संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ५९

श्रीवामनपुराण - अध्याय ५९

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


नारद उवाच

योऽसौ मन्त्रयतां प्राप्तो दैत्यानां शरताडितः ।

स केन वद निर्भिन्नः शरेण दितिजेश्वरः ॥१॥

पुलस्त्य उवाच

आसीन्नृपो रघुकुले रिपुजिन्महर्षे तस्यात्मजो गुणगणैकनिधिर्महात्मा ।

शूरोऽरिसैन्यदमनो बलवान् सुहत्सु विप्रान्धदीनकृपणेषु समानभावः ॥२॥

ऋतध्वजो नाम महान् महीयान् स गालवार्थे तुरगाधिरुढः ।

पातालकेतुं निजघान पृष्ठे बाणेन चन्द्रार्धनिभेन वेगात् ॥३॥

नारद उवाच

किमर्थं गालवस्यासौ साधयामास सत्तमः ।

येनासौ पत्रिणा दैत्यं निजघान नृपात्मजः ॥४॥

पुलस्त्य उवाच

पुरा तपस्तप्यति गालवर्षिर्महाश्रमे स्वे सततं निविष्टः ।

पातालकेतुस्तपसोऽस्य विघ्नं करोति मौढ्यात् स समाधिभङ्गम् ॥५॥

न चेष्यतेऽसौ तपसो व्ययं हि शक्तोऽपि कर्त्तुं त्वथ भस्मसात् तम् ।

आकाशमीक्ष्याथ स दीर्घमुष्णं मुमोच निः श्वासमनुत्तमं हि ॥६॥

ततोऽम्बराद वाजिवरः पपात बभूव वाणी त्वशरीरिणी च ।

असौ तुरङ्गो बलवान् क्रमेत अह्ना सहस्त्राणि तु योगनानाम् ॥७॥

स तं प्रगृह्याश्ववरं नरेन्द्रं ऋतध्वजं योज्य तदात्तशस्त्रम् ।

स्थितस्तपस्येव ततो महर्षिर्दैत्यं समेत्य विशिखैर्नृपजो बिभेद ॥८॥

नारद उवाच

केनाम्बरतलाद वाजी निसृष्टो वद सुव्रत ।

वाक् कस्याऽदेहिनी जाता परं कौतूहलं मम ॥९॥

पुलस्त्य उवाच

विश्वावसुर्नाम महेन्द्रगायनो गन्धर्वराजो बलवान् यशस्वी ।

निसृष्टवान् भूवलये तुरङ्गं ऋतध्वजस्यैव सुतार्थमाशु ॥१०॥

नारद उवाच

कोऽर्थो गन्धर्वराजस्य येनाप्रैषीन्महाजवम् ।

राज्ञः कुवलयाश्वस्य कोऽर्थो नृपसुतस्य च ॥११॥

पुलस्त्य उवाच

विश्वावसोः शीलगुणोपपन्ना आसीत्पुंरध्रीषु वरा त्रिलोके ।

लावण्यराशिः शशिकान्तितुल्या मदालसा नाम मदालसैव ॥१२॥

तां नन्दने देवरिपुस्तरस्वी संक्रीडतीं रुपवतीं ददर्श ।

पातालकेतुस्तु जहार तन्वीं तस्यार्थतः सोऽश्ववरः प्रदत्तः ॥१३॥

हत्वा च दैत्यं नृपतेस्तनूजो लब्ध्वा वरोरुमपि संस्थितोऽभूत् ।

दृष्टो यथा देवपतिर्महेन्द्रः शच्या तथा राजसुतो मृगाक्ष्या ॥१४॥

नारद उवाच

एवं निरस्ते महिषे तारके च महासुरे ।

हिरण्याक्षसुतो धीमान् किमचेष्टत वै पुनः ॥१५॥

पुलस्त्य उवाच

तारकं निहतं दृष्ट्वा महिषं च रणेऽन्धकः ।

क्रोधं चक्रे सुदुर्बुद्धिर्देवानां देवसैन्यहा ॥१६॥

ततः स्वल्पपरीवारः प्रगृह्य परिघं करे ।

निर्जगामाथ पातालाद विचचार च मेदिनीम् ॥१७॥

ततो विचरता तेन मन्दरे चारुकन्दरे ।

दृष्टा गौरी च गिरिजा सखीमध्ये स्थिता शुभा ॥१८॥

ततोऽभूत् कामबाणार्त्तः सहसैवान्धकोऽसुरः ।

तां दृष्ट्वा चारुसर्वाङ्गीं गिरिराजसुतां वने ॥१९॥

अथोवाचासुरो मूढो वचनं मन्मथान्धकः ।

कस्येयं चारुसर्वाङ्गी ममान्तः पुरवासिनी ।

तन्मदीयेन जीवेन क्रियते निष्फलेन किम् ॥२१॥

यदस्यास्तनुमध्याया न परिष्वङ्गवानहम् ।

अतो धिङ्मां रुपेण किं स्थिरेण प्रयोजनम् ॥२२॥

स मे बन्धुः स सचिवः स भ्राता साम्परायिकः ।

