संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ४१

श्रीवामनपुराण - अध्याय ४१

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


लोमहर्षण उवाच

समुद्रास्तत्र चत्वारो दर्विणा आहताः पुरा ।

प्रत्येकं तु नरः स्नातो गोसहस्त्रफलं लभेत् ॥१॥

यत्किंचित् क्रियते तस्मिंस्तपस्तीर्थे द्विजोत्तमाः ।

परिपूर्णं हि तत्सर्वमपि दुष्कृतकर्मणः ॥२॥

शतसाहस्त्रिकं तीर्थं तथैव शतिकं द्विजाः ।

उभयोर्हि नरः स्त्रातो गोसहस्त्रफलं लभेत् ॥३॥

सोमतीर्थं च तत्रापि सरस्वत्यास्तटे स्थितम् ।

यस्मिन् स्त्रातस्तु पुरुषो राजसूयफलं लभेत् ॥४॥

रेणुकाश्रममासाद्य श्रद्दधानो जितेन्दियः ।

मातृभक्त्या च यत्प्युण्यं तत्फलं प्राप्नुयान्नरः ॥५॥

ऋणमोचनमासाद्य तीर्थं ब्रह्मनिषेवितम् ।

ऋणैर्मुक्तो भवेन्नित्यं देवर्षिपितृसम्भवैः ।

कुमारस्याभिषेकं च ओजसं नाम विश्रुतम् ॥६॥

तस्मिन् स्त्रातस्तु पुरुषो यशसा च समन्वितः ।

कुमारपुरमाप्नोति कृत्वा श्राद्धं तु मानवः ॥७॥

चैत्रपष्ठयां सिते पक्षे यस्तु श्राद्धं करिष्यति ।

गयाश्राद्धे च यत्पुण्यं तत्पुण्यं प्राप्नुयान्नरः ॥८॥

संनिहत्यां तथा श्राद्धं राहुग्रस्ते दिवाकरे ।

तथा श्राद्धं तत्र कृतं नात्र कार्या विचारणा ॥९॥

ओजसे ह्यक्षयं श्राद्धं वायुना कथितं पुरा ।

तस्मात् सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् ॥१०॥

यस्तु स्त्रानं श्रद्दधानश्चैत्रष्ठयां करिष्यति ।

अक्षय्यमुदकं तस्य पितृणामुपजायते ॥११॥

तत्र पञ्चवटं नाम तीर्थं त्रैलोक्यविश्रुतम् ।

महादेवः स्थितो यत्र योगमूर्तिधरः स्वयम् ॥१२॥

तत्र स्त्रात्वाऽर्चयित्वा च देवदेवं महेश्वरम् ।

गाणपत्यमवाप्नोति दैवतैः सह मोदते ॥१३॥

कुरुतीर्थं च विख्यातं कुरुणा यत्र वै तपः ।

तप्तं सुघोरं क्षेत्रस्य कर्षणार्थं द्विजोत्तमाः ॥१४॥

तस्य घोरेण तपसा तुष्ट इन्द्रोऽब्रवीद वचः ।

राजर्षे परितुष्टोऽस्मि तपसाऽनेन सुव्रत ॥१५॥

यज्ञं ये च कुरुक्षेत्रे करिष्यन्ति शतक्रतोः ।

ते गमिष्यन्ति सुकृताँल्लोकान् पापविवर्जितान् ॥१६॥

अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः ।

आगम्यागम्य चैवेनं भूयो भूयो वहस्य च ॥१७॥

शतक्रतुरनिर्विण्णः पृष्ट्वा पृष्ट्वा जगाम ह ।

यदा तु तपसोग्रेण चकर्ष देहमात्मनः ।

ततः शक्रोऽब्रवीत् प्रीत्या ब्रूहि यत्ते चिकीर्षितम् ॥१८॥

कुरुरुवाच

ये श्रद्दधानास्तीर्थेऽस्मिन् मानवा निवसन्ति ह ।

ते प्राप्नुवन्तु सदनं ब्राह्मणः परमात्मनः ॥१९॥

अन्यत्र कृतपापा ये पञ्चपातकदूषिताः ।

अस्मिंस्तीर्थं नराः स्त्रात्वा मुक्ता यान्तु परां गतिम् ॥२०॥

कुरुक्षेत्रे पुण्यतमं कुरुतीर्थं द्विजोत्तमाः ।

तं दृष्ट्वा पापमुक्तस्तु परं पदमवाप्नुयात् ॥२१॥

कुरुतीर्थे नरः स्त्रातो मुक्तो भवति किल्बिषैः ।

कुरुणा समनुज्ञातः प्राप्नोति परमं पदम् ॥२२॥

स्वर्गद्वारं ततो गच्छेच्छिवद्वारे व्यवस्थितम् ।

तत्र स्त्रात्वा शिवद्वारे प्राप्नोति परमं पदम् ॥२३॥

ततो गच्छेदनरकं तीर्थं त्रैलोक्यविश्रुतम् ।

यत्र पूर्वे स्थितो ब्रह्मा दक्षिणे तु महेश्वरः ॥२४॥

रुद्रपत्नी पश्चिमतः पद्मनाभोत्तरे स्थितः ।

मध्ये अनरकं तीर्थं त्रैलोक्यस्यापि दुर्लभम् ॥२५॥

यस्मिन् स्त्रातस्तु मुच्येत पातकैरुपपातकैः ।

वैशाखे च यदा षष्ठी मङ्गलस्य दिनं भवेत् ॥२६॥

तदा स्त्रानं तत्र कृत्वा मुक्तो भवति पातकैः ।

यः प्रयच्छेत करकांश्चतुरो भक्ष्यसंयुतान् ॥२७॥

कलशं च तथा दद्यादपूपैः परिशोभितम् ।

देवताः प्रीणयेत् पूर्वं करकैरन्नसंयुतैः ॥२८॥

ततस्तु कलशं दद्यात् सर्वपातकनाशनम् ।

अनेनैव विधानेन यस्तु स्त्रानं समाचरेत् ॥२९॥

स मुक्तः कलुषैः सर्वैः प्रयाति परमं पदम् ।

अन्यत्रापि यदा षष्ठी मङ्गलेन भविष्यति ॥३०॥

तत्रापि मुक्तिफलदा क्रिया तस्मिन् भविष्यति ।

तीर्थे च सर्वतीर्थानां यस्मिन् स्त्रातो द्विजोत्तमाः ॥३१॥

सर्वदेवैरनुज्ञातः परं पदमवाप्नुयात् ।

काम्यकं च वनं पुण्यं सर्वपातकनाशनम् ॥३२॥

यस्मिन् प्रविष्टमात्रस्तु मुक्तो भवति किल्बिषैः ।

यमाश्रित्य वनं पुण्यं सविता प्रकटः स्थितः ॥३३॥

पूषा नाम द्विजश्रेष्ठा दर्शनान्मुक्तिमाप्नुयात् ।

आदित्यस्य दिने प्राप्ते तस्मिन् स्त्रातस्तु मानवः ।

विशुद्धदेहो भवति मनसा चिन्तितं लभेत् ॥३४॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP