TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ७९

श्रीवामनपुराण - अध्याय ७९

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ७९

पुलस्त्य उवाच

कालिन्दीसलिले स्त्रात्वा पूजयित्वा त्रिविक्रमम् ।

उपोष्य रजनीमेकां लिङ्गभेदं गिरि ययौ ॥१॥

तत्र स्त्रात्वा च विमले भवं दृष्ट्वा च भक्तितः ।

उपोष्य रजनीमेकां तीर्थं केदारमाव्रजत् ॥२॥

तत्र स्त्रात्वाऽर्च्य चेशानं माधवं चाप्यभेदतः ।

उषित्वा वासरान् सप्त कुब्जाम्रं प्रजगाम ह ॥३॥

ततः सुतीर्थे स्त्रात्वा च सोपवासी जितेन्द्रियः ।

हषीकेशं समभ्यर्च्य ययौ बदरिकाश्रमम् ॥४॥

तत्रोष्य नारायणमर्च्य भक्त्या स्त्रात्वाऽथ विद्वान् स सरस्वतीजले ।

वराहतीर्थे गरुडासनं स दृष्ट्वाऽथ सम्पूज्य सुभक्तिमांश्च ॥५॥

भद्रकर्णे ततो गत्वा जयेशं शशिशेखरम् ।

दृष्ट्वा सम्पूज्य च शिवं विपाशामभितो ययौ ॥६॥

तस्यां स्त्रात्वा समभ्यर्च्य देवदेवं द्विजप्रियम् ।

उपवासी इरावत्यां ददर्श परमेश्वरम् ॥७॥

यमाराध्य द्विजश्रेष्ठ शाकले वै पुरुरवाः ।

समवाप परं रुपमैश्वर्यं च सुदुर्लभम् ॥८॥

कुष्ठरोगाभिभूतश्च यं समाराध्य वै भृगुः ।

आरोग्यमतुलं प्राप संतानमपि चाक्षयम् ॥९॥

नारद उवाच

कथं पुरुरवा विष्णुमाराध्य द्विजसत्तम ।

विरुपत्वं समुत्सृज्य रुपं प्राप श्रिया सह ॥१०॥

पुलस्त्य उवाच

श्रूयतां कथयिष्यामि कथां पापप्रणाशिनीम् ।

पूर्वं त्रेतायुगस्यादौ यथावृतं तपोधन ॥११॥

मद्रदेश इति ख्यातो देशो वै ब्रह्मणः सुत ।

शाकलं नाम नगरं ख्यातं स्थानीयमुत्तमम् ॥१२॥

तस्मिन् विपणिवृत्तिस्थः सुधर्माख्योऽभवद वणिक् ।

धनाढ्यो गुणवान् भोगी नानाशास्त्रविशारदः ॥१३॥

स त्वेकदा निजाद राष्ट्रात् सुराष्ट्रं गन्तुमुद्यतः ।

सार्थेन महता युक्तो नानाविपणपण्यवान् ॥१४॥

गच्छतः पथि तस्याथ मरुभूमौ कलिप्रिय ।

अभवद दस्युतो रात्रौ अवस्कन्दोऽतिदुःसहः ॥१५॥

ततः स हतसर्वस्वो वणिग्दुः खसमन्वितः ।

असहायो मरौ तस्मिंश्चचारोन्मत्तवद वशी ॥१६॥

चरता तदरण्यं वै दुःखाक्रान्तेन नारद ।

आत्मा इव शमीवृक्षो मरावासादितः शुभः ॥१७॥

तं मृगैः पक्षिभिश्चैवं हीनं दृष्ट्वा शमीतरुम् ।

श्रान्तः क्षुत्तृट्परीतात्मा तस्याधः समुपाविशत ॥१८॥

सुप्तश्चापि सुविश्रान्तो मध्याह्ने पुनरुत्थितः ।

समपश्यदथायान्तं प्रेतेन प्रेतशतैर्वृतम् ॥१९॥

उद्वाह्यन्तमथान्येन प्रेतेन प्रेतनायकम् ।

पिण्डाशिभिश्च पुरतो धावद्भी रुक्षविग्रहैः ॥२०॥

अथाजगाम प्रेतोऽसौ पर्यटित्वा वनानि च ।

उपागम्य शमीमूले वणिक्पुत्रं ददर्श सः ॥२१॥

स्वागतेनाभिवाद्यैनं समाभाष्य परस्परम् ।

सुखोपविष्टश्छायायां पृष्टाकुशलमाप्तवान् ॥२२॥

ततः प्रेताधिपतिना पृष्टः स तु वणिक्सखः ।

कुत आगम्यते ब्रूहि क्व साधो वा गमिष्यसि ॥२३॥

कथं चेदं महारण्यं मृगपक्षिविवर्जितम् ।

समापन्नोऽसि भद्रं ते सर्वमाख्यातुमर्हसि ॥२४॥

एवं प्रेताधिपतिना वणिक् पृष्टः समासतः ।

सर्वमाख्यातवान् ब्रह्मन् स्वदेशधनविच्युतिम् ॥२५॥

तस्य श्रुत्वा स वृत्तान्तं तस्य दुःखेन दुःखितः ।

वणिक्पुत्रं ततः प्राह प्रेतपालः स्वबन्धुवत् ॥२६॥

एवं गतेऽपि मा शोकं कर्तुमर्हसि सुव्रत ।

भूयोऽप्यर्थाः भविष्यन्ति यदि भाग्यबलं तव ॥२७॥

भाग्यक्षयेऽर्थाः क्षीयन्ते भवन्त्यभ्युदये पुनः ।

क्षीणस्यास्य शरीरस्य चिन्तया नोदयो भवेत् ॥२८॥

इत्युच्चार्य समाहूय स्वान् भृत्यान् वाक्यमब्रवीत् ।

अद्यातिथिरयं पूज्यः सदैव स्वजनो मम ॥२९॥

अस्मिन् दृष्टे वणिक्पुत्रे यथा स्वजनदर्शनम् ।

अस्मिन् समागते प्रेताः प्रीतिर्जाता ममातुला ॥३०॥

एवं हि वदतस्तस्य मृत्पात्रं सुदृढं नवम् ।

दध्योदनेन सम्पूर्णमाजगाम यथेप्सितम् ॥३१॥

तथा नवा च सुदृढा सम्पूर्णा परमाम्भसा ।

वारिधानी च सम्प्राप्ता प्रेतानामग्रतः स्थिता ॥३२॥

तमागतं ससलिलमन्नं वीक्ष्य महामतिः ।

प्राहोत्तिष्ठ वणिक्पुत्र त्वमाह्निकमुपाचर ॥३३॥

ततस्तु वारिधन्यास्तौ सलिलेन विधानतः ।

कृताह्निकावुभौ जातौ वणिक् प्रेतपतिस्तथा ॥३४॥

ततो वणिस्कुतायादौ दध्योदनमथेच्छया ।

दत्त्वा तेभ्यश्च सर्वेभ्यः प्रेतेभ्यो व्यददात् ततः ॥३५॥

भुक्तवत्सु च सर्वेषु कामतोऽम्भसि सेविते ।

अनन्तरं स बुभुजे प्रेतपालो वराशनम् ॥३६॥

प्रकामतृप्ते प्रेते च वारिधान्योदनं तथा ।

अन्तर्धानमगाद ब्रह्मन् वणिक्पुत्रस्य पश्यतः ॥३७॥

ततस्तदद्भुततमं दृष्टवा स मतिमान् वणिक् ।

पप्रच्छ तं प्रेतपालं कौतूहलमना वशी ॥३८॥

अरण्ये निर्जने साधो कुतोऽन्नस्य समुद्भवः ।

कुतश्च वारिधानीयं सम्पूर्णा परमाम्भसा ॥३९॥

तथामी तव ये भृत्यास्त्वत्तस्ते वर्णतः कृशाः ।

भवानपि च तेजस्वी किंचित्पुष्टवपुः शुभः ॥४०॥

शुक्लवस्त्रपरीधानो बहूनां परिपालकः ।

सर्वमेतन्ममाचक्ष्व को भवान् का शमी त्वियम् ॥४१॥

इत्थं वणिक्सुतवचः श्रुत्वाऽसौ प्रेतनायकः ।

शशंस सर्वमस्याद्यं यथावृत्तं पुरातनम् ॥४२॥

