TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ५४

श्रीवामनपुराण - अध्याय ५४

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ५४

पुलस्त्य उवाच

ततो गिरौ वसन् रुद्रः स्वेच्छया विचरन् मुने ।

विश्वकर्माणमाहूय प्रोवाच कुरु मे गृहम् ॥१॥

ततश्चकार शर्वस्य गृहं स्वस्तिकलक्षणम् ।

योजनानि चतुः षष्टिः प्रमाणेन हिरण्मयम् ॥२॥

दन्ततोरणनिर्व्यूहं मुक्ताजालान्तरं शुभम् ।

शुद्धस्फटिकसोपानं वैडूर्यकृतरुपकम् ॥३॥

सप्तकक्षं सुविस्तीर्णं सर्वैः समुदितं गुणैः ।

ततो देवपतिश्चके यज्ञं गार्हस्थ्यलक्षणम् ॥४॥

तं पूर्वचरितं मार्गमनुयाति स्म शङ्करः ।

तथा सतस्त्रिनेत्रस्य महान् कालोऽभ्यगान्मुने ॥५॥

रमतः सह पार्वत्या धर्मापेक्षी जगत्पतिः ।

ततः कदाचिन्नर्मार्थं कालीत्युक्ता भवेन हि ॥६॥

पार्वती मन्युनाविष्टा शङ्करं वाक्यमब्रवीत् ।

संरोहतीषुणा विद्धं वनं परशुना हतम् ।

वाचा दुरुक्तं बीभत्सं न प्ररोहति वाक्क्षतम् ॥७॥

वाक्सायका वदनान्निष्पतन्ति तैराहतः शोचति रात्र्यहानि ।

न तान् विमुञ्चेत हि पण्डितो जनस्तमद्य धर्मं वितथं त्वया कृतम् ॥८॥

तस्माद् व्रजामि देवेश तपस्तप्तुमनुत्तमम् ।

तथा यतिष्ये न यथा भवान् कालीति वक्ष्यति ॥९॥

इत्येवमुक्त्वा गिरिजा प्रणम्य च महेश्वरम् ।

अनुज्ञाता त्रिनेत्रेण दिवमेवोत्पपात ह ॥१०॥

समुत्पत्य च वेगेन हिमाद्रिशिखरं शिवम् ।

टङ्कच्छिन्नं प्रयत्नेन विधात्रा निर्मित्तं यथा ॥११॥

ततोऽवतीर्य सस्मार जयां च विजयां तथा ।

जयन्तीं च महापुण्यां चतुर्थीमपराजिताम् ॥१२॥

ताः संस्मृताः समाजग्मुः कालीं द्रष्टुं हि देवताः ।

अनुज्ञातास्तथा देव्या शुश्रूषां चक्रिरे शुभाः ॥१३॥

ततस्तपति पार्वत्यां स्थितायां हिमवद्वनात् ।

समाजगाम तं देशं व्याघ्रो दंष्ट्रानखायुधः ॥१४॥

एकपादस्थितायां तु देव्यां व्याघ्रस्त्वचिन्तयत् ।

यदा पतिष्यते चेयं तदादास्यामि वै अहम् ॥१५॥

इत्येवं चिन्तयन्नेव दत्तदृष्टिर्मृगाधिपः ।

पश्यमानस्तु वदनमेकदृष्टिरजायत ॥१६॥

ततो वर्षशतं देवी गृणन्ती ब्रह्मणः पदम् ।

तपोऽतप्यत् ततोऽभ्यागाद ब्रह्मा त्रिभुवनेश्वरः ॥१७॥

पितामहस्ततोवाच देवीं प्रीतोऽस्मि शाश्वते ।

तपसा धूतपापाऽसि वरं वृणु यथेप्सितम् ॥१८॥

अथोवाच वचः काली व्याघ्रस्य कमलोद्भव ।

वरदो भव तेनाहं यास्ये प्रीतिमनुत्तमाम् ॥१९॥

ततः प्रादाद वरं ब्रह्मा व्याघ्रस्याद्भुतकर्मणः ।

