संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ५२

श्रीवामनपुराण - अध्याय ५२

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

ततः सम्पूजितो रुद्रः शैलेन प्रीतिमानभूत् ।

सस्मार च महर्षींस्तु अरुन्धत्या समं ततः ॥१॥

ते संस्मृतास्तु ऋषयः शङ्करेण महात्मना ।

समाजग्मुर्महाशैलं मन्दरं चारुकन्दरम् ॥२॥

तानागतान् समीक्ष्यैव देवस्त्रिपुरनाशनः ।

अभ्युत्थायाभिपूज्यैतानिदं वचनमब्रवीत् ॥३॥

धन्योऽयं पर्वतश्रेष्ठः श्लाघ्यः पूज्यश्च दैवतैः ।

धूतपापस्तथा जातो भवतां पादपङ्क्तजैः ॥४॥

स्थीयतां विस्तृते रम्ये गिरिप्रस्थे समे शुभे ।

शिलासु पद्मवर्णासु श्लक्ष्णासु च मृदुष्वपि ॥५॥

पुलस्त्य उवाच

इत्येवमुक्ता देवेन शङ्क्तरेण महर्षयः ।

सममेव त्वरुन्धत्या विविशुः शैलसानुनि ॥६॥

उपविष्टेषु ऋषियु नन्दी देवगणाग्रणीः ।

अर्घ्यादिना समभ्यर्च्य स्थितः प्रयतमानसः ॥७॥

ततोऽब्रवीत् सुरपतिर्धर्म्यं वाक्यं हित सुरान् ।

आत्मनो यशसो वृद्ध्यै सप्तर्षीन् विनयान्वितान् ॥८॥

हर उवाच

कश्यपात्रे वारुणेय गाधेय श्रृणु गौतम ।

भरद्वाज श्रृणुष्व त्वमङ्गिरस्त्वं श्रृणुष्व च ॥९॥

ममासीद दक्षतनुजा प्रिया सा दक्षकोपतः ।

उत्ससर्ज सती प्राणान् योगदृष्ट्या पुरा किल ॥१०॥

साऽद्य भूयः समुद्भूता शैलराजसुता उमा ।

सा मदर्थाय शैलेन्द्रो याच्यतां द्विजसत्तमाः ॥११॥

पुलस्त्य उवाच

सप्तर्षयस्त्वेवमुक्ता बाढमित्यब्रुवन् वचः ।

ॐ नमः शङ्करायेति प्रोक्त्त्वा जग्मुर्हिमालयम् ॥१२॥

ततोऽप्यरुन्धतीं शर्वः प्राह गच्छस्व सुन्दरि ।

पुरन्ध्रयो हि पुरन्ध्रीणां गतिं धर्मस्य वै विदुः ॥१३॥

इत्येवमुक्ता दुर्लङ्घ्यं लोकाचारं त्वरुन्धती ।

नमस्ते रुद्र इत्युक्त्वा जगाम पतिना सह ॥१४॥

गत्वा हिमाद्रिशिखरमोषधिप्रस्थमेव च ।

ददृशुः शैलराजस्य पुरीं सुरपुरीमिव ॥१५॥

ततः सम्पूज्यमानास्ते शैलयोषिद्भिरादरात् ।

सुनाभादिभिरव्यग्रैः पूज्यमानास्तु पर्वतैः ॥१६॥

गन्धर्वैः किन्नरैर्यक्षैस्तथान्यैस्तत्पुरस्सरैः ।

विविशुर्भवनं रम्यं हिमाद्रेर्हाटकोज्ज्वलम् ॥१७॥

ततः सर्वे महात्मानस्तपसा धौतकल्मषाः ।

समासाद्य महाद्वारं संतस्थुर्द्वाः स्थकारणात् ॥१८॥

ततस्तु त्वरितोऽभ्यागाद द्वाः स्थोऽद्रिर्गन्धमादनः ।