यो मामसितकेशां तां योजयेन्मृगलोचनाम् ॥२३॥

इत्थं वदति दैत्येन्द्रे प्रह्लादो बुद्धिसागरः ।

पिधाय कर्णो हस्ताभ्यां शिरः कम्पं वचोऽब्रवीत् ॥२४॥

मा मैवं वद दैत्येन्द्र जगतो जननी त्वियम् ।

लोकनाथस्य भार्येयं शङ्करस्य त्रिशूलिनः ॥२५॥

मा कुरुष्व सुदुर्बुद्धिं सद्यः कुलविनाशिनीम्‍ ।

भवतः परदारेयं मा निमज्ज रसातले ॥२६॥

सत्सु कुत्सितमेवं हि असत्स्वपि हि कुत्सितम् ।

शत्रवस्ते प्रकुर्वन्तु परदारावगाहनम् ॥२७॥

किंचित् त्वया न श्रुतं दैत्यनाथ गीतं श्लोकं गाधिना पार्थिवेन ।

दृष्टा सैन्यं विप्रधेनुप्रसक्तं तथ्यं पथ्यं सर्वलोके हितं च ॥२८॥

वरं प्राणास्त्याज्या न च पिशुनवादेष्वभिरतिर्वरं मौनं कार्यं न च वचनमुक्तं यदनृतम् ।

वरं क्लीबैर्भाव्यं न च परकलत्राभिगमनं वरं भिक्षार्थित्वं न च परधनास्वादमसकृत् ॥२९॥

स प्रह्लादवचः श्रुत्वा क्रोधान्धो मदनार्दितः ।

इयं सा शत्रुजननीत्येवमुक्त्वा प्रदुद्रुवे ॥३०॥

ततोऽन्वधावन् दैतेया यन्त्रमुक्ता इवोपलाः ।

तान् रुरोध बलान्नन्दी वज्रोद्यतकरोऽव्ययः ॥३१॥

मयतारपुरोगास्ते वारिता द्रावितास्तस्था ।

कुलिशेनाहतास्तूर्णं जग्मुर्भीता दिशो दश ॥३२॥

तानर्दितान् रणे दृष्ट्वा नन्दिनाऽन्धकदानवः ।

परिघेण समाहत्य पातयामास तथान्धकम् ।

शतरुपाऽभवद गौरी भयात् तस्य दुरात्मनः ॥३४॥

ततः स देवीगणमध्यसंस्थितः परिभ्रमन् भाति महाऽसुरेन्द्रः ।

यथा वने मत्तकरी परिभ्रमन् करेणुमध्ये मदलोलदृष्टिः ॥३५॥

न परिज्ञातवांस्तत्र का तु सा गिरिकन्यका ।

नात्राश्चर्यं न पश्यन्ति चत्वारोऽमी सदैव हि ॥३६॥

न पश्यतीह जात्यन्धो रागान्धोऽपि न पश्यति ।

न पश्यति मदोन्मत्तो लोभाक्रान्तो न पश्यति ।

सोऽपश्यमानो गिरिजां पश्यन्नपि तदान्धकः ॥३७॥

प्रहारं नाददत तासां युवत्य इति चिन्तयन्‍ ।

ततो देव्या स दुष्टात्मा शतावर्या निराकृतः ॥३८॥

कुट्टितः प्रवरैः शस्त्रैर्निपपात महीतले ।

वीक्ष्यान्धकं निपतितं शतरुपा विभावरी ॥३९॥

तस्मात् स्थानादपाक्रम्य गताऽन्तर्धानमम्बिका ।

पतितं चान्धकं दृष्ट्वा दैत्यदानवयूथपाः ॥४०॥

कुर्वन्तः सुमहाशब्दं प्राद्रवन्त रणार्थिनः ।

तेषामापततां शब्दं श्रुत्वा तस्थौ गणेश्वरः ॥४१॥

आदाय वज्रं बलवान् मघवानिव कोपितः ।

दानवान् समयान् वीरः पराजित्य गणेश्वरः ॥४२॥

समभ्येत्याम्बिकां दृष्ट्वा ववन्दे चरणौ शुभौ ।

देवी च ता निजा मूर्तीः प्राह गच्छध्वमिच्छया ॥४३॥

विहरध्वं महीपृष्ठे पूज्यमाना नरैरिह ।

वसतिर्भवतीनां च उद्यानेषु वनेषु च ॥४४॥

वनस्पतिषु वृक्षेषु गच्छध्वं विगतज्वराः ।

तास्त्वेवमुक्ताः शैलेय्या प्रणीपत्याम्बिकां क्रमात् ॥४५॥

दिक्षु सर्वासु जग्मुस्ताः स्तूयमानाश्च किन्नरैः ।

अन्धकोऽपि स्मृतिं लब्ध्वा अपश्यन्नद्रिनन्दिनीम् ।

स्वबलं निर्जितं दृष्ट्वा ततः पातालमाद्रवत् ॥४६॥

ततो दुरात्मा स तदान्धको मुने पातालमभ्येत्य दिवा न भुङ्क्ते ।

रात्रौ न शेते मदनेषुताडितो गौरीं स्मरन्कामबलाभिपन्नः ॥४७॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP