TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ९१

श्रीवामनपुराण - अध्याय ९१

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ९१

पुलस्त्य उवाच

एतस्मिन्नन्तरे प्राप्तो भगवान् वामनाकृतिः ।

यज्ञवाटमुपागम्य उच्चैर्वचनमब्रवीत् ॥१॥

ॐकारपूर्वाः श्रुतयो मखे‍ऽस्मिन् तिष्ठन्ति रुपेण तपोधनानाम् ।

यज्ञोऽश्वमेधः प्रवरः क्रतूनां मुख्यस्तथा सत्रिषु दैत्यनाथः ॥२॥

इत्थं वचनमाकर्ण्य दानवाधिपतिर्वशी ।

सार्घपात्रः समभ्यागाद्यत्र देवः स्थितोऽभवत् ॥३॥

ततोऽर्च्य देवदेवेशमर्च्यमर्घादिनासुरः ।

भरद्वाजर्षिणा सार्धं यज्ञवाटं प्रवेशयत् ॥४॥

प्रविष्टमात्रं देवेशं प्रतिपूज्य विधानतः ।

प्रोवाच भगवन् ब्रूहि किं दद्मि तव मानद ॥५॥

ततोऽब्रवीत् सुरश्रेष्ठो दैत्यराजानमव्ययः ।

विहस्य सुचिरं कालं भरद्वाजमवेक्ष्य च ॥६॥

गुरोर्मदीयस्य गुरुस्तस्यास्त्यग्निपरिग्रहः ।

न स धारयते भूम्यां पारक्यां जातवेदसम् ॥७॥

तदर्थमभियाचेऽहं मम दानवपार्थिव ।

मच्छरीरप्रमाणेन देहि राजन् पदत्रयम् ॥८॥

मुरारेर्वचनं श्रुत्वा बलिर्भार्यामवेक्ष्य च ।

बाणं च तनयं वीक्ष्य इदं वचनमब्रवीत् ॥९॥

न केवलं प्रमाणेन वामनोऽयं लघुः प्रिये ।

येन क्रमत्रयं मौर्ख्याद् याचते बुद्धितोऽपि च ॥१०॥

प्रायो विधाताऽल्पधियां नराणां बहिष्कृतानां च महानुभाग्यैः ।

धनादिकं भूरि न वै ददाति यथेह विष्णोर्न बहुप्रयासः ॥११॥

न ददाति विधिस्तस्य यस्य भाग्यविपर्ययः ।

मयि दातरि यश्चायमद्य याचेत् पदत्रयम् ॥१२॥

इत्येवमुक्त्वा वचनं महात्मा भूयोऽप्युवाचाथ हरिं दनूजः ।

याचस्व विष्णो गजवाजिभूमिं दासीहिरण्यं यदभीप्सितं च ॥१३॥

भवान् याचयिता विष्णो अहं दाता जगत्पतिः ।

दातुर्याचयितुर्लज्जा कथं न स्यात् पदत्रये ॥१४॥

रसातलं वा पृथिवीं भुवं नाकमथापि वा ।

एतेभ्यः कतमं दद्यां स्थानं याचस्व वामन ॥१५॥

वामन उवाच

गजाश्वभूहिरण्यादि तदर्थिभ्यः प्रदीयताम् ।

एतावता त्वहं चार्थी देहि राजन् पदत्रयम् ॥१६॥

इत्येवमुक्ते वचने वामनेन महासुरः ।

बलिर्भृड्गारमादाय ददौ विष्णोः क्रमत्रयम् ॥१७॥

पाणौ तु पतिते तोये दिव्यं रुपं चकार ह ।

त्रैलोक्यक्रमणार्थाय बहुरुपं जगन्मयम् ॥१८॥

पादे भूमिस्तथा जड्घे नभस्त्रैलोक्यवन्दितम् ।

सत्यं तपो जानुयुग्मे ऊरुस्तो मेरुमन्दरौ ॥१९॥

विश्वेदेवा कटीभागे मरुतो वस्तिशीर्षगाः ।

लिङ्गे स्थितो मन्मथश्च वृषणाभ्यां प्रजापतिः ॥२०॥

कुक्षिभ्यामर्णवाः सप्त जठरे भुवनानि च ।

वलिषु त्रिशु नद्यश्च यज्ञास्तु जठरे स्थिताः ॥२१॥

इष्टापूर्तादयः सर्वाः क्रियास्तत्र तु संस्थिताः ।

पृष्ठस्था वसवो देवाः स्कन्धौ रुद्रैरधिष्ठितौ ॥२२॥

बाहवश्च दिशः सर्वा वसवोऽष्टौ करे स्मृताः ।

हदये संस्थितो ब्रह्मा कुलिशो हदयास्थिषु ॥२३॥

श्रीसमुद्रा उरोमध्ये चन्द्रमा मनसि स्थितः ।

ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्थिताः ॥२४॥

मुखे तु साग्नयो विप्राः संस्कारा दशनच्छदाः ।

धर्मकामार्थमोक्षीयाः शास्त्राः शौचसमन्विताः ॥२५॥

