TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ८५

श्रीवामनपुराण - अध्याय ८५

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ८५

पुलस्त्य उवाच

कश्चिदासीद द्विजद्रोग्धा पिशुनः क्षत्रियाधमः ।

परपीडारुचिः क्षुद्रः स्वभावादपि निर्घृणः ॥१॥

पर्यासिताः सदा तेन पितृदेवद्विजातयः ।

स त्वायुषि परिक्षीणे जज्ञे घोरो निशाचरः ॥२॥

तेनैव कर्मदोषेण स्वेन पापकृतां वरः ।

क्रूरैश्चके ततो वृत्तिं राक्षसत्वाद् विशेषतः ॥३॥

तस्य पापरतस्यैवं जग्मुर्वर्षशतानि तु ।

तेनैव कर्मदोषेण नान्यां व्रुत्तिमरोचयत् ॥४॥

यं यं पश्यति सत्त्वं स तं तमादाय राक्षसः ।

चखाद रौद्रकर्मासौ बाहुगोचरमागतम् ॥५॥

एवं तस्यातिदुष्टस्य कुर्वतः प्राणिनां वधम् ।

जगाम च महान् कालः परिणामं तथा वयः ॥६॥

स कदाचित् तपस्यन्तं ददर्श सरितस्तटे ।

महाभागमूर्ध्वभुजं यथावत्संयतेन्द्रियम् ॥७॥

अनया रक्षया ब्रह्मन् कृतरक्षं तपोनिधिम् ।

योगाचार्यं शुचिं दक्षं वासुदेवपरायणम् ॥८॥

विष्णुः प्राच्यां स्थितश्चक्री विष्णुर्दक्षिणतो गदी ।

प्रतीच्यां शार्ङ्गधृग्विष्णुर्विष्णुः खङ्गी ममोत्तरे ॥९॥

हषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ।

क्रोडरुपी हरिर्भूमौ नारसिंहोऽम्बरे मम ॥१०॥

क्षुरान्तममलं चक्रं भ्रमत्येतत् सुदर्शनम् ।

अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ॥११॥

गदा चेयं सहस्त्रार्चिरुद्वमन् पावको यथा ।

रक्षोभूतपिशाचानां डाकिनीनां च शातनी ॥१२॥

शार्ङ्गं विस्फूर्जितं चैव वासुदेवस्य मद्रिपून् ।

तिर्यड्मनुष्यकूष्माण्डप्रेतादीन् हन्त्वशेषतः ॥१३॥

खड्गधाराज्वलज्ज्योत्स्त्रानिर्धूता ये ममाहिताः ।

ते यान्तु सौम्यतां सद्यो गरुडेनेव पन्नगाः ॥१४॥

ये कूष्माण्डास्तथा यक्षा दैत्या ये च निशाचराः ।

प्रेता विनायकाः क्रूरा मनुष्या जृम्भकाः खगाः ॥१५॥

सिंहादयो ये पशवो दन्दशूकाश्च पन्नगाः ।

सर्वे भवन्तु मे सौम्या विष्णुचक्ररवाहताः ॥१६॥

चित्तवृत्तिहरा ये च ये जनाः स्मृतिहारकाः ।

बलौजसां च हर्तारश्छायाविध्वंसकाश्च ये ॥१७॥

ये चोपभॊगहर्तारो ये च लक्षणनाशकाः ।

कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ॥१८॥

बुद्धिस्वास्थ्यं मनः स्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।

ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् पृष्ठे पुरस्तादथ दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ।

तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ॥२०॥

यथा परं ब्रह्म हरिस्तथा परं जगत्स्वरुपश्च स एव केशवः ।

ऋतेन तेनाच्युतनामकीर्तनात् प्रणाशमेतु त्रिविधं ममाशुभम् ॥२१॥

इत्यसावात्मरक्षार्थं कृत्वा वै विष्णुपञ्जरम् ।

संस्थितोऽसावापि बली राक्षसः समुपाद्रवत् ॥२२॥

ततो द्विजनियुक्तायां रक्षायां रजनीचरः ।

निर्धूतवेगः सहसा तस्थौ मासचतुष्टयम् ॥२३॥

यावद् द्विजस्य देवर्षे समाप्तिर्वै समाधितः ।

जाते जप्यावसानेऽसौ तं ददर्श निशाचरम् ॥२४॥

दीनं हतबलोत्साहं कान्दिशीकं हतौजसम् ।

तं दृष्ट्वा कृपयाविष्टः समाश्वास्य निशाचरम् ॥२५॥

पप्रच्छागमने हेतुं स चाचष्ट यथातथम् ।

स्वभावमात्मनो द्रष्टुं रक्षया तेजसः क्षितिम् ॥२६॥

कथयित्वा च तद्रक्षः कारणं विविधं ततः ।

प्रसीदेत्यब्रवीद विप्रं निर्विण्णः स्वेन कर्मणा ॥२७॥

बहूनि पापानि मया कृतानि बहवो हताः ।

कृताः स्त्रियो मया बह्व्यो विधवाः पुत्रवर्जिताः ।

अनागसां च सत्त्वानामल्पकानां क्षयः कृतः ॥२८॥

तस्मात् पापादहं मोक्षमिच्छामि त्वत्प्रसादतः ।

पापप्रशमनायालं कुरु मे धर्मदेशनम् ॥२९॥

पापस्यास्य क्षयकरमुपदेशं प्रयच्छ मे ।

तस्य तद् वचनं श्रुत्वा राक्षसस्य द्विजोत्तमः ॥३०॥

वचनं प्राह धर्मात्मा हेतुमच्च सुभाषितम् ।

कथं क्रूरस्वभावस्य सतस्तव निशाचर ।

सहसैव समायाता जिज्ञासा धर्मवर्त्मनि ॥३१॥

राक्षस उवाच

त्वां वै समागतोऽस्म्यद्य क्षिप्तोऽहं रक्षया बलात् ।

तव संसर्गतो ब्रह्मन् जातो निर्वेद उत्तमः ॥३२॥

का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम् ।

यस्याः संसर्गमासाद्य निर्वेदं प्रापितं परम् ॥३३॥

त्वं कृपां कुरु धर्मज्ञ मय्यनुक्रोशमावह ।

यथा पापापनोदो मे भवत्वार्य तथा कुरु ॥३४॥

पुलस्त्य उवाच

इत्येवमुक्तः स मुनिस्तदा वै तेन रक्षसा ।

प्रत्युवाच महाभागो विमृश्य सुचिरं मुनिः ॥३५॥

ऋषिरुवाच

यन्मामाहोपदेशार्थं निर्विण्णः स्वेन कर्मणा ।

युक्तमेतद्धि पापानां निवृत्तिरुपकारिका ॥३६॥

करिष्ये यातुधानानां न त्वहं धर्मदेशनम् ।

तान् सम्पृच्छ द्विजान् सौम्य ये वै प्रवचने रताः ॥३७॥

एवमुक्त्वा ययौ विप्रश्चिन्तामाप स राक्षसः ।

कथं पापापनोदः स्यादिति चिन्ताकुलेन्द्रियः ॥३८॥

न चखाद स सत्त्वानि क्षुधा सम्बाधितोऽपि सन् ।

षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत् ॥३९॥

स कदाचित्क्षुधाविष्टः पर्यटन् विपुले वने ।

ददर्शाथ फलाहारमागतं ब्रह्मचारिणम् ॥४०॥

गृहीतो रक्षसा तेन स तदा मुनिदारकः ।

निराशो जीविते प्राह सामपूर्वं निशाचरम् ॥४१॥

ब्राह्मण उवाच

भो भद्र ब्रूहि यत् कार्यं गृहीतो येन हेतुना ।

तदनुब्रूहि भद्रं ते अयमस्यनुशाधि माम् ॥४२॥

राक्षस उवाच

षष्ठे काले त्वमाहारः क्षुधितस्य समागतः ।

निःश्रीकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः ॥४३॥

ब्राह्मण उवाच

यद्य वश्यं त्वया चाहं भक्षितव्यो निशाचर ।

आयास्यामि तवाद्यैव निवेद्य गुरवे फलम् ॥४४॥

गुर्वर्थमेतदागत्य यत्फलग्रहणं कृतम् ।

ममात्र निष्ठा प्राप्तस्य फलानि विनिवेदितुम् ॥४५॥

स त्वं मुहूर्तमात्रं मामत्रैव प्रतिपालय ।

निवेद्य गुरवे यावदिहागच्छाम्यहं फलम् ॥४६॥

राक्षस उवाच

षष्ठे काले न मे ब्रह्मन् कश्चिद् ग्रहणमागतः ।

प्रतिमुच्येत देवोऽपि इति मे पापजीविका ॥४७॥

एक एवात्र मोक्षस्य तव हेतुः श्रृणुष्व तत् ।

मुञ्चाम्यहमसंदिग्धं यदि तत् कुरुते भवान् ॥४८॥

ब्राह्मण उवाच

गुरोर्यन्न विरोधाय यन्न धर्मोपरोधकम् ।

तत् करिष्याम्यहं रक्षो यन्न व्रतहरं मम ॥४९॥

राक्षस उवाच

मया निसर्गतो ब्रह्मन् जातिदोषाद् विशेषतः ।

निर्विवेकेन चित्तेन पापकर्म सदा कृतम् ॥५०॥

आबाल्यान्मम पापेषु न धर्मेषु रतं मनः ।

तत्पासंक्षयान्मोक्षं प्राप्नुयां येन तद् वद ॥५१॥

यानि पापानि कर्माणि बालत्वाच्चरितानि च ।

दुष्टां योनिमिमां प्राप्य तन्मुक्तिं कथय द्विज ॥५२॥

यद्येतद् द्विजपुत्र त्वं समाख्यास्यस्यशेषतः ।

ततः क्षुधार्तान्मत्तस्त्वं नियतं मोक्षमाप्स्यसि ॥५३॥

न चेत् तत्पापशीलोऽहमत्यर्थं क्षुत्पिपासितः ।

षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः ॥५४॥

पुलस्त्य उवाच

एवमुक्तो मुनिसुतस्तेन घोरेण रक्षसा ।

चिन्तामवाप महतीमशक्तस्तदुदीरणे ॥५५॥

स विमृश्य चिरं विप्रः शरणं जातवेदसम् ।

जगाम ज्ञानदानाय संशयं परमं गतः ॥५६॥

यदि शुश्रूषितो वह्निर्गुरुशुश्रूषणादनु ।

व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः ॥५७॥

न मातरं न पितरं गौरवेण यथा गुरुम् ।

सर्वदैवावगच्छामि तथा मां पातु पावकः ॥५८॥

यथा गुरुं न मनसा कर्मणा वचसाऽपि वा ।

अवजानाम्यहं तेन पातु सत्येन पावकः ॥५९॥

इत्येवं मनसा सत्यान् कुर्वतः शपथान् पुनः ।

सप्तार्चिषा समादिष्टा प्रादुरासीत् सरस्वती ॥६०॥

सा प्रोवाच द्विजसुतं राक्षसग्रहणाकुलम् ।

मा भैर्द्विजसुताहं त्वां मोक्षयिष्यामि संकटात् ॥६१॥

यदस्य रक्षसः श्रेयो जिह्वाग्रे संस्थिता तव ।

तत् सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि ॥६२॥

अदृश्या रक्षसा तेन प्रोक्त्वेत्थं सा सरस्वती ।

अदर्शनं गता सोऽपि द्विजः प्राह निशाचरम् ॥६३॥

ब्राह्मण उवाच

श्रूयतां तव यच्छ्रेयस्तथाऽन्येषां च पापिनाम् ।

समस्तपापशुद्धर्थं पुण्योपचयदं च यत् ॥६४॥

प्रातरुत्थाय जप्तव्यं मध्याह्नेऽह्नः क्षयेऽपि वा ।

असंशयं सदा जप्यो जपतां पुष्टिशान्तिदः ॥६५॥

ॐ हरिं कृष्णं हषीकेशं वासुदेवं जनार्दनम् ।

प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥६६॥

चराचरगुरुं नाथं गोविन्दं शेषशायिनम् ।

प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ॥६७॥

शङ्खिन्नं चक्रिणं शार्ङ्गधारिणं स्रग्धरं परम् ।

प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥६८॥

दामोदरमुदाराक्षं पुण्डरीकाक्षमच्युतम् ।

प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ॥६९॥

नारायणं नरं शौरिं माधवं मधुसूदनम् ।

प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ॥७०॥

केशवं चन्द्रसूर्याक्षं कंसकेशिनिषूदनम् ।

प्रणतोऽस्मि महाबाहुं स मे पापं व्यपोहतु ॥७१॥

श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम् ।

