TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ९०

श्रीवामनपुराण - अध्याय ९०

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ९०

पुलस्त्य उवाच

ततः समागच्छति वासुदेवे मही चकम्पे गिरयश्च चेलुः ।

क्षुब्धाः समुद्रा दिवि ऋक्षमण्डलो बभौ विपर्यस्तगतिर्महर्षे ॥१॥

यज्ञः समागात् परमाकुलत्वं न वेद्मि किं मे मधुहा करिष्यति ।

यथा प्रदग्धोऽस्मि महेश्वरेण किं मां न संधक्ष्यति वासुदेवः ॥२॥

ऋक्साममन्त्राहुतिभिर्हुताभिर्वितानकीयान् ज्वलनास्तु भागान् ।

भक्त्या द्विजेन्द्रैरपि सम्प्रपादितान् नैव प्रतीच्छन्ति विभोर्भयेन ॥३॥

तान् दृष्ट्वा घोररुपांस्तु उत्पातान् दानवेश्वरः ।

पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः ॥४॥

किमर्थमाचार्य मही सशैला रम्भेव वाताभिहता चचाल ।

किमासुरीयान् सुहुतानपीह भागान् न गृह्णन्ति हुताशनाश्च ॥५॥

क्षुब्धाः किमर्थं मकरालयाश्च भो ऋक्षा न खे किं प्रचरन्ति पूर्ववत् ।

दिशः किमर्थं तमसा परिप्लुता दोषेण कस्याद्य वदस्व मे गुरो ॥६॥

पुलस्त्य उवाच

शुक्रस्तद वाक्यमाकर्ण्य विरोचनसुतेरितम् ।

अथ ज्ञात्वा कारणं च बलिं वचनमब्रवीत् ॥७॥

शुक्र उवाच

श्रृणुष्व दैत्येश्वर येन भागान् नामी प्रतीच्छन्ति हि आसुरीयान् ।

हुताशना मन्त्रहुतानपीह नूनं समागच्छति वासुदेवः ॥८॥

तदड्घिविक्षेपमपारयन्ती मही सशैला चलिता दितीश ।

तस्यां चलत्यां मकरालयामी उदवृत्तवेला दितिजाद्य जाताः ॥९॥

पुलस्त्य उवाच

शुक्रस्य वचनं श्रुत्वा बलिर्भार्गवमब्रवीत् ।

धर्मं सत्यं च पथ्यं च सर्वोत्साहसमीरितम् ॥१०॥

बलिरुवाच

आयाते वासुदेवे वद मम भगवन् धर्मकामार्थतत्त्वं किं कार्यं किं च देयं मणिकनकमथो भूगजाश्वादिकं वा ।

किं वा वाच्यं मुरारेर्निजहितमथवा तद्धितं वा प्रयुञ्जे तथ्यं पथ्यं प्रियं भो मम वद शुभदं तत्करिष्ये न चान्यत् ॥११॥

पुलस्त्य उवाच

तद्वाक्यं भार्गवः श्रुत्वा दैत्यनाथेरितं वरम् ।

विचिन्त्य नारद प्राह भूतभव्यविदीश्वरः ॥१२॥

त्वया कृता यज्ञभुजोऽसुरेन्द्रा बहिष्कृता ये श्रुतिदृष्टमार्गे ।

श्रुतिप्रमाणं मखभोजिनो बहिः सुरास्तदर्थं हरिरभ्युपैति ॥१३॥

तस्याध्वरं दैत्यसमागतस्य कार्यं हि किं मां परिपृच्छसे यत् ।

कार्यं न देयं हि विभो तृणाग्रं यदध्वरे भूकनकादिकं वा ॥१४॥

वाच्यं तथा साम निरर्थकं विभो कस्ते वरं दातुमलं हि शक्रुयात् ।

यस्योदरे भूर्भुवनाकपालरसातलेशा निवसन्ति नित्यशः ॥१५॥

बलिरुवाच

मया न चोक्तं वचनं हि भार्गव न चास्ति मह्यं न च दातुमुत्सहे ।

समागतेऽप्यर्थिनि हीनवृत्ते जनार्दने लोकपतौ कथं तु ॥१६॥

एवं च श्रूयते श्लोकः सतां कथयतां विभो ।

सद्भावो ब्राह्मणेष्वेव कर्त्तव्यो भूतिमिच्छता ।

दृश्यते हि तथा तच्च सत्यं ब्राह्मणसत्तम ॥१७॥

पूर्वाभ्यासेन कर्माणि सम्भवन्ति नृणां स्फुटम् ।

वाक्कायमानसानीह योन्यन्तरगतान्यपि ॥१८॥

किं वा त्वया द्विजश्रेष्ठ पौराणी न श्रुता कथा ।

या वृत्ता मलये पूर्वं कोशकारसुतस्य तु ॥१९॥

शुक्र उवाच

कथयस्व महाबाहो कोशकारसुताश्रयाम् ।

कथां पौराणिकीं पुण्यां महाकौतूहलं हि मे ॥२०॥

बलिरुवाच

श्रृणुष्व कथयिष्यमि कथामेतां मखान्तरे ।

पूर्वाभ्यासनिबद्धां हि सत्यां भृगुकुलोद्वह ॥२१॥

मुद्गलस्य मुनेः पुत्रो ज्ञानविज्ञानपारगः ।

कोशकार इति ख्यात आसीद ब्रह्मंस्तपोरतः ॥२२॥

तस्यासीद दयिता साध्वी धर्मिष्ठा नामतः श्रुता ।

सती वात्स्यानसुता धर्मशीला पतिव्रता ॥२३॥

तस्यामस्य सुतो जातः प्रकृत्या वै जडाकृतिः ।

मूकवन्नालपति स न च पश्यति चान्धवत् ॥२४॥

तं जातं ब्राह्मणी पुत्रं जडं मूकं त्वचक्षुषम् ।

मन्यमाना गृहद्वारि षष्ठेऽहनि समुत्सृजत् ॥२५॥

ततोऽभ्यागाद दुराचारा राक्षसी जातहारिणी ।

स्वं शिशुं कृशमादाय सूर्पाक्षी नाम नामतः ॥२६॥

तत्रोत्सृज्य स्वपुत्रं सा जग्राह द्विजनन्दनम् ।

तमादाय जगामाथ भोक्तुं शालोदरे गिरौ ॥२७॥

ततस्तामागतां वीक्ष्य तस्या भर्ता घटोदरः ।

नेत्रहीनः प्रत्युवाच किमानीतस्त्वया प्रिये ॥२८॥

साऽब्रवीद राक्षसपते मया स्थाप्य निजं शिशुम् ।

कोशकारद्विजगृहे तस्यानीतः प्रभो सुतः ॥२९॥

स प्राह न त्वया भद्रे भद्रमाचरितं त्विति ।

महाज्ञानी द्विजेन्द्रोऽसौ ततः शप्स्यति कोपितः ॥३०॥

तस्माच्छीघ्रमिमं त्यक्त्वा मनुजं घोररुपिणम् ।

अन्यस्य कस्यचित् पुत्रं शीघ्रमानय सुन्दरि ॥३१॥

इत्येवमुक्ता सा रौद्रा राक्षसी कामचारिणी ।

समाजगाम त्वरिता समुत्पत्य विहायसम् ॥३२॥

स चापि राक्षससुतो निसृष्टो गृहबाह्यतः ।

रुरोद सुस्वरं ब्रह्मन् प्रक्षिप्याङ्गुष्ठमानने ॥३३॥

सा क्रन्दितं चिराच्छुत्वा धर्मिष्ठा पतिमब्रवीत् ।

पश्य स्वयं मुनिश्रेष्ठ सशब्दस्तनयस्तव ॥३४॥

त्रस्ता सा निर्जगामाथ गृहमध्यात् तपस्विनी ।

स चापि ब्राह्मणश्रेष्ठः समपश्यत तं शिशुम् ॥३५॥

वर्णरुपादिसंयुक्तं यथा स्वतनयं तथा ।

ततो विहस्य प्रोवाच कोशकारो निजां प्रियाम् ॥३६॥

एतेनाविश्य धर्मिष्ठे भाव्यं भूतेन साम्प्रतम् ।

कोऽप्यस्माकं छलयितुं सुरुपी भुवि संस्थितः ॥३७॥

इत्युक्त्वा वचनं मन्त्री मन्त्रैस्तं राक्षसात्मजम् ।

बबन्धोल्लिख्य वसुधां सकुशेनाथ पाणिना ॥३८॥

एतस्मिन्नन्तरे प्राप्ता सूर्पाक्षी विप्रबालकम् ।

अन्तर्धानगता भूमौ चिक्षेप गृहदूरतः ॥३९॥

तं क्षिप्तमात्रं जग्राह कोशकारः स्वकं सुतम् ।

सा चाभ्येत्य ग्रहीतुं स्वं नाशकद् राक्षसी सुतम् ॥४०॥

इतश्चेतश्च विभ्रष्टा सा भर्तारमुपागमत् ।

कथयामास यद् वृत्तं स्वद्विजात्मजहारिणम् ॥४१॥

एवं गतायां राक्षस्यां ब्राह्मणेन महात्मना ।

स राक्षसशिशुर्ब्रह्मन् भार्यायै विनिवेदितः ॥४२॥

स चात्मतनयः पित्रा कपिलायाः सवत्सयाः ।

दध्ना संयोजितोऽत्यर्थं क्षीरेणेक्षुरसेन च ॥४३॥

द्वावेव वर्धितौ बालौ संजातौ सप्तवार्षिकौ ।

पित्रा च कृतनामानौ निशाकरदिवाकरौ ॥४४॥

नैशाचरिर्दिवाकीर्तिर्निशाकीर्तिः स्वपुत्रकः ।

तयोश्चकार विप्रोऽसौ व्रतबन्धक्रियां क्रमात् ॥४५॥

व्रतबन्धे कृते वेदं पपाठासौ दिवाकरः ।

निशाकरो जडतया न पपाठेति नः श्रुतम् ॥४६॥

तं बान्धवाश्च पितरौ माता भ्राता गुरुस्तथा ।

पर्यनिन्दंस्तथा ये च जना मलयवासिनः ॥४७॥

ततः स पित्रा क्रुद्धेन क्षिप्तः कूपे निरुदके ।

महाशिलां चोपरि वै पिधानमवरोपयत् ॥४८॥

एवं क्षिप्तस्तदा कूपे बहुवर्षगणान् स्थितः ।

तत्रास्त्यामलकीगुल्मः पोषाय फलितोऽभवत् ॥४९॥

ततो दशसु वर्षेषु समतीतेषु भार्गव ।

तस्य माताऽगमत् कूपं तमन्धं शिलयाचितम् ॥५०॥

सा दृष्ट्वा निचितं कूपं शिलया गिरिकल्पया ।

उच्चैः प्रोवाच केनेयं कूपोपरि शिला कृता ॥५१॥

कूपान्तस्थः स तां वाणीं श्रुत्वा मातुर्निशाकरः ।

प्राह प्रदत्ता पित्रा मे कूपोपरि शिला त्वियम् ॥५२॥

साऽतिभीताऽब्रवीत् कोऽसि कूपान्तस्थोऽद्भुतस्वरः ।

सोऽप्याह तव पुत्रोऽस्मि निशाकरेति विश्रुतः ॥५३॥

साऽब्रवीत् तनयो मह्यं नाम्ना ख्यातो दिवाकरः ।

निशाकरेति नाम्नाऽहो न कश्चित् तनयोऽस्ति मे ॥५४॥

स चाह पूर्वचरितं मातुर्निरवशेषतः ।

साश्रुत्वां तां शिलां सुभ्रूः समुत्क्षिप्यान्यतोऽक्षिपत् ॥५५॥

सोत्तीर्य कूपाद भगवन् मातुः पादाववन्दत ।

सा स्वानुरुपं तनयं दृष्ट्वा स्वजनमग्रतः ॥५६॥

ततस्तमादाय सुतं धर्मिष्ठा पतिमेत्य च ।

कथयामास तत्सर्वं चेष्टितं स्वसुतस्य च ॥५७॥

ततोऽन्वपृच्छद विप्रोऽसौ किमिदं तात कारणम् ।

नोक्तवान् यद् भवान् पूर्वं महत्कौतूहलं मम ॥५८॥

तच्छुत्वा वचनं धीमान् कोशकारं द्विजोत्तमम् ।

प्राह पुत्रोऽद्भुतं वाक्यं मातरं पितरं तथा ॥५९॥

निशाकर उवाच

श्रूयतां कारणं तात येन मूकत्वमाश्रितम् ।

मया जडत्वमनघ तथाऽन्धत्वं स्वचक्षुषः ॥६०॥

पूर्वमासमहं विप्र कुले वृन्दारकस्य तु ।

वृषाकपेश्च तनयो मालागर्भसमुद्भवः ॥६१॥

ततः पिता पाठयन्मां शास्त्रं धर्मार्थकामदम् ।

मोक्षशास्त्रं परं तात सेतिहासश्रुतिं तथा ॥६२॥

सोऽहं तात महाज्ञानी परावरविशारदः ।

जातो मदान्धस्तेनाहं दुष्कर्माभिरतोऽभवम् ॥६३॥

मदात् समभवल्लोभस्तेन नष्टा प्रगल्भता ।

विवेको नाशमगमत् मूर्खभावमुपागतः ॥६४॥

मूढभावतया चाथ जातः पापरतोऽस्म्यहम् ।

परदारपरार्थेषु मतिर्मे च सदाऽभवत् ॥६५॥

परदाराभिमर्शित्वात् परार्थहरणादपि ।

मृतोऽस्म्युदबन्धनेनाहं नरकं रौरवं गतः ॥६‍६॥

तस्माद वर्षसहस्त्रान्ते भुक्तशिष्टे तदागासि ।

अरण्ये मृगहा पापः संजातोऽहं मृगाधिपः ॥६७॥

व्याघ्रत्वे संस्थितस्तात बद्ध, पञ्जरगः कृतः ।

नरापधिपेन विभुना नीतश्च नगरं निजम् ॥६८॥

बद्धस्य पिञ्जरस्थस्य व्याघ्रत्वेऽधिष्ठितस्य ह ।

धर्मार्थकामशास्त्राणि प्रत्यभासन्त सर्वशः ॥६९॥

ततो नृपतिशार्दूलो गदापाणिः कदाचन ।

एकवस्त्रपरीधानो नगरान्निर्यर्यौ बहिः ॥७०॥

तस्या भार्या जिता नाम रुपेणाप्रतिमा भुवि ।

सा निर्गते तु रमणे ममान्तिकमुपापगता ॥७१॥

तां दृष्ट्वा ववृधे मह्यं पूर्वाभ्यासान्मनोभवः ।

यथैव धर्मशालास्त्राणी तथाहमवदं च ताम ॥७२॥

राजपुत्रि सुकल्याणि नवयौवनशालिनि ।

चित्तं हरसि मे भीरु कोकिला ध्वनिना यथा ॥७३॥

सा मद्वचनमाकर्ण्य प्रोवाच तनुमध्यमा ।

कथमेवावयोर्व्याघ्र रतियोगमुपेष्यति ॥७४॥

ततोऽहमब्रुवं तात राजपुत्रीं सुमध्यमाम् ।

द्वारमुद्धाटयस्वाद्य निर्गमिष्यामि सत्वरम् ॥७५॥

साऽप्यब्रवीद् दिवा व्याघ्र लोकोऽयं परिपश्यति ।

रात्रावुद्धाटयिष्यामि ततो रंस्याव स्वेच्छया ॥७६॥

तामेवाहमवोचं वै कालक्षेपेऽहमक्षमः ।

तस्मादुद्धाटय द्वारं मां बन्धाच्च विमोचय ॥७७॥

ततः सा पीवरश्रोणी द्वारमुद्धातयन्मुने ।

उद्धाटिते ततो द्वारे निर्गतोऽहं बहिः क्षणात् ॥७८॥

पाशानि निगडादीनि छिन्नानि हि बलान्मया ।

सा गृहीता च नृपतेर्भार्या रतितुमिच्छता ॥७९॥

ततो दृष्टोऽस्मि नृपतेर्भृत्यैरतुलविक्रमैः ।

शस्त्रहस्तैः सर्वतश्च तैरहं परिवेष्टितः ॥८०॥

महापाशैः श्रृड्खलाभिः समाहत्य च मुदगरैः ।

बध्यमानोऽब्रुवमहं मा मा हिंसध्वमाकुलाः ॥८१॥

ते मद्वचनमाकर्ण्य मत्वैव रजनीचरम् ।

दृढं वृक्षे समुदबध्य घातयन्त तपोधन ॥८२॥

भूयो गतश्च नरकं परदारनिषेवणात् ।

मुक्तो वर्षसहस्त्रान्ते जातोऽहं श्वेतगर्दभः ॥८३॥

ब्राह्मणस्याग्निवेश्यस्य गेहे बहुकलत्रिणः ।

तत्रापि सर्वविज्ञानं प्रत्यभासत ततो मम ॥८४॥

उपवाह्यः कृतश्चास्मि द्विजयोषिद्भिरादरात् ।

एकदा नवराष्ट्रीया भार्या तस्याग्रजन्मनः ॥८५॥

विमतिर्नामतः ख्याता गन्तुमैच्छद गृहं पितुः ।

तामुवाच पतिर्गच्छ आरुह्य श्वेतगर्दभम् ॥८६॥

मासेनागमनं कार्यं न स्थेयं परतस्ततः ।

इत्येवमुक्ता सा भर्त्रा तन्वी मामधिरुह्य च ॥८७॥

बन्धनादवमुच्याथ जगाम त्वरिता मुने ।

ततोऽर्धपाथि सा तन्वी मत्पृष्ठादवरुह्य वै ॥८८॥

अवतीर्णा नदीं स्त्रातुं स्वरुपा चार्द्रवाससा ।

साड्गोपाड्गां रुपवतीं दृष्ट्वा तामहमाद्रवम् ॥८९॥

मया चाभिद्रुता तूर्णं पतिता पृथिवीतले ।

तस्यामुपरि भो तात पतितोऽहं भृशातुरः ॥९०॥

दृष्टो भर्त्रानुसृष्टेन नृणा तदनुसारिणा ।

प्रोत्क्षिप्य यष्टिं मां ब्रह्मन् समाधावत् त्वरान्वितः ॥९१॥

तद्भयात् तां परित्यज्य प्रद्रुतो दक्षिणामुखः ।

ततोऽभिद्रवतस्तूर्णं खलीनरसना मुने ॥९२॥

ममासक्ता वंशगुल्मे दुर्मोक्षे प्राणनाशने ।

तत्रासक्तस्य षडरात्रान्ममाभूज्जीवितक्षयः ॥९३॥

गतोऽस्मि नरकं भूयस्तस्मान्मुक्तोऽभवं शुकः ।

महारण्ये तथा बद्धः शबरेण दुरात्मना ॥९४॥

पञ्जरे क्षिप्य विक्रीतो वणिक्पुत्राय शालिने ।

तेनाप्यन्तः पुरवरे युवतीनां समीपतः ॥९५॥

शब्दशास्त्रविदित्येवं दोषघ्नश्चेत्यवस्थितः ।

तत्रासतस्तरुण्यस्ता ओदनाम्बुफलादिभिः ॥९६॥

भक्ष्यैश्च दाडिमफलैः पुष्णन्त्यहरहः पितः ।

कदाचित् पद्मपत्राक्षी श्यामा पीनपयोधरा ॥९७॥

सुश्रोणी तनुमध्या च वणिक्पुत्रप्रिया शुभा ।

नाम्ना चन्द्रावली नाम समुद्धाट्याथ पञ्जरम् ॥९८॥

मां जग्राह सुचार्वङ्गी कराभ्यां चारुहासिनी ।

चकारोपरि पीनाभ्यां स्तनाभ्यां सा हि मां ततः ॥९९॥

ततोऽहं कृतवान् भावं तस्यां विलसितुं प्लवन् ।

ततोऽनुप्लवतस्तत्र हारे मर्कटबन्धनम् ॥१००॥

बद्धोऽहं पापसंयुक्तो मृतश्च तदनन्तरम् ।

भूयोऽपि नरकं घोरं प्रपन्नोऽस्मि सुदुर्मतिः ॥१०१॥

तस्माच्चाहं वृषत्वं वै गतश्चाण्डालपक्वणे ।

स चैकदा मां शकटे नियोज्य स्वां विलासिनीम् ॥१०२॥

समारोप्य महातेजा गन्तुं कृतमतिर्वनम् ।

ततोऽग्रतः स चण्डालो गतस्त्वेवास्य पृष्ठतः ॥१०३॥

गायन्ती याति तच्छुत्वा जातोऽहं व्यथितेन्द्रियः ।

पृष्ठतस्तु समालोक्य विपर्यस्तस्तथोत्प्लुतः ॥१०४॥

पतितो भूमिमगमं तदक्षे क्षणविक्रमात् ।

योक्त्रे सुबद्ध एवास्मि पञ्चत्वमगमं ततः ॥१०५॥

भूयो निमग्नो नरके दशवर्षशतान्यपि ।

अतस्तव गृहे जातस्त्वहं जातिमनुस्मरन् ॥१०६॥

तावन्त्येवाद्य जन्मानि स्मरामि चानुपूर्वशः ।

पूर्वाभ्यासाच्च शास्त्राणि बन्धनं चागतं मम ॥१०७॥

तदहं जातविज्ञानो नाचरिष्ये कथंचन ।

पापनि घोररुपाणि मनसा कर्मणा गिरा ॥१०८॥

शुभं वाप्यशुभं वाऽपि स्वाध्यायं शास्त्रजीविका ।

बन्धनं वा वधो वाऽपि पूर्वाभ्यासेन जायते ॥१०९॥

जातिं यदा पौर्विकीं तु स्मरते तात मानवः ।

तदा स तेभ्यः पापेभ्यो निवृत्तिं हि करोति वै ॥११०॥

तस्माद् गमिष्ये शुभवर्धनाय पापक्षयायाक्ष मुने ह्यरण्यम् ।

भवान् दिवाकीर्तिमिमं सुपुत्रं गार्हस्थ्यधर्मे विनियोजस्व ॥१११॥

बलिरुवाच

इत्येवमुक्त्वा स निशाकरस्तदा प्रणम्य मातापितरौ महर्षे ।

जगाम पुण्यं सदनं मुरारेः ख्यातं वदर्याश्रममाद्यमीडयम् ॥११२॥

एवं पुराभ्यासरतस्य पुंसो भवन्ति दानाध्ययनादिकानि ।

तस्माच्च पूर्वं द्विजवर्य वै मया अभ्यस्तमासीन्ननु ते ब्रवीमि ॥११३॥

दानं तपो वाऽध्ययनं महर्षे स्तेयं महापातकमग्निदाहम् ।

ज्ञानानि चैवाभ्यसतां हि पूर्वं भवन्ति धर्मार्थयशांसि नाथ ॥११४॥

पुलस्त्य उवाच

इत्येवमुक्त्वा बलवान् स शुक्रं दैत्येश्वरः स्वं गुरुमीशितारम् ।

ध्यायंस्तदास्ते मधुकैटभघ्नं नारायणं चक्रगदासिपाणिम् ॥११५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:32.7200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

amphimixis

  • गंतुकमीलन, युग्मकसंयोग 
  • नर व स्त्री गंतुकांचा संयोग (एकरुप होणे) 
  • gamete 
RANDOM WORD

Did you know?

घरातील देव्हार्‍यात कोणते देव पूजावेत आणि कोणते नाही?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site