TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ७३

श्रीवामनपुराण - अध्याय ७३

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ७३

पुलस्त्य उवाच

एतदर्थं बलिर्दैत्यः कृतो राजा कलिप्रिय ।

मन्त्रप्रदाता प्रह्लादः शुक्रश्चासीत् पुरोहितः ॥१॥

ज्ञात्वाऽभिषिक्तं दैतेयं विरोचनसुतं बलिम् ।

दिदृक्षवः समायाताः समयाः सर्व एव हि ॥२॥

तानागतान्निरीक्ष्यैव पूजयित्वा यथाक्रमम् ।

पप्रच्छ कुलजान् सर्वान् किंनु श्रेयस्करं मम ॥३॥

तमूचुः सर्व एवैनं श्रृणुष्व सुरमर्दन ।

यत् ते श्रेयस्करं कर्म यदस्माकं हितं तथा ॥४॥

पितामहस्तव बली आसीद् दानवपालकः ।

हिरण्यकशिपुर्वीरः स शक्रोऽभूज्जगत्त्रये ॥५॥

तमागम्य सुरश्रेष्ठो विष्णुः सिंहवपुर्धरः ।

प्रत्यक्षं दानवेन्द्राणां नखैस्तं हि व्यदारयत् ॥६॥

अपकृष्टं तथा राज्यमन्धकस्य महात्मनः ।

तेषामर्थे महाबाहो शङ्करेण त्रिशूलिना ॥७॥

तथा तव पितृव्योऽपि जम्भः शक्रेण घातितः ।

कुजम्भो विष्णुना चापि प्रत्यक्षं पशुवत् तव ॥८॥

शम्भुः पाको महेन्द्रेण भ्राता तव सुदर्शनः ।

विरोचनस्तव पिता निहतः कथयामि ते ॥९॥

श्रुत्वा गोत्रक्षयं ब्रह्मन् कृतं शक्रेण दानवः ।

उद्योगं कारयामास सह सर्वैर्महासुरैः ॥१०॥

रथैरन्ये गजैरन्ये वाजिभिश्चापरेऽसुराः ।

पदातयस्तथैवान्ये जग्मुर्युद्धाय दैवतैः ॥११॥

मयोऽग्रे याति बलवान् सेनानाथो भयङ्करः ।

सैन्यस्य मध्ये च बलिः कालनेमिश्च पृष्ठतः ॥१२॥

वामपार्श्वमवष्टभ्य शाल्वः प्रथिताविक्रमः ।

प्रयाति दक्षिणं घोरं तारकाख्यो भयङ्करः ॥१३॥

दानवानां सहस्राणि प्रयुतान्यर्बुदानि च ।

सम्प्रयातानि युद्धाय देवैः सह कलिप्रिय ॥१४॥

श्रुत्वाऽसुराणामुद्योगं शक्रः सुरपतिः सुरान् ।

उवाच याम दैत्यांस्तान् योद्धुं सबलसंयुतान् ॥१५॥

इत्येवमुक्त्वा वचनं सुरराट् स्यन्दनं बली ।

समारुरोह भगवान् यतमातलिवाजिनम् ॥१६॥

समारुढे सहस्त्राक्षे स्यन्दनं देवतागणाः ।

स्वं स्वं वाहनमारुह्य निश्चेरुर्युद्धकाड्क्षिणः ॥१७॥

आदित्या वसवो रुद्राः साध्या विश्वेऽश्विनौ तथा ।

विद्याधरा गुह्यकाश्च यक्षराक्षसपन्नगाः ॥१८॥

राजर्षयस्तथा सिद्धानानाभूताश्च संहताः ।

गजानन्ये रथानन्ये ह्यानन्ये समारुहन् ॥१९॥

विमानानि च शुभ्राणि पक्षिवाह्यानि नारद ।

समारुह्याद्रवन् सर्वे यतो दैत्यबलं स्थितम् ॥२०॥

एतस्मिन्नन्तरे धीमान् वैनतेयः समागतः ।

तस्मिन् विष्णुः सुरश्रेष्ठ अधिरुह्य समभ्यगात् ॥२१॥

तमागतं सहस्त्राक्षस्त्रैलोक्यपतिव्ययम् ।