प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ॥७२॥

यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम् ।

वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ॥७३॥

समस्तालम्बनेभ्यो यं व्यावृत्य मनसो गतिम् ।

ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ॥७४॥

सर्वगं सर्वभूतं च सर्वस्याधारमीश्वरम् ।

वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ॥७५॥

परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः ।

कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ॥७६॥

पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम् ।

न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ॥७७॥

ब्रह्मा भूत्वा जगत् सर्वं सदेवासुरमानुषम् ।

यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ॥७८॥

ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः ।

प्रभुः पुरातनो जज्ञे तमस्मि शरणं गतः ॥७९॥

ब्रह्मरुपधरं देवं जगद्योनिं जनार्दनम् ।

स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ॥८०॥

स्रष्टा भूत्वा स्थितो योगी स्थितावसुरसूदनः ।

तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥८१॥

धृता मही हता दैत्याः परित्रातास्तथा सुराः ।

येन तं विष्णुमाद्येशं प्रणतोऽस्मि जनार्दनम् ॥८२॥

यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम् ।

तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥८३॥

पातालवीथीभूतानि तथा लोकान् निहन्ति यः ।

तमन्तपुरुषं रुद्रं प्रणतोऽस्मि सनातनम् ॥८४॥

सम्भक्षयित्वा सकलं यथासृष्टमिदं जगत् ।

यो वै नृत्यति रुद्रात्मा प्रणतोऽस्मि जनार्दनम् ॥८५॥

सुरासुराः पितृगणाः यक्षगन्धर्वराक्षसाः ।

सम्भूता तस्य देवस्य सर्वगं तं नमाम्यहम् ॥८६॥

समस्तदेवाः सकला मनुष्याणां च जातयः ।

यस्यांशभूता देवस्य सर्वगं तं नतोऽस्म्यहम् ॥८७॥

वृक्षगुल्मादयो यस्य तथा पशुमृगादयः ।

एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥८८॥

यस्मान्नान्यत् परं किञ्चिद् यस्मिन् सर्वं महात्मनि ।

यः सर्वमध्यगोऽनन्तः सर्वगं तं नमाम्यहम् ॥८९॥

यथा सर्वेषु भूतेषु गूढोऽग्निरिव दारुषु ।

विष्णुरेवं तथा पापं ममाशेषं प्रणश्यतु ॥९०॥

यथा विष्णुमयं सर्वं ब्रह्मादि सचराचरम् ।

यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ॥९१॥

शुभाशुभानि कर्माणि रजः सत्त्वमांसि च ।

अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ॥९२॥

यन्निशायां च यत्प्रातर्यन्मध्याह्नापराह्णयोः ।

सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥९३॥

यत्तिष्ठता यद् व्रजता यच्च शय्यागतेन मे ।

कृतं यदशुभं कर्म कायेन मनसा गिरा ॥९४॥

अज्ञानतो ज्ञानतो वा मदाच्चलितमानसैः ।

तत् क्षिप्रं विलयं यातु वासुदेवस्य कीर्तनात् ॥९५॥

परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत् ।

परपीडोद्भवां निन्दां कुर्वता यन्महात्मनाम् ॥९६॥

यच्च भोज्ये तथा पेये भक्ष्ये चोष्ये विलेहने ।

तद् यातु विलयं तोये तथा लवणभाजनम् ॥९७॥