गाणपत्यं विभौ भक्तिमजेयत्वं च धर्मिताम् ॥२०॥

वरं व्याघ्राय दत्त्वैवं शिवकान्तामथाऽब्रवीत् ।

वृणीष्व वरमव्यग्रा वरं दास्ये तवाऽम्बिके ॥२१॥

ततो वरं गिरिसुता प्राह देवी पितामहम् ।

वरः प्रदीयतां मह्यं वर्णं कनकसंनिभम् ॥२२॥

तथेत्य्युक्त्वा गतो ब्रह्मा पार्वती चाभवत् ततः ।

कोशं कृष्णं परित्यज्य पद्मकिञ्जल्कसन्निभा ॥२३॥

तस्मात् कोशाच्च संजाता भूयः कात्यायनी मुने ।

तामभ्येत्य सहस्त्राक्षः प्रतिजग्राह दक्षिणाम् ।

प्रोवाच गिरिजां देवो वाक्यं स्वार्थाय वासवः ॥२४॥

इन्द्र उवाच

इयं प्रदीयतां मह्यं भगिनी मेऽस्तु कौशिकी ।

त्वत्कोशसम्भवा चेयं कौशिकी कौशिकोऽप्यहम् ॥२५॥

तां प्रादादिति संश्रुत्य कौशिकीं रुपसंयुताम् ।

सहस्त्राक्षोऽपि तां गृह्य विन्ध्यं वेगाज्जगाम च ॥२६॥

तत्र गत्वा त्वथोवाच तिष्ठस्वात्र महाबले ।

पूज्यमाना सुरैर्नाम्ना ख्याता त्वं विन्ध्यवासिनी ॥२७॥

तत्र स्थाप्य हरिर्देवी दत्त्वा सिंहं च वाहनम् ।

भवामरारिहन्त्रीत्युक्त्वा स्वर्गमुपागमत् ॥२८॥

उमाऽपि तं वरं लब्ध्वा मन्दरं पुनरेत्य च ।

प्रणम्य च महेशानं स्थिता सविनयं मुने ॥२९॥

ततोऽमरगुरुः श्रीमान् पार्वत्या सहितोऽव्ययः ।

तस्थौ वर्षसहस्त्रं हि सहामोहनके मुने ॥३०॥

महामोहस्थिते रुद्रे भुवनाश्चेलुरुद्धताः ।

चक्षुभुः सागराः सप्त देवाश्च भयमागमन् ॥३१॥

ततः सुराः सहेन्द्रेण ब्रह्मणः सदनं गताः ।

प्रणम्योचुर्महेशानं जगत् क्षुब्धं तु किं त्विदम् ॥३२॥

तानुवाच भवो नूनं महामोहनके स्थितः ।

तेनाक्रान्तास्त्विमे लोका जग्मुः क्षोभं दुरत्ययम् ॥३३॥

इत्युक्त्वा सोऽभवत् तूष्णीं ततोऽप्यूचुः सुरा हरिम् ।

आगच्छ शक्र गच्छामो यावत् तन्न समाप्यते ॥३४॥

समाप्ते मोहने बालो यः समुत्पत्स्यतेऽव्ययः ।

स नूनं देवराजस्य पदमैन्द्रं हरिष्यति ॥३५॥

ततोऽमराणां वचनाद विवेको बलघातिनः ।

भयाञ्ज्ञानं ततो नष्टं भाविकर्मप्रचोदनात् ॥३६॥

ततः शक्रः सुरैः सार्धं वह्निना च सहस्त्रदृक् ।

जगाम मन्दरगिरिं तच्छृङ्गे न्यविशत्ततः ॥३७॥

अशक्ताः सर्व एवैते प्रवेष्टं तदभवाजिरम् ।

चिन्तायित्वा तु सुचिरं पावकं ते व्यसर्जयन् ॥३८॥

स चाभ्येत्य सुरश्रेष्ठो दृष्ट्वा द्वारे च नन्दिनम् ।

दुष्प्रवेशं च तं मत्वा चिन्तां वह्निः परां गतः ॥३९॥

स तु चिन्तार्णवे मग्नः प्रापश्यच्छम्भुसदमनः ।

निष्क्रामन्तीं महापङ्किं हंसानां विमलां तथा ॥४०॥

