TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ७२

श्रीवामनपुराण - अध्याय ७२

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ७२

नारद उवाच

यदमी भवता प्रोक्ता मरुतो दितिजोत्तमाः ।

तत् केन पूर्वमासन् वै मरुन्मार्गेण कथ्यताम् ॥१॥

पूर्वमन्वन्तरेष्वेव समतीतेषु सत्तम ।

के त्वासन् वायुमार्गस्थास्तन्मे व्याख्यातुमर्हसि ॥२॥

पुलस्त्य उवाच

श्रूयतां पूर्वमरुतामुत्पत्तिं कथयामि ते ।

स्वायम्भुवं समारभ्य यावन्मन्वन्तरं त्विदम् ॥३॥

स्वायम्भुवस्य पुत्रोऽभून्मनोर्नाम प्रियव्रतः ।

तस्यासीत् सवनो नाम पुत्रस्त्रैलोक्यपूजितः ॥४॥

स चानपत्यो देवर्षे नृपः प्रेतगतिं गतः ।

ततोऽरुदत् तस्य पत्नी सुदेवा शोकविह्वला ॥५॥

न ददाति तदा दग्धुं समालिङ्ग्य स्थिता पतिम् ।

नाथ नाथेति बहुशो विलपन्ती त्वनाथवत् ॥६॥

तामन्तरिक्षादशरीरिणी वाक् प्रोवाच मा राजपत्नीह रोदीः ।

यद्यस्ति ते सत्यमनुत्तमं तदा भवत्वयं ते पतिना सहाग्निः ॥७॥

सा तां वाणीमन्तरिक्षान्निशम्य प्रोवाचेदं राजपुत्री सुदेवा ।

शोचाम्येनं पार्थिवं पुत्रहीनं नैवात्मानं मन्दभाग्यं विहङ्ग ॥८॥

सोऽथाब्रवीन्मा रुदस्वायताक्षि पुत्रास्त्वत्तो भूमिपालस्य सप्त ।

भविष्यन्ति वह्निमारोह शीघ्रं सत्यं प्रोक्तं श्रद्दधत्स्व त्वमद्य ॥९॥

इत्येवमुक्ता खचरेण बाला चितौ समारोप्य पतिं वरार्हम् ।

हुताशमासाद्य पतिव्रता तं संचिन्तयन्ती ज्वलनं प्रपन्ना ॥१०॥

ततो मुहूर्तान्नृपतिः श्रिया युतः समुत्तस्थौ सहितो भार्ययाऽसौ ।

खमुत्पपाताथ स कामचारी समं महिष्या च सुनाभपुत्र्या ॥११॥

तस्याम्बरे नारद पार्थिवस्य जाता रजोगा महिषी तु गच्छतः ।

स दिव्ययोगात् प्रतिसंस्थितोऽम्बरे भार्यासहायो दिवसानि पञ्च ॥१२॥

ततस्तु षष्ठेऽहनि पार्थिवेन रितुर्न वन्ध्योऽद्य भवेद् विचिन्त्य ।

रराम तन्व्या सह कामचारी ततोऽम्बरात् प्राच्यवतास्य शुक्रम् ॥१३॥

शुक्रोत्सर्गावसाने तु नृपतिर्भार्यया सह ।

जगाम दिव्यया गत्या ब्रह्मलोकं तपोधन ॥१४॥

तदम्बरात् प्रचलितमभ्रवर्णं शुक्रं समाना नलिनी वपुष्पती ।

चित्रा विशाला हरितालिनी च सप्तर्षिपल्यो ददृशुर्यथेच्छया ॥१५॥

तद् दृष्ट्वा पुष्करे न्यस्तं प्रत्यैच्छन्त तपोधन ।

मन्यमानास्तदमृतं सदा यौवनलिप्सया ॥१६॥

ततः स्त्रात्वा च विधिवत् सम्पूज्य तान् निजान् पतीन् ।