अहमासं पुरा विप्रः शाकले नगरोत्तमे ।

सोमशर्मेति विख्यातो बहुलागर्भसम्भवः ॥४३॥

ममास्ति च वणिक् श्रीमान् प्रातिवेश्यो महाधनः ।

स तु सोमश्रवा नाम विष्णुभक्तो महायशाः ॥४४॥

सोऽहं कदर्यो मूढात्मा धनेऽपि सति दुर्मतिः ।

न ददामि द्विजातिभ्यो न चाश्नाम्यन्नमुत्तमम् ॥४५॥

प्रमादाद यदि भुञ्जामि दक्षिधीरघृतान्वितम् ।

ततो रात्रौ नृभिघोरैस्ताडयते मम विग्रहः ॥४६॥

प्रातर्भवति मे घोरा मृत्युतुल्या विषूचिका ।

न च कश्चिन्ममाभ्यासे तत्र तिष्ठति बान्धवः ॥४७॥

कथं कथमपि प्राणा मया सम्प्रति धारिताः ।

एवमेतादृशः पापी निवसाम्यतिनिर्घृणः ॥४८॥

सौवीरतिलपिण्याकसक्तुशाकादिभोजनैः ॥

क्षपयामि कदन्नाद्यैरात्मानं कालयापनैः ॥४९॥

एवं तत्रासतो मह्यं महान् कालोऽभ्यगादथ ।

श्रवणद्वादशी नाम मासि भाद्रपदेऽभवत् ॥५०॥

ततो नागरिको लोको गतः स्त्रातुं हि सङ्गमम् ।

इरावत्या नड्वलाया ब्रह्मक्षत्रपुरस्सरः ॥५१॥

प्रातिवेश्यप्रसङ्गेन तत्राप्यनुगतोऽस्म्यहम् ।

कृतोपवासः शुचिमानेकादश्यां यतव्रतः ॥५२॥

ततः सङ्गमतोयेन वारिधानीं दृढां नवाम् ।

सम्पूर्णां वस्तुसंवीतां छत्रोपानहसंयुताम् ॥५३॥

मृत्पात्रमपि मिष्टस्य पूर्णं दध्योदनस्य ह ।

प्रदत्तं ब्राह्मणेन्द्राय शुचये ज्ञानधर्मिणे ॥५४॥

तदेव जीवतो दत्तं मया दानं वणिक्सुत ।

वर्षाणां सप्ततीनां वै नान्यद दत्तं हि किंचन ॥५५॥

मृतः प्रेतत्वमापन्नो दत्त्वा प्रेतान्नमेव हि ।

अमी चादत्तदानास्तु मदन्नेनोपजीविनः ॥५६॥

एतत्ते कारणं प्रोक्तं यत्तदन्नं मयाम्भसा ।

दत्तं तदिदमायाति मध्याह्नेऽपि दिने दिने ॥५७॥

यावन्नाहं च भुञ्जामि न तावत् क्षयमेति वै ।

मयि भुक्ते च पीते च सर्वमन्तर्हितं भवेत् ॥५८॥

यच्चातपत्रमददं सोऽयं जातः शमीतरुः ।

उपानद्युगले दत्ते प्रेतो मे वाहनोऽभवत् ॥५९॥

इयं तवोक्ता धर्मज्ञ मया कीनाशतात्मनः ।

श्रवणद्वादशीपुण्यं तवोक्तं पुण्यवर्धनम् ॥६०॥

इत्येवमुक्ते वचने वणिक्पुत्रोऽब्रवीद वचः ।

यन्मया तात कर्त्तव्यं तदनुज्ञातुमर्हसि ॥६१॥

तत् तस्य वचनं श्रुत्वा वणिक्पुत्रस्य नारद ।

प्रेतपालो वचः प्राह स्वार्थसिद्धिकरं ततः ॥६२॥

यत् त्वया तात कर्त्तव्यं मद्धितार्थं महामते ।

कथयिष्यामि तत् सम्यक् तव श्रेयस्करं मम ॥६३॥

गयायां तीर्थजुष्टायां स्त्रात्वा शौचसमन्वितः ।

मम नाम समुद्दिश्य पिण्डनिर्वपणं कुरु ॥६४॥

तत्र पिण्डप्रदानेन प्रेतभावादहं सखे ।

मुक्तस्तु सर्वदातृणां यास्यामि सहलोकताम् ॥६५॥

