे सुरगणा भयगद्गदया गिरा ॥४४॥

भगवन् देवदेवेश चराचरपरायण ।

विज्ञप्तिः श्रूयतां विष्णो सुराणामार्तिनाशन ॥४५॥

धुन्धुनामासुरपतिर्बलवान् वरबृंहितः ।

सर्वान् सुरान् विनिर्जित्य त्रैलोक्यमहरद बलिः ॥४६॥

ऋते पिनाकिनो देवात् त्राताऽस्मान् न यतो हरे ।

अतो विवृद्धिमगमद यथा व्याधिरुपेक्षितः ॥४७॥

साम्प्रतं ब्रह्मलोकस्थानपि जेतुं समुद्यतः ।

शुक्रस्य मतमास्थाय सोऽश्वमेधाय दीक्षितः ॥४८॥

शतं क्रतूनामिष्ट्वाऽसौ ब्रह्मलोकं महासुरः ।

आरोढुमिच्छति वशी विजेतुं त्रिदशानपि ॥४९॥

तस्मादकालहीनं तु चिन्तयस्व जगद्गुरो ।

उपायं मखविध्वंसे येन स्याम सुनिर्वृताः ॥५०॥

श्रुत्वा सुराणां वचनं भगवान् मधुसूदनः ।

दत्त्वाऽभयं महाबाहुः प्रेषयामास साम्प्रतम् ।

विसृज्य देवताः सर्वा ज्ञात्वाऽजेयं महासुरम् ॥५१॥

बन्धनाय मतिं चक्रे धुन्धोर्धर्मध्वजस्य वै ।

ततः कृत्वा स भगवान् वामनं रुपमीश्वरः ॥५२॥

देहं त्यक्त्वा निरालम्बं काष्ठवद देविकाजले ।

क्षणान्मज्जंस्तथोन्मज्जन्मुक्तकेशो यदृच्छया ॥५३॥

दृष्टोऽथ दैत्यपतिना दैत्यैश्चान्यैस्तथर्षिभिः ।

ततः कर्म परित्यज्य यज्ञियं ब्राह्मणोत्तमाः ॥५४॥

समुत्तारयितुं विप्रमाद्रवन्त समाकुलाः ।

सदस्या यजमानश्च ऋत्विजोऽथ महौजसः ॥५५॥

निमज्जमानमुज्जह्लुः सर्वे ते वामनं द्विजम् ।

समुत्तार्य प्रसन्नास्ते प्रप्रच्छुः सर्व एव हि ।

किमर्थं पतितोऽसीह केनाक्षिप्तोऽसि नो वद ॥५६॥

तेषामाकर्ण्य वचनं कम्पमानो मुहुर्मुहुः ।

प्राह धुन्धुपुरोगांस्ताञ्छूयतामत्र कारणम् ॥५७॥

ब्राह्मणो गुणवानासीत् प्रभास इति विश्रुतः ।

सर्वशास्त्रार्थवित् प्राज्ञो गोत्रतश्चापि वारुणः ॥५८॥

तस्य पुत्रद्वयं जातं मन्दप्रज्ञं सुदुःखितम् ।

तत्र ज्येष्ठो मम भ्राता कनीयानपरस्त्वहम् ॥५९॥

नेत्रभास इति ख्यातो ज्येष्ठो भ्राता ममासुर ।

मम नाम पिता चक्रे गतिभासेति कौतुकात् ॥६०॥

रम्यश्चावसथो धुन्धो शुभश्चासीत् पितुर्मम ।

त्रिविष्टपगुणैर्युक्तश्चारुरुपो महासुर ॥६१॥

ततः कालेन महता आवयोः स पिता मृतः ।

तस्यौर्ध्वदेहिकं कृत्वा गृहमावां समागतौ ॥६२॥

ततो मयोक्तः स भ्राता विभजाम गृहं वयम् ।

तेनोक्तो नैव भवतो विद्यते भाग इत्यहम् ॥६३॥

कुब्जवामनखञ्जानां क्लीबानां श्वित्रिणामपि ।

उन्मत्तानां तथान्धानां धनभागो न विद्यते ॥६४॥

शय्यासनस्थानमात्रं स्वेच्छयान्नभुजक्रिया ।

एतावद दीयते तेभ्यो नार्थभागहरा हि ते ॥६५॥

एवमुक्ते मया सोक्तः किमर्थं पैतृकाद गृहात् ।

धनार्धभागर्हामि नाहं न्यायेन केन वै ॥६७॥

ममास्यां निम्नगायां तु मध्येन प्लवतो गतः ।

कालः संवत्सराख्यस्तु युष्माभिरिह चोदधृतः ॥६८॥

के भवन्तोऽत्र सम्प्राप्ताः सस्त्रेहा बान्धवा इव ।

कोऽयं च शक्रप्रतिमो दीक्षितो यो महाभुजः ॥६९॥

तन्मे सर्वं समाख्यात याथातथ्यं तपोधनाः ।

महर्द्धिसंयुता यूयं सानुकम्पाश्च मे भृशम् ॥७०॥

तद वामनवचः श्रुत्वा भार्गवा द्विजसत्तमाः ।

प्रोचुर्वयं द्विजा ब्रह्मन् गोत्रतश्चापि भार्गवा ॥७१॥

असावपि महातेजा धुन्धुर्नाम महासुरः ।

दाता भोक्ता विभक्ता च दीक्षितो यज्ञकर्मणि ॥७२॥

इत्येवमुक्त्वा देवेशं वामनं भार्गवास्ततः ।

प्रोचुर्दैत्यपतिं सर्वे वामनार्थकरं वचः ॥७३॥

दीयतामस्य दैत्येन्द्र सर्वोपस्करसंयुतम् ।

श्रीमदावसथं दास्यो रत्नानि विविधानि च ॥७४॥

इति द्विजानां वचनं श्रुत्वा दैत्यपतिर्वचः ।

प्राह द्विजेन्द्र ते दद्मि यावदिच्छसि वै धनम् ॥७५॥

दास्ये गृहं हिरण्यं च वाजिनः स्यननान् गजान् ।

प्रयच्छाम्यद्य भवतो व्रियतामीप्सितं विभो ॥७६॥

तद्वाक्यं दानवपतेः श्रुत्वा देवोऽथ वामनः ।

प्राहासुरपतिं धुन्धुं स्वार्थसिद्धिकरं वचः ॥७७॥

सोदरेणापि हि भ्रात्रा ह्नियन्ते यस्य सम्पदः ।

तस्याक्षमस्य यद्दत्तं किमन्यो न हरिष्यति ॥७८॥

दासीदासांश्च भृत्यांश्च गृहं रत्ने परिच्छदम् ।

समर्थेषु द्विजेन्द्रेषु प्रयच्छस्व महाभुज ॥७९॥

मम प्रमाणमालोक्य मामकं च पदत्रयम् ।

सम्प्रयच्छस्व दैत्येन्द्र नाधिकं रक्षितुं क्षमः ॥८०॥

इत्येवमुक्ते वचने महात्मना विहस्य दैत्याधिपतिः स ऋत्विजः ।

प्रादात द्विजेन्द्राय पदत्रयं तदा यदा स नान्यं प्रगृहाण किंचित् ॥८१॥

क्रमत्रयं तावदवेक्ष्य दत्तं महासुरेन्द्रेण विभुर्यशस्वी ।

चक्रे ततो लङ्घयितुं त्रिलोकीं त्रिविक्रमं रुपमनन्तशक्तिः ॥८२॥

कृत्वा च रुपं दितिजांश्च हत्वा प्रणम्य चर्षीन् प्रथमक्रमेण ।

महीं महीध्रैः सहितां सहार्णवां जहार रत्नाकरपत्तनैर्युताम् ॥८३॥

भुवं सनाकं त्रिदशाधिवासं सोमार्कऋक्षैरभिमण्डितं नभः ।

देवो द्वितीयेन जहार वेगात् क्रमेण देवप्रियमीप्सुरीश्वरः ॥८४॥

क्रमं तृतीयं न यदाऽस्य पूरितं तदाऽतिकोपाद दनुपुङ्गवस्य ।

पपात पृष्ठे भगवांस्त्रिविक्रमो मेरुप्रमाणेन तु विग्रहेण ॥८५॥

पतता वासुदेवेन दानवापरि नारद ।

त्रिंशद्योजनसाहस्त्री भूमेर्गर्ता दृढीकृता ॥८६॥

ततो दैत्यं समुत्पाटय तस्यां प्रक्षिप्य वेगतः ।

अवर्षत सिकतावृष्टया तां गर्तामपूरयत ॥८७॥

ततः स्वर्गं सहस्त्राक्षो वासुदेवप्रसादतः ।

सुराश्च सर्वे त्रैलोक्यमवापुर्निरुपद्रवाः ॥८८॥

भगवानपि दैत्येन्द्रं प्रक्षिप्य सिकतार्णवे ।

कालिन्द्या रुपमाधाय तत्रैवान्तरधीयत ॥८९॥

एवं पुरा विष्णुरभूच्च वामनो धुन्धुं विजेतुं च त्रिविक्रमोऽभूत् ।

यस्मिन् स दैत्येन्द्रसुतो जगाम महाश्रमे पुण्ययुतो महर्षे ॥९०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:26.8770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

एक म्हणती आंबा, तर एक म्हणतो चिंच

  • (व.) आंबा आणि चिंच हे दोन मोठे वृक्ष दोन पक्षांच्या नेत्यांचे प्रतिनिधिभूत मानले. एका मनुष्याने एक ठराव पुढे मांडला की दुसर्‍याने विरूद्ध जाऊन विरोधी ठराव आणणें 
  • अशा तर्‍हेची प्रवृत्ति, ऐक्यभाव या म्हणीनें सुचविला जातो. 
RANDOM WORD

Did you know?

चतुर्थीला चंद्र पाहूनच उपास का सोडतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.