ववन्द मूर्ध्नावनतः सह सर्वैः सुरोत्तमैः ॥२२॥

ततोऽग्रे देवसैन्यस्य कार्तिकेयो गदाधरः ।

पालयञ्जघनं विष्णुर्याति मध्ये सहस्त्रदृक् ॥२३॥

वामं पार्श्वमवष्टभ्य जयन्तो व्रजते मुने ।

दक्षिणं वरुणः पार्श्वमवष्टभ्याव्रजद बली ॥२४॥

ततोऽमराणां पृतना यशस्विनी स्कन्देन्द्रविष्णवम्बुपसूर्यपालिता।

नानास्त्रशस्त्रोद्यतदोः समूहा समाससादारिबलं महीध्रे ॥२५॥

उदयाद्रितटे रम्ये शुभे समशिलातले ।

निर्वृक्षे पक्षिरहिते जातो देवासुरो रणः ॥२६॥

संनिपातस्तयो रौद्रः सैन्ययोरभवन्मुने ।

महीधरोत्तमे पूर्वं यथा वानरहस्तिनोः ॥२७॥

रणरेणू रथोद्धूतः पिङ्गलो रणमूर्धनि ।

संध्यानुरक्तः सदृशो मेघः खे सुरतापस ॥२८॥

तदासीत् तुमुलं युद्धं न प्राज्ञायत किंचन ।

श्रूयते त्वनिशं शब्दश्छिन्धि भिन्धीति सर्वतः ॥२९॥

ततो विशसनो रौद्रो दैत्यानां दैवतैः सह ।

जातो रुधिरनिष्यन्दो रजः संयमनात्मकः ॥३०॥

शान्ते रजसि देवाद्यास्तद दानवबलं महत् ।

अभिद्रवन्ति सहिताः समं स्कन्देन धीमता ॥३१॥

निजघ्रुर्दानवान् देवाः कुमारभुजपालिताः ।

देवान् निजघ्रुर्दैत्याश्च मयगुप्ताः प्रहारिणः ॥३२॥

ततोऽमृतरसास्वादाद् विना भूताः सुरोत्तमाः ।

निर्जिताः समरे दैत्यैः समं स्कन्देन नारद ॥३३॥

विनिर्जितान् सुरान् दृष्ट्वा वैनतेयध्वजोऽरिहा ।

शार्ङ्गमानम्य बाणौघैर्निजघान ततस्ततः ॥३४॥

ते विष्णुना हन्यमानाः पतत्त्रिभिरयोमुखैः ।

दैतेयाः शरणं जग्मुः कालनेमिं महासुरम् ॥३५॥

तेभ्यः स चाभयं दत्त्वा ज्ञात्वाऽजेयं च माधवम् ।

विवृद्धिमगमद ब्रह्मन् यथा व्याधिरुपेक्षितः ॥३६॥

यं यं करेण स्पृशति देवं यक्षं सकिन्नरम् ।

तं तमादाय चिक्षेप विस्तृते वदने बली ॥३७॥

संरम्भाद दानवेन्द्रो विमृदति दितिजैः संयुतो देवसैन्यं सेन्द्रं सार्कं सचन्द्रं करचरणनखैरस्त्रहीनोऽपि वेगात् ।

चक्रैर्वैश्वानराभैस्त्ववनिगगनयोस्तिर्यगूर्ध्वं समन्तात् प्राप्तेऽन्ते कालवह्नेर्जगदखिलमिदं रुपमासीद दिधक्षोः ॥३८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:24.5930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आकारास येणें

  • १. मार्गास लागणें 
  • काही विशिष्ट मर्यादेपर्यंत प्रगति होणें 
  • कोणतेहि काम होण्याच्या दिशेनें काही गोष्टी जुळून येणें 
  • रंगरूपास येणें 
More meanings
RANDOM WORD

Did you know?

भीमा माहात्म्य हा ग्रंथ उपलब्ध होइल का?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site