TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ४७

श्रीवामनपुराण - अध्याय ४७

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ४७

मार्कण्डेय उवाच

स्थाणुतीर्थप्रभावं तु श्रोतुमिच्छाम्यहं मुने ।

केन सिद्धिरथ प्राप्ता सर्वपापभयापहा ॥१॥

 

सनत्कुमार उवाच

श्रृणु सर्वमशेषेण स्थाणुमाहात्म्यमुत्तमम् ।

यच्छुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः ॥२॥

एकार्णवे जगत्यस्मिन् पद्ममव्यक्तजन्मनः ।

तस्मिन् ब्रह्मा समुद्भूतः सर्वलोकपितामहः ॥३॥

तस्मान्मरीचिरभवन्मरीचेः कश्यपः सुतः ।

कश्यपादभवद भास्वांस्तस्मान्मनुरजायत ॥४॥

मनोस्तु क्षुवतः पुत्र उत्पन्नो मुखसंभवः ।

पृथिव्या चतुरन्तायां राजासीद धर्मरक्षिता ॥५॥

तस्य पत्नी बभूवाथ भया नाम भयावहा ।

मृत्योः सकासादुत्पन्ना कालस्य दुहिता तदा ॥६॥

तस्यां समभवद वेनो दुरात्मा वेदनिन्दकः ।

स दृष्ट्वा पुत्रवदनं क्रुद्धो राजा वनं ययौ ॥७॥

तत्र कृत्वा तपो घोरं धर्मेणावृत्य रोदसी ।

प्राप्तवान् ब्रह्मसदनं पुनरावृत्तिदुर्लभम् ॥८॥

वेनो राजा समभवत् समस्ते क्षितिमण्डले ।

स मातामहदोषेण तेन कालात्मजात्मजः ॥९॥

घोषयामास नगरे दुरात्मा वेदनिन्दकः ।

न दातव्यं न यष्टव्यं न होतव्यं कदाचन ॥१०॥

अहमेकोऽत्र वै वन्द्यः पूज्योऽहं भवतां सदा ।

मया हि पालिता यूयं निवसध्वं यथासुखम् ॥११॥

तन्मत्तोऽन्यो न देवोऽस्ति युष्माकं यः परायणम् ।

एतच्छुत्वा तु वचनमृषयः सर्व एव ते ॥१२॥

परस्परं समागम्य राजानं वाक्यमब्रुवन् ।

श्रुतिः प्रमाणं धर्मस्य ततो यज्ञः प्रतिष्ठितः ॥१३॥

यज्ञैर्विना नो प्रीयन्ते देवाः स्वर्गनिवासिनः ।

अप्रीता न प्रयच्छन्ति वृष्टिं सस्यस्य वृद्धये ॥१४॥

तस्माद् यज्ञैश्च देवैश्च धार्यते सचराचरम् ।

एतच्छुत्वा क्रोधदृष्टिर्वेनः प्राह पुनः पुनः ॥१५॥

न यष्टव्यं न दातव्यमित्याह क्रोधमूर्च्छितः ।

ततः क्रोधसमाविष्टा ऋषयः सर्व एव ते ॥१६॥

निजघ्नुर्मन्त्रपूतैस्ते कुशैर्वज्रसमन्वितैः ।

ततस्त्वराजके लोके तमसा संवृते तदा ॥१७॥

दस्युभिः पीड्यमानास्तान् ऋषींस्ते शरणं ययुः ।

ततस्ते ऋषयः सर्वे ममन्थुस्तस्य वै करम् ॥१८॥

सव्यं तस्मात् समुत्तस्थौ पुरुषो हस्वदर्शनः ।

तमूचुऋषयः सर्वे निषीदतु भवानिति ॥१९॥

तस्मान्निषादा उत्पन्ना वेनकल्मषसंभवाः ।

ततस्ते ऋषयः सर्वे ममन्थुर्दक्षिणं करम् ॥२०॥

मथ्यमाने करे तस्मिन् उत्पन्नः पुरुषोऽपरः ।

बृहत्सालप्रतीकाशो दिव्यलक्षणलक्षितः ॥२१॥

धनुर्बाणाङ्कितकरश्चक्रध्वजसमन्वितः ।

तमुत्पन्नं तदा दृष्ट्वा सर्वे देवाः सवासवाः ॥२२॥

अभ्यषिञ्चन् पृथिव्यां तं राजानं भूमिपालकम् ।

ततः स रञ्जयामास धर्मेण पृथिवीं तदा ॥२३॥

पित्राऽपराञ्जिता तस्य तेन सा परिपालिता ।

तत्र राजेतिशब्दोऽस्य पृथिव्या रञ्जनादभूत् ॥२४॥

स राज्यं प्राप्य तेभ्यस्तु चिन्तयामास पार्थिवः ।

पिता मम अधर्मिष्ठो यज्ञव्युच्छित्तिकारकः ॥२५॥

कथं तस्य क्रिया कार्या परलोकसुखावहा ।

इत्येवं चिन्तयानस्य नारदोऽभ्याजगाम ह ॥२६॥

तस्मै स चासनं दत्त्वा प्रणिपत्य च पृष्टवान् ।

भगवन् सर्वलोकस्य जानासि त्वं शुभाशुभम् ॥२७॥

पिता मम दुराचारो देवब्राह्मणनिन्दकः ।

स्वकर्मरहितो विप्र परलोकमवाप्तवान् ॥२८॥

ततोऽब्रवीन्नारदस्तं ज्ञात्वा दिव्येन चक्षुषा ।

म्लेच्छमध्ये समुत्पन्नं क्षयकुष्ठसमन्वितम् ॥२९॥

तच्छुत्वा वचनं तस्य नादस्य महात्मनः ।

चिन्तयामास दुःखार्त्तः कथं कार्यं मया भवेत् ॥३०॥

इत्येवं चिन्तयानस्य मतिर्जाता महात्मनः ।

पुत्रः स कथ्यते लोके यः पितृंस्त्रायते भयात् ॥३१॥

एवं संचिन्त्य स तदा नारदं पृष्टवान् मुनिम् ।

तारणं मत्पितुस्तस्य मया कार्यं कथं मुने ॥३२॥

नारद उवाच

गच्छ त्वं तस्य तं देहं तीर्थेषु कुरु निर्मलम् ।

यत्र स्थाणोर्महत्तीर्थं सरः संनिहितं प्रति ॥३३॥

एतच्छुत्वा तु वचनं नारदस्य महात्मनः ।

सचिव राज्यमाधाय राजा स तु जगाम ह ॥३४॥

स गत्वा चोत्तरां भूमिं म्लेच्छमध्ये ददर्श ह ।

कुष्णरोगेण महता क्षयेण च समन्वितम् ॥३५॥

ततः शोकेन महता संतप्तो वाक्यमब्रवीत् ।

हे म्लेच्छा नौमि पुरुषं स्वगृहं च नयाम्यहम् ॥३६॥

तत्राहमेनं निरुजं करिष्ये यदि मन्यथ ।

तथेति सर्वे ते म्लेच्छाः पुरुषं तं दयापरम् ॥३७॥

ऊचुः प्रणतसर्वाङ्गा यथा जानासि तत्कुरु ।

तत आनीय पुरुषाज्शिविकावाहनोचितान् ॥३८॥

दत्त्वा शुल्कं च द्विगुणं सुखेन नयत द्विजम् ।

ततः श्रुत्वा तु वचनं तस्य राज्ञो दयावतः ॥३९॥

गृहीत्वा शिविकां क्षिप्रं कुरुक्षेत्रेण यान्ति ते ।

तत्र नीत्वा स्थाणुतीर्थे अवतार्य च ते गताः ॥४०॥

ततः स राजा मध्याह्ने तं स्त्रापयति वै तदा ।

ततो वायुरन्तरिक्षे इदं वचनमब्रवीत् ॥४१॥

मा तात साहसं कार्षीस्तीर्थे रक्ष प्रयत्नतः ।

अयं पापेन घोरेण अतीव परिवेष्टितः ॥४२॥

वेदनिन्दा महत्पापं यस्यान्तो नैव लभ्यते ।