पतिभिः समनुज्ञाताः पपुः पुष्करसंस्थितम् ॥१७॥

तच्छुक्रं पार्थिवेन्द्रस्य मन्यमानास्तदाऽमृतम् ।

पीतमात्रेण शुक्रेण पार्थिवेन्द्रोद्भवेन ताः ॥१८॥

ब्रह्मतेजोविहीनास्ता जाताः पत्न्यस्तपस्विनाम् ।

ततस्तु तत्यजुः सर्वे सदोषास्ताश्च पत्नयः ॥१९॥

सुषुवुः सप्त तनयान् रुदतो भरवं मुने ।

तेषां रुदितशब्देन सर्वमापूरितं जगत् ॥२०॥

अथाजगाम भगवान् ब्रह्मा लोकपितामहः ।

समभ्येत्याब्रवीद बालान् मा रुदध्वं महाबलाः ॥२१॥

मरुतो नाम यूयं वै भविष्यध्वं वियच्चराः ।

इत्येवमुक्त्वा देवेशो ब्रह्मा लोकपितामहः ॥२२॥

तानादाय वियच्चारी मारुतानादिदेश ह ।

ते त्वासन् मरुतस्त्वाद्या मनोः स्वायम्भुवेऽन्तरे ॥२३॥

स्वारोचिषे तु मरुतो वक्ष्यामि श्रृणु नारद ।

स्वारोचिषस्य पुत्रस्तु श्रीमानासीत् क्रतुध्वजः ॥२४॥

तस्य पुत्राभवन् सप्त सप्तार्च्चिः प्रतिमा मुने ।

तपोऽर्थं ते गताः शैलं महामेरुं नरेश्वराः ॥२५॥

आराधयन्तो ब्रह्माणं पदमैन्द्रमथेप्सवः ।

ततो विपश्चिन्नामाथ सहस्त्राक्षो भयातुरः ॥२६॥

पूतनामप्सरोमुख्यां प्राह नारद वाक्यवित् ।

गच्छस्व पूतने शैलं महामेरुं विशालिनम् ॥२७॥

तत्र तप्यन्ति हि तपः क्रतुध्वजसुता महत् ।

यथा हि तपसो विघ्नं तेषां भवति सुन्दरि ॥२८॥

तथा कुरुष्व मा तेषां सिद्धिर्भवतु सुन्दरि ।

इत्येवमुक्ता शक्रेण पूतना रुपशालिनी ॥२९॥

तत्राजगाम त्वरिता यत्रातप्यन्त ते तपः ।

आश्रमस्याविदूरे तु नदी मन्दोदवाहिनी ॥३०॥

तस्यां स्त्रातुं समायाताः सर्व एव सहोदराः ।

साऽपि स्त्रातुं सुचार्वङ्गी त्ववतीर्णा महानदीम् ॥३१॥

ददृशुस्ते नृपाः स्त्रातां ततश्चुक्षुभिरे मुने ।

तेषां च प्राच्यवच्छुक्रं तत्पपौ जलचारिणी ॥३२॥

शङ्खिनी ग्राहमुख्यस्य महाशङ्खस्य वल्लभा ।

तेऽपि विभ्रष्टतपसो जग्मू राज्यं तु पैतृकम् ॥३३॥

सा चाप्सराः शक्रमेत्य याथातथ्यं न्यवेदयत् ।

ततो बहुतिथे काले सा ग्राही शङ्खरुपिणी ॥३४॥

समुदधृता महाजालैर्मत्स्यबन्धेन मानिनी ।

स तां दृष्ट्वा महाशङ्खीं स्थलस्थां मत्स्यजीविकः ॥३५॥

निवेदयामास तदा क्रतुध्वजसुतेषु वै ।

तथाऽभ्येत्य महात्मानो योगिनो योगधारिणः ॥३६॥

नीत्वा स्वमन्दिरं सर्वे पुरवाप्यां समुत्सृजन् ।

ततः क्रमाच्छङ्खिनी सा सुषुवे सप्त वै शिशून् ॥३७॥