असावुपाय इत्युक्त्वा हंसरुपो हुताशनः ।

वञ्चयित्वा प्रतीहारं प्रविवेश हराजिरम् ॥४१॥

प्रविश्य सूक्ष्ममूर्तिश्च शिरोद शे कपर्दिनः ।

प्राह प्रहस्य गम्भीरं देवा द्वारि स्थिता इति ॥४२॥

तच्छुत्वा सहसोत्थाय परित्यज्य गिरेः सुताम् ।

विनिष्क्रान्तोऽजिराच्छर्वो वह्निना सह नारद ॥४३॥

विनिष्क्रान्ते सुरपतौ देवा मुदितमानसाः ।

शिरोभिरवनीं जग्मुः सेन्द्रार्कशशिपावकाः ॥४४॥

ततः प्रीत्या सुरानाह वदध्वं कार्यमाशु मे ।

प्रणामावनतानां वो दास्येऽहं वरमुत्तमम् ॥४५॥

देवा ऊचुः

यदि तुष्टोऽसि देवानां वरं दातुमिहेच्छसि ।

तदिदं त्यज्यतां तावन्महामैथुनमीश्वर ॥४६॥

ईश्वर उवाच

एवं भवतु संत्यक्तो मया भावोऽमरोत्तमाः ।

ममेदं तेज उद्रिक्तं कश्चिद देवः प्रतीच्छतु ॥४७॥

पुलस्त्य उवाच

इत्युक्ताः शम्भुना देवाः सेन्द्रचन्द्रदिवाकराः ।

असीदन्त यथा मग्नाः पङ्के वृन्दारका इव ॥४८॥

सीदत्सु दैवतेष्वेवं हुताशोऽभ्येत्य शङ्करम् ।

प्रोवाच मुञ्च तेजस्त्वं प्रतीच्छाम्येष शङ्कर ॥४९॥

ततो मुमोच भगवांस्तद्रेतः स्कन्नमेव तु ।

जलं तृषान्ते वै यद्वत् तैलपानं पिपासितः ॥५०॥

ततः पीते तेजसि वै शार्वे देवेन वह्निना ।

स्वस्थाः सुराः समामन्त्र्य हरं जग्मुस्त्रिविष्टपम् ॥५१॥

सम्प्रयातेषु देवेषु हरोऽपि निजमन्दिरम् ।

समभ्येत्य महादेवीमिदं वचनमब्रवीत् ॥५२॥

देवि देवैरिहाभ्येत्य यत्नात् प्रेष्य हुताशनम् ।

नीतः प्रोक्तो निषिद्धस्तु पुत्रोत्पत्तिं तवोदरात् ॥५३॥

साऽपि भर्तुर्वचः श्रुत्वा क्रुद्धा रक्तान्तलोचना ।

शशाप दैवतान् सर्वान् नष्टपुत्रोद्भवा शिवा ॥५४॥

तस्मान्नेच्छन्ति ते दुष्टा मम पुत्रमथौरसम् ।

तस्मात् ते न जनिष्यन्ति स्वासु योषित्सु पुत्रकान् ॥५५॥

एवं शप्त्वा सुरान् गौरी शौचशालामुपागमत् ।

आहूय मालिनीं स्त्रातुं मतिं चक्रे तपोधना ॥५६॥

मालिनी सुरभिं गृह्य श्लक्ष्णमुद्वर्तनं शुभा ।

देव्यङ्गमुद्वर्तयते कराभ्यां कनकप्रभम् ।

तत्स्वेदं पार्वती चैव मेने कीदृग्गुणेन हि ॥५७॥

मालिनी तूर्णमगमद गृहं स्त्रानस्य कारणात् ।

तस्यां गतायां शैलेयी मलाच्चक्रे गजाननम् ॥५८॥

चतुर्भुजं पीनवक्षं पुरुषं लक्षणान्वितम् ।

कृत्वोत्ससर्ज भूम्यां च स्थिता भद्रासने पुनः ॥५१॥

मालिनी तच्छिरः स्त्रानं ददौ विहसती तदा ।

ईषद्धासामुमा दृष्ट्वा मालिनीं प्राह नारद ॥६०॥

किमर्थं भीरु शनकैर्हससि त्वमतीव च ।