सोऽयं स्त्रानान्महत्तीर्थं नाशयिष्यति तत्क्षणात् ॥४३॥

एतद वायोर्वचः श्रुत्वा दुःखेन महताऽन्वितः ।

उवाच शोकसंतप्तस्तस्य दुःखेन दुःखितः ।

एष घोरेण पापेन अतीव परिवेष्टितः ॥४४॥

प्रायश्चित्तं करिष्येऽहं यदवदिष्यन्ति देवताः ।

ततस्ता देवताः सर्वा इदं वचनमब्रुवन् ॥४५॥

स्त्रात्वा स्त्रात्व च तीर्थेषु अभिषिञ्चस्व वारिणा ।

ओजसा चुलुकं यावत् प्रतिकूले सरस्वतीम् ॥४६॥

स्त्रात्वा मुक्तिमवाप्नोति पुरुषः श्रद्धायान्वितः ।

एष स्वपोषणपरो देवदूषणतत्परः ॥४७॥

ब्राह्मणैश्च परित्यक्तो नैष शुद्ध्यति कर्हिचित् ।

तस्मादेनं समुद्दिश्य स्त्रात्वा तीर्थेषु भक्तितः ॥४८॥

अभिषिञ्चस्व तोयेन ततः पूतो भविष्यति ।

इत्येतद्वचनं श्रुत्वा कृत्वा तस्याश्रमं ततः ॥४९॥

तीर्थयात्रां ययौ राजा उद्दिश्य जनकं स्वकम् ।

स तेषु प्लावनं कुर्वंस्तीर्थेषु च दिने दिने ॥५०॥

अभ्यषिञ्चत् स्वपितरं तीर्थतोयेन नित्यशः ।

एतस्मिन्नेव काले तु सारमेयो जगाम ह ॥५१॥

स्थाणोर्मठे कौलपतिर्देवद्रव्यस्य रक्षिता ।

परिग्रहस्य द्रव्यस्य परिपालयिता सदा ॥५२॥

प्रियश्च सर्वलोकेषु देवकार्यपरायणः ।

तस्यैवं वर्त्तमानस्य धर्ममार्गे स्थितस्य च ॥५३॥

कालेन चलिता बुद्धिर्देवद्रव्यस्य नाशने ।

तेनाधर्मेण युक्तस्य परलोकगतस्य च ॥५४॥

दृष्ट्वा यमोऽब्रवीद वाक्यं श्वयोनिं व्रज मा चिरम् ।

तद्वाक्यानन्तरं जातः श्वा वै सौगान्धिके वने ॥५५॥

ततः कालेन महता श्वयूथपरिवारितः ।

परिभूतः सरमया दुःखेन महता वृतः ॥५६॥

त्यक्त्वा द्वैतवनं पुण्यं सान्निहत्यं ययौ सरः ।

तस्मिन् प्रविष्टमात्रस्तु स्थाणोरेव प्रसादतः ॥५७॥

अतीव तृषया युक्तः सरस्वत्यां ममज्ज ह ।

तत्र संप्लुतदेहस्तु विमुक्तः सर्वकिल्बिषैः ॥५८॥

आहारलोभेन तदा प्रविवेश कुटीरकम् ।

प्रविशन्तं तदा दृष्ट्वा श्वानं भयसमन्वितः ॥५९॥

स तं पस्पर्श शनकैः स्थाणुतीर्थे ममज्ज ह ।

पततः पूर्वतीर्थेषु विप्रुषैः परिषिञ्चतः ॥६०॥

शुनोऽस्य गात्रसम्भूतैरब्बिन्दुभिः स सिञ्चितः ।

विरक्तदृष्टिश्च शुनः क्षेपेण च ततः परम् ॥६१॥

स्थाणुतीर्थस्य माहात्म्यात् स पुत्रेण च तारितः ।

नियतस्तत्क्षणाज्जातो दिव्यदेहसमन्वितः ।

प्रणिपत्य तदा स्थाणुं स्तुतिं कर्तुं प्रचक्रमे ॥६२॥

वेन उवाच

प्रपद्ये देवमीशानं त्वामजं चन्द्रभूषणम् ।

महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥६३॥

नमस्ते देवदेवेश सर्वशत्रुनिषूदन ।

देवेश बलिविष्टम्भ देवदैत्यैश्च पूजित ॥६४॥

विरुपाक्ष सहस्त्राक्ष त्र्यक्ष यक्षेश्वरप्रिय ।

सर्वतः पाणीपादान्त सर्वतोऽक्षिशिरोमुख ॥६५॥

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठसि ।

शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय ॥६६॥

गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते ।

शतजिह्व शतावर्त शतोदर शतानन ॥६७॥

गायन्ति त्वां गायत्रिणो ह्यर्चयन्त्यर्क्कमर्चिणः ।

ब्रह्माणं त्वा शतक्रतो उद्वंशमिव मेनिरे ॥६८॥

मूर्तौ हि ते महामूर्ते समुद्राम्बुधरास्तथा ।

देवताः सर्व एवात्र गोष्ठे गाव इवासते ॥६९॥

शरीरे तव पश्यामि सोममग्निं जलेश्वरम् ।

नारायणं तथा सूर्य ब्रह्माणं च बृहस्पतिम् ॥७०॥

भगवन् कारणं कार्यं क्रियाकरणमेव तत् ।

प्रभवः प्रलयश्चैव सदसच्चापि दैवतम् ॥७१॥

नमो भवाय शर्वाय वरदायोग्ररुपिणे ।

अन्धकासुरहन्त्रे च पशूनां पतये नमः ॥७२॥

त्रिजटाय त्रिशीर्षाय त्रिशूलासक्तपाणये ।

त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्न नमोऽस्तु ते ॥७३॥

नमो मुण्डाय चण्डाय अण्डायोत्पत्तिहेतवे ।

डिण्डिमासकहस्ताय डिण्डिमुण्डाय ते नमः ॥७४॥

नमोर्ध्वकेशदंष्ट्राय शुष्काय विकृताय च ।

धूम्रलोहितकृष्णाय नीलग्रीवाय ते नमः ॥७५॥

नमोऽस्त्वप्रतिरुपाय विरुपाय शिवाय च ।

सूर्यमालाय सूर्याय स्वरुपध्वजमालिने ॥७६॥

नमो मानातिमानाय नमः पटुतराय ते ।

नमो गणेन्द्रनाथाय वृषस्कन्धाय धन्विने ॥७७॥

संक्रन्दनाय चण्डाय पर्णधारपुटाय च ।

नमो हिरण्यवर्णाय नमः कनकवर्चसे ॥७८॥

नमः स्तुताय स्तुत्याय स्तुतिस्थाय नमोऽस्तु ते ।

सर्वाय सर्वभक्षाय सर्वभूतशरीरिणे ॥७९॥

नमो होत्रे च हन्त्रे च सितोदग्रपताकिने ।

नमो नम्याय नम्राय नमः कटकटाय च ॥८०॥

नमोऽस्तु कृशनाशाय शायितायोत्थिताय च ।

स्थिताय धावमानाय मुण्डाय कुटिलाय च ॥८१॥

नमो नर्त्तनशीलाय लयवादित्रशालिने ।

नाट्योपहारलुब्धाय मुखवादित्रशालिने ॥८२॥

नमो ज्येष्ठाय श्रष्ठाय बलातिबलघातिने ।

कालनाशाय कालाय संसारक्षयरुपिणे ॥८३॥

हिमवददुहितुः कान्त भैरवाय नमोऽस्तु ते ।

उग्राय च नमो नित्यं नमोऽस्तु दशबाहवे ॥८४॥

चितिभस्माप्रियायैव कपालासक्तपाणये ।

विभीषणाय भीष्माय भीमव्रतधराय च ॥८५॥

नमो विकृतवक्त्राय नमः पूतोग्रदृष्टये ।

पक्वाममांसलुब्धाय तुम्बिवीणाप्रियाय च ॥८६॥

नमो वृषाङ्क्तवृक्षाय गोवृषाभिरुते नमः ।