जातमात्रेषु पुत्रेषु मोक्षभावमगाच्च सा ।

अमातृपितृका बाला जलमध्यविहारिणः ॥३८॥

स्तन्यार्थिनो वै रुरुदुरथाभ्यगात् पितामहः ।

मा रुदध्वमितीत्याह मरुतो नाम पुत्रकाः ॥३९॥

यूयं देवा भविष्यध्वं वायुस्कन्धविचारिणः ।

इत्येवमुक्त्वाथादाय सर्वांस्तान् दैवतान् प्रति ॥४०॥

नियोज्य च मरुन्मार्गे वैराजं भवनं गतः ।

एवमासंश्च मरुतो मनोः स्वारोचिषेऽन्तरे ॥४१॥

उत्तमे मरुतो ये च ताञ्छृणुष्व तपोधन ।

उत्तमस्यान्ववाये तु राजासीन्निषधाधिपः ॥४२॥

वपुष्मानिति विख्यातो वपुषा भास्करोपमः ।

तस्य पुत्रो गुणश्रेष्ठो ज्योतिष्मान् धार्मिकोऽभवत् ॥४३॥

स पुत्रार्थी तपस्तेपे नदीं मन्दाकिनीमनु ।

तस्य भार्या च सुश्रोणी देवाचार्यसुता शुभा ॥४४॥

तपश्चरणयुक्तस्य बभूव परिचारिका ।

सा स्वयं फलपुष्पाम्बुसमित्कुशं समाहरत् ॥४५॥

चकार पद्मपत्राक्षी सम्यक् चातिथिपूजनम् ।

पतिं शुश्रूषमाणा सा कृशा धमनिसंतता ॥४६॥

तेजोयुक्ता सुचार्वङ्गी दृष्टा सप्तर्षिभिर्वने ।

तां तथा चारुसर्वाङ्गीं दृष्टाऽथ तपसा कृशाम् ॥४७॥

पप्रच्छुस्तपसो हेतुं तस्यास्तद्भर्तुरेव च ।

साऽब्रवीत् तनयार्थाय आवाभ्यां वै तपः क्रिया ॥४८॥

ते चास्यै वरदा ब्रह्मन् जाताः सप्त महर्षयः ।

व्रजध्वं तनयाः सप्त भविष्यन्ति न संशयः ॥४९॥

युवयोर्गुणसंयुक्ता महर्षीणां प्रसादतः ।

इत्येवमुक्त्वा जग्मुस्ते सर्व एव महर्षयः ॥५०॥

स चापि राजर्षिरगात् सभार्यो नगरं निजम् ।

ततो बहुतिथे काले सा राज्ञो महिषी प्रिया ॥५१॥

अवाप गर्भं तन्वङ्गी तस्मान्नृपतिसत्तमात् ।

गुर्विण्यामथ भार्यायां ममारासौ नराधिपः ॥५२॥

सा चाप्यारोढुमिच्छन्ती भर्तारं वै पतिव्रता ।

निवारिता तदामात्यैर्न तथापि व्यतिष्ठत ॥५३॥

समारोप्याथ भर्त्तारं चितायामारुहच्च सा ।

ततोऽग्निमध्यात् सलिले मांसपेश्यपतन्मुने ॥५४॥

साऽम्भसा सुखशीतेन संसिक्ता सप्तधाऽभवत् ।

तेऽजायन्ताथ मरुत उत्तमस्यान्तरे मनोः ॥५५॥

तामसस्यान्तरे ये च मरुतोप्यभवन् पुरा ।

तानहं कीर्तयिष्यामि गीतनृत्यकलिप्रिय ॥५६॥

तामसस्य मनोः पुत्रो ऋतध्वज इति श्रुतः ।

स पुत्रार्थी जुहावाग्नौ स्वमांसं रुधिरं तथा ॥५७॥

अस्थीनि रोमकेशांश्च स्त्रायुमज्जायकृदघनम् ।

शुक्रं च चित्रगौ राजा सुतार्थी इति नः श्रुतम् ॥५८॥

सप्तस्वेवार्चिषु ततः शुक्रपातादनन्तरम् ।