यद् बाल्ये यच्च कौमारे यत् पापं यौवने मम ।

वयः परिणतौ यच्च यच्च जन्मान्तरे कृतम् ॥९८॥

तन्नारायण गोविन्द हरिकृष्णेश कीर्तनात् ।

प्रयातु विलयं तोये यथा लवणभाजनम् ॥९९॥

विष्णवे वासुदेवाय हरये केशवाय च ।

जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥१००॥

भविष्यन्नरकघ्नाय नमः कंसविघातिने ।

अरिष्टकेशिचाणूरदेवारिक्षणिये नमः ॥१०१॥

कोऽन्यो बलेर्वञ्चयिता त्वामृते वै भविष्यति ।

कोऽन्यो नाशयति बलाद् दर्पं हैहयभूपतेः ॥१०२॥

कः करिष्यत्यथाऽन्यो वै सागरे सेतुबन्धनम् ।

वधिष्यति दशग्रीवं कः सामात्यपुरः सरम् ॥१०३॥

कस्त्वामृतेऽन्यो नन्दस्य गोकुले रतिमेष्यति ।

प्रलम्बपूतनादीनां त्वामृते मधुसूदन ।

निहन्ताऽप्यथवा शास्ता देवदेव भविष्यति ॥१०४॥

जपन्नेवं नरः पुण्यं वैष्णवं धर्ममुत्तमम् ।

इष्टानिष्टप्रसंगेभ्यो ज्ञानतोऽज्ञानतोऽपि वा ॥१०५॥

कृतं तेन तु यत् पापं सप्तजन्मान्तराणि वै ।

महापातकसंज्ञं वा तथा चैवोपपातकम् ॥१०६॥

यज्ञादीनि च पुण्यानि जपहोमव्रतानि च ।

नाशयेद् योगिनां सर्वमामपात्रमिवाम्भसि ॥१०७॥

नरः संवत्सरं पूर्णं तिलपात्राणि षोडश ।

अहन्यहनि यो दद्यात् पठत्येच्च तत्समम् ॥१०८॥

अविलुप्तब्रह्मचर्यं सम्प्राप्य स्मरणं हरेः ।

विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥१०९॥

यथैतत् सत्यमुक्तं मे न ह्यल्पमपि मे मृषा ।

राक्षसस्त्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ॥११०॥

पुलस्त्य उवाच

एवमुच्चारिते तेन मुक्तो विप्रस्तु रक्षसा ।

अकामेन द्विजो भूयस्तमाह रजनीचरम् ॥१११॥

ब्राह्मण उवाच

एतद् भद्र मया ख्यातं तव पातकनाशनम् ।

विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती ॥११२॥

हुताशनेन प्रहिता मम जिह्वाग्रसंस्थिता ।

जगादैनं स्तवं विष्णोः सर्वेषां चोपशान्तिदम् ॥११३॥

अनेनैव जगन्नाथं त्वमाराधय केशवम् ।

ततः शापापनोदं तु स्तुते लप्स्यसि केशवे ॥११४॥

अहर्निशं हषीकेशं स्तवेनानेन राक्षस ।

स्तुहि भक्तिं दृढां कृत्वा ततः पापाद विमोक्ष्यसे ॥११५॥

स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम् ।

स्तुतो हि भक्त्या नृणां वै सर्वपापहरो हरिः ॥११६॥

पुलस्त्य उवाच

ततः प्रणम्य तं विप्रं प्रसाद्य स निशाचरः ।

तदैव तपसे श्रीमान् शालग्राममगाद् वशी ॥११७॥

अहर्निशं स एवैनं जपन् सारस्वतं स्तवम् ।

देवक्रियारतिर्भूत्वा तपस्तेपे निशाचरः ॥११८॥

समाराध्य जगन्नाथं स तत्र पुरुषोत्तमम् ।

सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान् ॥११९॥

एतत्ते कथितं ब्रह्मन् विष्णोः सारस्वतं स्तवम् ।

विप्रवक्त्रस्थया सम्यक् सरस्वत्यासमीरितम् ॥१२०॥

य एतत् परमं स्तोत्रं वासुदेवस्य मानवः ।

पठिष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति ॥१२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:30.1270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

foam-mat drying

  • फेस-स्तर शुष्कन 
RANDOM WORD

Did you know?

शंकराला अर्धी प्रदक्षिणा कां घालतात ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site