कटङ्कटाय भीमाय नमः परपराय च ॥८७॥

नमः सर्ववरिष्ठाय वराय वरदायिने ।

नमो विरक्तरक्ताय भावनायाक्षमालिने ॥८८॥

विभेदभेदभिन्नाय छायायै तपनाय च ।

अघोरघोररुपाय घोरघोरतराय च ॥८९॥

नमः शिवाय शान्ताय नमः शान्ततमाय च ।

बहुनेत्रकपालाय एकमूर्ते नमोऽस्तु ते ॥९०॥

नमः क्षुद्राय लुब्धाय यज्ञभागाप्रियाय च ।

पञ्चालाय सिताङ्गाय नमो यमनियामिने ॥९१॥

नमश्चित्रोरुघण्टाय घण्टाघण्टनिघण्टिने ।

सहस्त्रशतघण्टाय घण्टामालविभूषिणे ॥९२॥

प्राणसंघट्टगर्वाय नमः किलिकिलिप्रिये ।

हुंहुंकाराय पाराय हुंहुंकारप्रियाय च ॥९३॥

नमः समसमे नित्यं गृहवृक्षनिकेतिने ।

गर्भमांसश्रृगालाय तारकाय तराय च ॥९४॥

नमो यज्ञाय यजिने हुताय प्रहुताय च ।

यज्ञवाहाय हव्याय तप्याय तपनाय च ॥९५॥

नमस्तु पयसे तुभ्यं तुण्डानां पतये नमः ।

अन्नदायान्नपतये नमो नानान्नभोजिने ॥९६॥

नमः सहस्त्रशीर्षाय सहस्त्रचरणाय च ।

सहस्त्रोद्यतशूलाय सहस्त्राभरणाय च ॥९७॥

बालानुचरगोप्त्रे च बाललीलाविलासिने ।

नमो बालाय वृद्धाय क्षुब्धाय क्षोभणाय च ॥९८॥

गङ्गालुलितकेशाय मुञ्जकेशाय वै नमः ।

नमः षट्कर्मतुष्टाय त्रिकर्मनिरताय च ॥९९॥

नग्नप्राणाय चण्डाय कृशाक्य स्फोटनाय च ।

धर्मार्थकाममोक्षाणां कथ्याय कथना च च ॥१००॥

साङ्ख्याय साङ्ख्यमुख्याय साङ्ख्ययोगमुखाय च ।

नमो विरथरथ्याय चतुष्पथरथाय च ॥१०१॥

कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ।

वक्त्रसंधानकेशाय हरिकेश नमोऽस्तु ते ।

त्र्यम्बिकाऽम्बिकनाथाय व्यक्ताव्यक्ताय वेधसे ॥१०२॥

कामकामदकामघ्न तृप्तातृप्तविचारिणे ।

नमः सर्वद पापघ्न कल्पसंख्याविचारिणे ॥१०३॥

महासत्त्व महाबाहो महाबल नमोऽस्तु ते ।

महामेघ महाप्रख्य महाकाल महाद्युते ॥१०४॥

मेघावर्त्त युगावर्त्त चन्द्रार्कपतये नमः ।

त्वमन्नमन्नभोक्ता च पक्वभुक् पावनोत्तम ॥१०५॥

जरायुजाण्डजाश्चैव स्वेदजोद्भिदजाश्च ये ।

त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः ॥१०६॥

स्त्रष्टा चराचरस्यास्य पाता हन्ता तथैव च ।

त्वामाहुर्ब्रह्म विद्वांसो ब्रह्म ब्रह्मविदां गतिम् ॥१०७॥

मनसः परमज्योतिस्वं वायुर्ज्योतिषामपि ।

हंसवृक्षे मधुकरमाहुस्त्वां ब्रह्मवादिनः ॥१०८॥

यजुर्मयो ऋडमयस्त्वामाहुः साममयस्तथा ।

पठ्यसे स्तुतिभिर्नित्यं वेदोपनिषदां गणैः ॥१०९॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये ।

त्वमेव मेघसंघाश्च विद्युतोऽशनिगर्जितम्‍ ॥११०॥

संवत्सरस्त्वमृतवो मास्को मासार्धमेव च ।

युगा निमेषाः काष्ठाश्च नक्षत्राणि ग्रहाः कलाः ॥१११॥

वृक्षाणां ककुभोऽसि त्वं गिरिणां हिमवान् गिरिः ।

व्याघ्रो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥११२॥

क्षीरोदोऽस्युदधीनां च यन्त्राणां धनुरेव च ।

वज्रं प्रहरणानां च व्रतानां सत्यमेव च ॥११३॥

त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमे ।

व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥११४॥

त्वं शरी त्वं गदी चापि खटवाङ्गी च शरासनी ।

छेत्ता भेता प्रहर्ताऽसि मन्ता नेता सनातनः ॥११५॥

दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च ।

समुद्राः सरितो गङ्गा पर्वताश्च सरांसि च ॥११६॥

लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः ।

द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥११७॥

आदिश्चान्तश्च वेदानां गायत्री प्रणवस्तथा ।

लोहितो हरितो नीलः कृष्णः पीतः सितस्तथा ॥११८॥

कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा ।

सवर्णश्चाप्यवर्णश्च कर्त्ता हर्त्ता त्वमेव हि ॥११९॥

त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनिलः ।

उपप्लवश्चित्रभानुः स्वर्भानुर्भानुरेव च ॥१२०॥

शिक्षाहौत्रं त्रिसौपर्णं यजुषां शतरुद्रियम् ।

पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ॥१२१॥

तिन्दुको गिरिजो वृक्षो मुद्रं चाखिलजीवनम् ।

प्राणाः सत्त्वं रजश्चैव तमश्च र्पतिपत्पतिः ॥१२२॥

प्राणोऽपानः समानश्च उदानो व्यान एव च ।

उन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च ॥१२३॥

लोहितान्तर्गतो दृष्टिर्महावक्त्रो महोदरः ।

शुचिरोमा हरिश्मश्रुरुर्ध्वकेशश्चलाचलः ॥१२४॥

गीतवादित्रनृत्यज्ञो गीतवादित्रकप्रियः ।

मत्स्यो जालो जलौकाश्च कालः केलिकला कलिः ॥१२५॥

अकालश्च विकालश्च दुष्कालः काल एव च ।

मृत्युश्च मृत्युकर्ता च यक्षो यक्षभयंकरः ॥१२६॥

संवर्त्तकोऽन्तकश्चैव संवर्त्तकबलाहकः ।

घण्टा घण्टी महाघण्टी चिरी माली च मातलिः ॥१२७॥

ब्रह्मकालयमाग्नीनां दण्डी मुण्डी त्रिमुण्डधृक् ।

चतुर्युगश्चतुर्वेदश्चातुर्होत्रप्रवर्तकः ॥१२८॥

चातुराश्रम्यनेता च चातुर्वर्ण्यकरस्तथा ।

नित्यमक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः ॥१२९॥

रक्तमाल्याम्बरधरो गिरिको गिरिकप्रियः ।

शिल्पं च शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्त्तकः ॥१३०॥

भगनेत्राङ्कुशश्चण्डः पूष्णो दन्तविनाशनः ।

स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः ॥१३१॥

गूढव्रतो गुह्यतपास्तारकास्तारकामयः ।

धाता विधाता संधाता पृथिव्या धरणोऽपरः ॥१३२॥

ब्रह्मा तपश्च सत्यं च व्रतचर्यमथार्जवम् ।

भूतात्मा भूतकृद भूतिर्भूतभव्यभवोद्भवः ॥१३३॥

भूर्भुवः स्वऋतं चैव ध्रुवो दान्तो महेश्वरः ।

दीक्षितोऽदीक्षितः कान्तो दुर्दान्तो दान्तसम्भवः ॥१३४॥

चन्द्रावर्तो युगावर्त्तः संवर्त्तकप्रवर्त्तकः ।

बिन्दुः कामो ह्नणुः स्थूलः कर्णिकारस्त्रजप्रियः ॥१३५॥

नन्दीमुखो भीममुखः सुमुखो दुर्मुखस्तथा ।

हिरण्यगर्भः शकुनिर्महोरगपतिर्विराट् ॥१३६॥

अधर्महा महादेवो दण्डधारो गणोत्कटः ।

गोनर्दो गोप्रतारश्च गोवृषेश्वरवाहनः ॥१३७॥

त्रैलोक्यगोप्ता गोविन्दो गोमार्गो मार्ग एव च ।

स्थिरः श्रेष्ठश्च स्थाणुश्च विक्रोशः क्रोध एव च ॥१३८॥

दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ।

दुर्द्धर्षो दुष्प्रकाशश्च दुर्दर्शो दुर्जयो जयः ॥१३९॥

शशाङ्क्तानलशीतोष्णः क्षुत्तृष्णा च निरामयः ।

आधयो व्याधयश्चैव व्याधिहा व्याधिनाशनः ॥१४०॥

समूहश्च समूहस्य हन्ता देवः सनातनः ।

शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः ॥१४१॥

त्र्यम्बको दण्डधारश्च उग्रदंष्ट्रः कुलान्तकः ।

विषापहः सुरश्रेष्ठः सोमपास्त्वं मरुत्पते ।

अमृताशी जगन्नाथो देवदेव गणेश्वरः ॥१४२॥

मधुश्च्युतानां मधुपो ब्रह्मवाक् त्वं घृतच्युत ।

सर्वलोकस्य भोक्ता त्वं सर्वलोकपितामहः ॥१४३॥

हिरण्यरेताः पुरुषस्त्वमेकः त्वं स्त्री पुमांस्त्वं हि नपुंसकं च ।

बालो युवा स्थविरो देवदंष्ट्रा त्वन्नो गिरिर्विश्वकृद विश्वहर्ता ॥१४४॥

त्वं वै धाता विश्वकृतां वरेण्यस्त्वां पूजयन्ति प्रणताः सदैव ।

चन्द्रादित्यौ चक्षुषी ते भवान् हि त्वमेव चाग्निः प्रपितामहश्च ।

आराध्य त्वां सरस्वतीं वाग्लभन्ते अहोरात्रे निमिषोन्मेषकर्त्ता ॥१४५॥

न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते ।

माहात्म्यं वेदितुं शक्ता याथातथ्येन शंकर ॥१४६॥

पुंसां शतसहस्त्राणि यत्समावृत्य तिष्ठति ।

महतस्तमसः पारे गोप्ता मन्ता भवान् सदा ॥१४७॥

यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः ।

ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥१४८॥

या मूर्तयश्च सूक्ष्मास्ते न शक्या या निदर्शितुम् ।

ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् ॥१४९॥

रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ।

भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥१५०॥

जटिने दण्डिने नित्यं लम्बोदरशरीरिणे ।

कमण्डलुनिषङ्गाय तस्मै रुद्रात्मने नमः ॥१५१॥

यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ।

कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥१५२॥

संभक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते ।

यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥१५३॥

प्रविश्य वदनं राहोर्यः सोमं पिबते निशि ।

ग्रसत्यर्कं च स्वर्भानू रक्षितस्तव तेजसा ॥१५४॥

ये चात्र पतिता गर्भा रुद्रगन्धस्य रक्षणे ।

नमस्तेऽस्तु स्वधा स्वाहा प्राप्नुवन्ति तदद्भुते ॥१५५॥

येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् ।

रक्षन्तु ते हि मां नित्यं ते मामाप्याययन्तु वै ॥१५६॥

ये नदीषु समुद्रेषु पर्वतेषु गुहासु च ।

वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥१५७॥

चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च ।

हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥१५८॥

ये च पञ्चसु भूतेषु दिशासु विदिशासु च ।

चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥१५९॥

रसातलगता ये च ये च तस्मात् परं गताः ।

नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः ॥१६०॥

येषां न विद्यते संख्या प्रमाणं रुपमेव च ।

असंख्येयगणा रुद्रा नमस्तेभ्योऽस्तु नित्यशः ॥१६१॥

प्रसीद मम भद्रं ते तव भावगतस्य च ।

त्वयि मे हदयं देव त्वयि बुद्धिर्मतिस्त्वयि ॥१६२॥

स्तुत्वैवं स महादेवं विरराम द्विजोत्तमः ॥१६३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:57.0000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

large deviation

  • विशाल विचलन 
RANDOM WORD

Did you know?

संत ज्ञानेश्वरांनि हे म्हटले आहे का ?
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site