यथेयं द्वादशी पुण्या मासि प्रौष्ठपदे सिता ।

बुधश्रवणसंयुक्ता साऽतिश्रेयस्करी स्मृता ॥६६॥

इत्येवमुक्त्वा वणिजं प्रेतराजोऽनुगैः सह ।

स्वनामानि यथान्यायं सम्यगाख्यातवाञ्चुचिः ॥६७॥

प्रेतस्कन्धे समारोप्य त्याजितो मरुमण्डलम् ।

रम्येऽथ शूरसेनाख्ये देशे प्राप्तः स वै वणिक् ॥६८॥

स्वकर्मधर्मयोगेन धनमुच्चावचं बहु ।

उपार्जयित्वा प्रययौ गयाशीर्षमनुत्तमम् ॥६९॥

पिण्डनिर्वपणं तत्र प्रेतानामनुपूर्वशः ।

चकार स्वपितृणां च दायादानामनन्तरम् ॥७०॥

आत्मनश्च महाबुद्धिर्महाबोध्यं तिलैर्विना ।

पिण्डनिर्वपणं चक्रे तथान्यानपि गोत्रजान् ॥७१॥

एवं प्रदत्तेष्वथ वै पिण्डेषु प्रेतभावतः ।

विमुक्तास्ते द्विज प्रेता ब्रह्मलोकं ततो गताः ॥७२॥

स चापि हि वणिक्पुत्रो निजमालयमाव्रजत् ।

श्रवणद्वादशीं कृत्वा कालधर्ममुपेयिवान् ॥७३॥

गन्धर्वलोके सुचिरं भोगान् भुक्त्वा सुदुर्लभान् ।

मानुष्यं जन्ममासाद्य स बभौ शाकले विराट् ॥७४॥

स्वधर्मकर्मवृत्तिस्थः श्रवणद्वादशीरतः ।

कालधर्ममवाप्यासौ गुह्यकावासमाश्रयत् ॥७५॥

तत्रोष्य सुचिरं कालं भोगान् भुक्त्वाऽथ कामतः ।

मर्त्यलोकमनुप्राप्य राजन्यतनयोऽभवत् ॥७६॥

तत्रापि क्षत्रवृत्तिस्थो दानभोगरतो वशी ।

गोग्रहेऽरिगणाञ्जित्वा कालधर्ममुपेयिवान् ।

शक्रलोकं स सम्प्राप्य देवैः सर्वैः सुपूजितः ॥७७॥

पुण्यक्षयात् परिभ्रष्टः शाकले सोऽभवद द्विजः ।

ततो विकटरुपोऽसौ सर्वशास्त्रार्थपारगः ॥७८॥

विवाहयद् द्विजसुतां रुपेणानुपमां द्विज ।

साऽवमेने च भर्त्तारं सुशीलमपि भामिनी ॥७९॥

विरुपमिति मन्वाना ततः सोऽभूत् सुदुःखितः ।

ततो निर्वेदसंयुक्तो गत्वाश्रमपदं महत् ॥८०॥

इरावत्यास्तटे श्रीमान् रुपधारिणमासदत् ।

तमाराध्य जगन्नाथं नक्षत्रपुरुषेण हि ॥८१॥

सुरुपतामवाप्याग्र्यां तस्मिन्नेव च जन्मनि ।

ततः प्रियोऽभूद् भार्याया भोगवांश्चाभवदवशी ।

श्रवणद्वादशीभक्तः पूर्वाभ्यासादजायत ॥८२॥

एवं पुराऽसौ द्विजपुङ्गवस्तु कुरुपरुपो भगवत्प्रसादात् ।

अनङ्गरुपप्रतिमो बभूव मृतश्च राजा स पुरुरवाऽभूत् ॥८३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:27.3130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

pomelo

  • पु. पमेलो 
RANDOM WORD

Did you know?

जर सर्व प्राण्य़ांचा आत्मा एकच असेल तर प्राणी पक्ष्यांची भुते होतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.