साऽथोवाच हस्माम्येवं भवत्यास्तनयः किल ॥६१॥

भविष्यतीति देवेन प्रोक्तो नन्दी गणाधिपः ।

तच्छुत्वा मम हासोऽयं संजातोऽद्य कृशोदरि ॥६२॥

यस्माद् देवैः पुत्रकामः शङ्करो विनिवारितः ।

एतच्छुत्वा वचो देवी सस्नौ तत्र विधानतः ॥६३॥

स्त्रात्वार्च्य शङ्करं भक्त्या समभ्यागाद गृहं प्रति ।

ततः शम्भुः समागत्य तस्मिन् भद्रासने त्वपि ॥६४॥

स्त्रातस्तस्य ततोऽधस्तात् स्थित् स मलपुरुषः ।

उमास्वेदं भवस्वेदं जलभूतिसमन्वितम् ॥६५॥

तत्सम्पर्कात् समुत्तस्थौ फूत्कृत्य करमुत्तमम् ।

अपत्यं हि विदित्वा च प्रीतिमान् भुवनेश्वरः ॥६६॥

तं चादाय हरो नन्दिमुवाच भगनेत्रहा ।

रुद्रः स्त्रात्वार्च्च देवादीन् वाग्भिरद्भिः पितृनपि ॥६७॥

जप्त्वा सहस्त्रनामानमुमापार्श्वमुपागतः ।

समेत्य देवीं विहसन् शङ्करः शूलधृग् वचः ॥६८॥

प्राह त्वं पश्य शैलेयि स्वसुतं गुणसंयुतम् ।

इत्युक्ता पर्वतसुता समेत्यापश्यदद्भुतम् ॥६९॥

यत्तदङ्गमलाद्दिव्यं कृतं गजमुखं नरम् ।

ततः प्रीता गिरिसुता तं पुत्रं परिषष्वजे ॥७०॥

मूर्ध्नि चैनमुपाघ्राय ततः शर्वोऽब्रवीदुमाम् ।

नायकेन विना देवि तव भूतोऽपि पुत्रकः ॥७१॥

यस्मज्जातस्ततो नाम्ना भविष्यति विनायकः ।

एष विघ्नसहस्त्राणि सुरादीनां हरिष्यति ॥७२॥

पूजयिष्यन्ति चैवास्य लोका देवि चराचराः ।

इत्येवमुक्त्वा देवास्तु दत्तवांस्तनयाय हि ॥७३॥

सहायं तु गणश्रेष्ठं नाम्ना ख्यातं घटोदरम् ।

तथा मातृगणा घोरा भूता विघ्नकराश्च ये ॥७४॥

ते सर्वे परमेशेन देव्याः प्रीत्योपपादिताः ।

देवी च स्वसुतं दृष्ट्वा परां मुदमवाप च ॥७५॥

रेमेऽथ शम्भुना सार्धं मन्दरे चारुकन्दरे ।

एवं भूयोऽभवद देवी इयं कात्यायनी विभो ।

या जघान महादैत्यौ पुरा शुम्भनिशुम्भकौ ॥७६॥

एतत् तवोक्तं वचनं शुभाख्यं यथोद्भवं पर्वततो मृडान्याः ।

स्वर्ग्यं यशस्यं च तथाघहारि आख्यानमूर्जस्करमद्रिपुत्र्याः ॥७७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:15:00.0930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Unfunded debt

  • अस्थायी ऋण 
  • अनिधिगत राजऋण 
  • अस्थायी ऋण 
  • न. (floating debt consisting of Govt. short loans, payable at fixed dates) निधिनिहित नसलेले ऋऋण 
More meanings
RANDOM WORD

Did you know?

मंदार गणेश उपासनेची सविस्तर माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site