मा मा क्षिपस्वेत्यभवच्छब्दः सोऽपि मृतो नृपः ॥५९॥

ततस्तस्माद्धुतवहात् सप्त तत्तेजसोपमाः ।

शिशवः समजायन्त ते रुदन्तोऽभवन् मुने ॥६०॥

तेषां तु ध्वनिमाकर्ण्य भगवान् पद्मसम्भवः ।

समागम्य निवार्य्याथ स चक्रे मरुतः सुतान् ॥६१॥

ते त्वासन् मरुतो ब्रह्मंस्तामसे देवतागणाः ।

येऽभवन् रैवते तांश्च श्रृणुष्व त्वं तपोधन ॥६२॥

रैवतस्यान्ववाये तु राजासीद् रिपुजिद् वशी ।

रिपुजिन्नामतः ख्यातो न तस्यासीत् सुतः किल ॥६३॥

स समाराध्य तपसा भास्करं तेजसां निधिम् ।

अवाप कन्यां सुरतिं ताम प्रगृह्य गृहं ययौ ॥६४॥

तस्यां पितृगृहे ब्रह्मन् वसन्त्यां स पिता मृतः ।

साऽपि दुःखपरीताङ्गी स्वां तनुं त्यक्तुमुद्यता ॥६५॥

ततस्तां वारयामासुऋषयः सप्त मानसाः ।

तस्यामास्कचित्तास्तु सर्व एव तपोधनाः ॥६६॥

अपारयन्ती तददुःखं प्रज्वाल्याग्निं विवेश ह ।

ते चापश्यन्त ऋषयस्तच्चित्ता भावितास्तथा ॥६७॥

तां मृतामृषयो दृष्ट्वा कष्टं कष्टेति वादिनः ।

प्रजग्मुर्ज्वलनाच्चापि सप्ताजायन्त दारकाः ॥६८॥

ते च मात्रा विना भूता रुरुदुस्तान् पितामहः ।

निवारयित्वा कृतवांल्लोकनाथो मरुदगणान् ॥६९॥

रैवतस्यान्तरे जाता मरुतोऽमी तपोधन ।

श्रृणुष्व कीर्तयिष्यामि चाक्षुषस्यान्तरे मनोः ॥७०॥

आसीन्मङ्किरिति ख्यातस्तपस्वी सत्यवाक् शुचिः ।

सप्तसारस्वते तीर्थे सोऽतप्यत महत्तपः ॥७१॥

विघ्नार्थ तस्य तुषिता देवाः संप्रेषयन् वपुम् ।

सा चाभ्येत्य नदीतीरे क्षोभयामास भामिनी ॥७२॥

ततोऽस्य प्राच्यवच्छुकं सप्तसारस्वते जले ।

तां चैवाप्यशपन्मूढां मुनिर्मङ्कणको वपुम् ॥७३॥

गच्छ लब्धाऽसि मूढे त्वं पापस्यास्य महत् फलम् ।

विध्वंसयिष्यति हयो भवतीं यज्ञसंसदि ॥७४॥

एवं शप्त्वा ऋषिः श्रीमाञ् जगामाथ स्वमाश्रमम् ।

सरस्वतीभ्यः सप्तभ्यः सप्त वै मरुतोऽभवन् ॥७५॥

एतत तवोक्ता मरुतः पुरा यथा जाता वियद्व्याप्तिकरा महर्षे ।

येषां श्रुते जन्मनि पापहानिर्भवेच्च धर्माभ्युदयो महान् वै ॥७६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:24.1570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

apron piece

  • स्त्री. आधारपट्टी 
  • a beam supporting a landing or a series of winders in a staircase 
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.