लक्ष्म्या सह ललाटस्थाः श्रवणाभ्यामथाश्विनौ ।

श्वासस्थो मातरिश्वा च मरुतः सर्वसंधिषु ॥२६॥

सर्वसूक्तानि दशना जिह्वा देवी सरस्वती ।

चन्द्रादित्यौ च नयने पक्ष्मस्थाः कृत्तिकादयः ॥२७॥

शिखायां देवदेवस्य ध्रुवो राजा न्यषीदत ।

तारका रोमकूपेभ्यो रोमाणि च महर्षयः ॥२८॥

गुणैः सर्वमयो भूत्वा भगवान् भूतभावनः ।

क्रमेणैकेन जगतीं जहार सचराचराम् ॥२९॥

भूमिं विक्रममाणस्य महारुपस्य तस्य वै ।

दक्षिणोऽभूत् स्तनश्चन्द्रः सूर्योऽभूदथ चोत्तरः ।

नभश्चाक्रमतो नाभिं सूर्येन्दू सव्यदक्षिणौ ॥३०॥

द्वितीयेन क्रमेणाथ स्वर्महर्जनतापसाः ।

क्रान्तार्धार्धेन वैराजं मध्येनापूर्यताम्बरम् ॥३१॥

ततः प्रतापिना ब्रह्मन् बृहद्विष्णवड्घ्रिणाम्बरे ।

ब्रह्माण्डोदरमाहत्य निरालोकं जगाम ह ॥३२॥

विश्वाड्घ्रिणा प्रसरता कटाहो भेदितो बलात् ।

कुटिला विष्णुपादे तु समेत्य कुटिला ततः ॥३३॥

तस्या विष्णुपदीत्येवं नामाख्यातभून्मुने ।

तथा सुरनदीत्येवं तामसेवन्त तापसाः ।

भगवानप्यसम्पूर्णे तृतीये तु क्रमे विभुः ॥३४॥

समभ्येत्य बलिं प्राह ईषत् प्रस्फुरिताधरः ।

ऋणाद् भवति दैत्येन्द्र बन्धनं घोरदर्शनम् ।

त्वं पूरय पदं तन्मे नो चेद् बन्धं प्रतीच्छ भोः ॥३५॥

तन्मुरारिवचः श्रुत्वा विहस्याथ बलेः सुतः ।

बाणः प्राहामरपतिं वचनं हेतुसंयुतम् ॥३६॥

बाण उवाच

कृत्वा महीमल्पतरां जगत्पते स्वायम्भुवादिभुवनानि वै षट् ।

कथं बलिं प्रार्थयसे सुविस्तृतां यां प्राग्भवान् नो विपुलामथाकरोत् ॥३७॥

विभो मही यावतीयं त्वयाऽद्य सृष्टा समेता भुवनान्तरालैः ।

दत्ता च तातेन हि तावतीयं किं वाक्छलेनैष निबध्यतेऽद्य ॥३८॥

या नैव शक्या भवता हि पूरितुं कथं वितन्याद् दितिजेश्वरोऽसौ ।

शक्तस्तु सम्पूजयितुं मुरारे प्रसीद मा बन्धनमादिशस्व ॥३९॥

प्रोक्तं श्रुतौ भवतापीश वाक्यं दानं पात्रे भवते सौख्यदायि ।

देशे सुपुण्ये वरदे यच्च काले तच्चाशेषं दृश्यते चक्रपाणे ॥४०॥

दानं भूमिः सर्वकामप्रदेयं भवान् पात्रं देवदेवो जितात्मा ।

कालो ज्येष्ठामूलयोगे मृगाङ्कः कुरुक्षेत्रं पुण्यदेशं प्रसिद्धम् ॥४१॥

किं वा देवोऽस्मद्विधैर्बुद्धिहीनैः शिक्षापनीयः साधु वाऽसाधु चैव ।

स्वयं श्रुतीनामपि चादिकर्ता व्याप्य स्थितः सदसद् यो जगद् वै ॥४२॥

कृत्वा प्रमाणं स्वयमेव हीनं पदत्रयं याचितवान् भुवश्च ।

किं त्वं न गृह्णासि जगत्त्रयं भो रुपेण लोकत्रयवन्दितेन ॥४३॥

नात्राश्चर्य यज्जगद् वै समग्रं क्रमत्रयं नैव पूर्णं तवाद्य ।

क्रमेण त्वं लड्घयितुं समर्थो लीलामेतां कृतवान् लोकनाथ ॥४४॥

प्रमाणहीनां स्वयमेव कृत्वा वसुन्धरां माधव पद्मनाभ ।

विष्णो न बध्नासि बलिं न दूरे प्रभुर्यदेवेच्छति तत्करोति ॥४५॥

पुलस्त्य उवाच

इत्येवमुक्ते वचने बाणेन बलिसूनुना ।

प्रोवाच भगवान् वाक्यमादिकर्ता जनार्दनः ॥४६॥

त्रिविक्रम उवाच

यान्युक्तानि वचांसीत्थं त्वया बालेय साम्प्रतम् ।

तेषां वै हेतुसंयुक्तं श्रृणु प्रत्युत्तरं मम ॥४७॥

पूर्वमुक्तस्तव पिता मया राजन् पदत्रयम् ।

देहि मह्यं प्रमाणेन तदेतत् समनुष्ठितम् ॥४८॥

किं न वेत्ति प्रमाणं मे बलिस्तव पितासुर ।

प्रायच्छद येन निः शड्कं ममानन्तं क्रमत्रयम् ॥४९॥

सत्यं क्रमेण चैकेन क्रमेयं भूर्भुवादिकम् ।

बलेरपि हितार्थाय कृतमेतत् क्रमत्रयम् ॥५०॥

तस्माद् यन्मम बालेयं त्वत्पित्राम्बु करे महत् ।

दत्तं तेनायुरेतस्य कल्पं यावद् भविष्यति ॥५१॥

गते मन्वन्तरे बाण श्राद्धदेवस्य साम्प्रतम् ।

सावर्णिके च सम्प्राप्ते बलिरिन्द्रो भविष्यति ॥५२॥

इत्थं प्रोक्त्वा बलिसुतं बाणं देवस्त्रिविक्रमः ।

प्रोवाच बलिमभ्येत्य वचनं मधुराक्षरम् ॥५३॥

श्रीभगवानुवाच

आपूरणाद दक्षिणाया गच्छ राजन् महाफलम् ।

सुतलं नाम पातालं वस तत्र निरामयः ॥५४॥

बलिरुवाच

सुतले वसतो नाथ मम भोगाः कुतोऽव्ययाः ।

भविष्यन्ति तु येनाहं निवत्स्यामि निरामयः ॥५५॥

त्रिविक्रम उवाच

सुतलस्थस्य दैत्येन्द्र यानि भोगानि तेऽधुना ।

भविष्यन्ति महार्हाणि तानि वक्ष्यामि सर्वशः ॥५६॥

दानान्यविधिदत्तान्मि श्राद्धान्यश्रोत्रियाणि च ।

तथाधीतान्यव्रतिभिर्दास्यन्ति भवतः फलम् ॥५७॥

तथान्यमुत्सवं पुण्यं वृत्ते शक्रमहोत्सवे ।

द्वारप्रतिपदा नाम तव भावी महोत्सवः ॥५८॥

तत्र त्वां नरशार्दूला हष्टाः पुष्टाः स्वलंकृताः ।

पुष्पदीपप्रदानेन अर्चयिष्यन्ति यत्नतः ॥५९॥

तत्रोत्सवो मुख्यतमो भविष्यति दिवानिशं हष्टजनाभिरामम् ।

यथैव राज्ये भवतस्तु साम्प्रतं तथैव सा भाव्यथ कौमुदी च ॥६०॥

इत्येवमुक्त्वा मधुहा दितीश्वरं विसर्जयित्वा सुतलं सभार्यम् ।

यज्ञं समादाय जगाम तूर्णं स शक्रसद्यामरसड्घजुष्टम् ॥६१॥

दत्त्वा मघोने च विभुस्त्रिविष्टपं कृत्वा च देवान् मखभागभोक्तृन् ।

अन्तर्दधे विश्वपतिर्महर्षे सम्पश्यतामेव सुराधिपानाम् ॥६२॥

स्वर्गं गते धातरि वासुदेवे शाल्वोऽसुराणां महता बलेन ।

कृत्वा पुरं सौभमिति प्रसिद्धं तदान्तरिक्षे विचचार कामात् ॥६३॥

मयस्तु कृत्वा त्रिपुरं महात्मा सुवर्णताम्रायसग्र्यसौख्यम् ।

स तारकाक्षः सह वैद्युतेन संतिष्ठते भृत्यकलत्रवान् सः ॥६४॥

बाणोऽपि देवेन हते त्रिविष्टपे बद्धे बलौ चापि रसातलस्थे ।

कृत्वा सुगुप्तं भुवि शोणिताख्यं पुरं स चास्ते सह दानवेन्दैः ॥६५॥

एवं पुरा चक्रधरेण विष्णुना बद्धो बलिर्वामनरुपधारिणा ।

शक्रप्रियार्थं सुरकार्यसिद्धये हिताय विप्रर्षभगोद्विजानाम् ॥६६॥

प्रादुर्भवस्ते कथितो महर्षे पुण्यः शुचिर्वामनस्याघहारी ।

श्रुते यस्मिन् संस्मृते कीर्तिते च पापं याति प्रक्षयं पुण्यमेति ॥६७॥

एतत् प्रोक्तं भवतः पुण्यकीर्त्तेः प्रादुर्भावो बलिबन्धोऽव्ययस्य ।

यच्चाप्यन्यछ्रोतुकामोऽसि विप्र तत्प्रोच्यतां कथयिष्याम्यशेषम् ॥६८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:33.1570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सताप

  • पुन . एक औषधी वनस्पती . याचा पाला खोकल्यावर देतात . 
RANDOM WORD

Did you know?

मंदार गणेश उपासनेची सविस्तर माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site