धारयन् वै करे दण्डं पद्मरागमयं महत् ॥१९॥

ततस्तमूचुर्मुनयो गत्वा शैलपतिं शुभम् ।

निवेदयास्मान् सम्प्राप्तान् महत्कार्यार्थिनो वयम् ॥२०॥

इत्येवमुक्तः शैलेन्द्रो ऋषिभिर्गन्धमादनः ।

जगाम तत्र यत्रास्ते शैलराजो द्विभिर्वृतः ॥२१॥

निषण्णो भुवि जानुभ्यां दत्त्वा हस्तौ मुखे गिरिः ।

दण्डं निक्षिप्य कक्षायामिदं वचनमब्रवीत् ॥२२॥

गन्धमादन उवाच

इमे हि ऋषयः प्राप्ताः शैलराज तवार्थिनः ।

द्वारे स्थिताः कार्यिणस्ते तव दर्शनलालसाः ॥२३॥

पुलस्त्य उवाच

द्वाः स्थवाक्यं समाकर्ण्य समुत्थायाचलेश्वरः ।

स्वयमभ्यागमद द्वारि समादायार्घ्यमुत्तमम् ॥२४॥

तानर्च्यार्घ्यादिना शैलः समानीय सभातलम् ।

उवाच वाक्यं वाक्यज्ञः कृतासनपरिग्रहान् ॥२५॥

हिमवानुवाच

अनभ्रवृष्टिः किमियमुताहो कुसुमं फलम् ।

अप्रतर्क्यमचिन्त्यं च भवदागमनं त्विदम् ॥२६॥

अद्यप्रभृति धन्योऽस्मि शैलराडद्य सत्तमाः ।

संशुद्धदेहोऽस्म्यद्यैव यद भवन्तो ममाजिरम् ॥२७॥

आत्मसंसर्गसंशुद्धं कृतवन्तो द्विजोत्तमाः ।

दृष्टिपूतं पदाक्रान्तं तीर्थे सारस्वतं यथा ॥२८॥

दासोऽहं भवतां विप्राः कृतपुण्यश्च साम्प्रतम् ।

येनार्थिनो हि ते यूयं तन्ममाज्ञातुमर्हथ ॥२९॥

सदारोऽहं समं पुत्रैर्भृत्यैर्नप्तृभिरव्ययाः ।

किंकरोऽस्मि स्थितो युष्मदाज्ञाकारी तदुच्यताम् ॥३०॥

पुलस्त्य उवाच

शैलराजवचः श्रुत्वा ऋषयः संशितव्रताः ।

ऊचुरङ्गिरसं वृद्धं कार्यमद्रौ निवेदय ॥३१॥

इत्येवं चोदितः सर्वैऋषिभिः कश्यपादिभिः ।

प्रत्युवाच परं वाक्यं गिरिराजं तमाङ्गिराः ॥३२॥

अङ्गिरा उवाच

श्रूयतां पर्वतश्रेष्ठ येन कार्येण वै वयम् ।

समागतास्त्वत्सदनमरुन्धत्या समं गिरे ॥३३॥

योऽसौ महात्मा सर्वात्मा दक्षयज्ञक्षयङ्करः ।

शङ्करः शूलधृक् शर्वस्त्रिनेत्रो वृषवाहनः ॥३४॥

जीमूतकेतुः शत्रुघ्नो यज्ञभोक्ता स्वयं प्रभुः ।

यमीश्वरं वदन्त्येके शिवं स्थाणुं भवं हरम् ॥३५॥

भीममुग्रं महेशानं महादेवं पशोः पतिम् ।

वयं तेन प्रेषिताः स्मस्त्वत्सकाशं गिरीश्वर ॥३६॥

इयं या त्वत्सुता काली सर्वलेकेषु सुन्दरी ।

तां प्रार्थयति देवेशस्तां भवान् दातुमर्हति ॥३७॥

स एव धन्यो हि पिता यस्य पुत्री शुभं पतिम् ।

रुपाभीजनसम्पत्त्या प्राप्नोति गिरिसत्तम ॥३८॥

यावन्तो जङ्गमागम्या भूताः शैल चतुर्विधाः ।

तेषां माता त्वियं देवी यतः प्रोक्तः पिता हर्ह ॥३९॥

प्रणम्य शङ्करं देवाः प्रणमन्तु सुतां तव ।

कुरुष्व पादं शत्रूणां मूर्ध्नि भस्मपरिप्लुतम् ॥४०॥

याचितारो वयं शर्वो वरो दाता त्वमप्युमा ।

वधूः सर्वजगन्माता कुरु यच्छ्रेयसे तव ॥४१॥

पुलस्त्य उवाच

तद्वचोऽङ्गिरसः श्रुत्वा काली तस्थावधोमुखी ।

हर्षमागत्य सहसा पुनर्दैन्यमुपागता ॥४२॥

ततः शैलपतिः प्राह पर्वतं गन्धमादनम् ।

गच्छ शैलानुपामन्त्र्य सर्वानागन्तुमर्हसि ॥४३॥

ततः शीघ्रतरः शैलो गृहाद गृहमगाज्जवी ।

मेर्वादीन् पर्वतश्रेष्ठानाजुहाव समन्तरः ॥४४॥

तेऽप्याजग्मुस्त्वरावन्तः कार्यं मत्वा महत्तदा ।

विविशुर्विस्मयाविष्टाः सौवर्णेष्वासनेषु ते ॥४५॥

उदयो हेमकूटश्च रम्यको मन्दरस्तथा ।

उद्दालको वारुणश्च वराहो गरुडासनः ॥४६॥

शुक्तिमान् वेगसानुश्च दृढश्रृङ्गोऽथ श्रृङ्गवान् ।

चित्रकूटस्त्रिकूटश्च तथा मन्दरकाचलः ॥४७॥

विन्ध्यश्च मलयश्चैव पारियात्रोऽथ दुर्दरः ।

कैलासाद्रिर्महेन्द्रश्च निषधोऽञ्जनपर्वतः ॥४८॥

एते प्रधाना गिरयस्तथाऽन्ये क्षुद्रपर्वताः ।

उपविष्टाः सभायां वै प्रणिपत्य ऋषींश्च तान् ॥४९॥

ततो गिरिशः स्वां भार्या मेनामाहूतवांश्च सः ।

समागच्छत कल्याणी समं पुत्रेण भामिनी ॥५०॥

साऽभिवन्द्य ऋषीणां हि चरणांश्च तपस्विनी ।

सर्वाञ् ज्ञातीन् समाभाष्य विवेश ससुता ततः ॥५१॥

ततोऽद्रिषु महाशैल उपविष्टेषु नारद ।

उवाच वाक्यं वाक्यज्ञः सर्वानाभाष्य सुस्वरम् ॥५२॥

हिमवानुवाच

इमे सप्तर्षयः पुण्या याचितारः सुतां मम ।

महेश्वरार्थं कन्यां तु तच्चावेद्यं भवत्सु वै ॥५३॥

तद वदध्वं यथाप्रज्ञं ज्ञातयो यूयमेव मे ।

नोल्लङ्घ्य युष्मान् दास्यामि तत्क्षमं वक्तुमर्हथ ॥५४॥

पुलस्त्य उवाच

हिमवद्वचनं श्रुत्वा मेर्वाद्याः स्थावरोत्तमाः ।

सर्व एवाब्रुवन् वाक्यं स्थिताः स्वेष्वासनेषु ते ॥५५॥

याचितारश्च मुनयो वरस्त्रिपुरहा हरः ।

दीयतां शैल कालीयं जामाताऽभिमतो हि नः ॥५६॥

मेनाष्यथाह भर्तारें श्रृणु शैलेन्द्र मद्वचः ।

पितृनाराध्य देवैस्तैर्दस्ताऽनेनैव हेतुना ॥५७॥

यस्त्वस्यां भूतपतिना पुत्रो जातो भविष्यति ।

स हनिष्यति दैत्येन्द्रं महिषं तारकं तथा ॥५८॥

इत्येवं मेनया प्रोक्तः शैलैः शैलेश्वरः सुताम् ।

प्रोवाच पुत्रि दत्ताऽसि शर्वाय त्वं मयाऽधुना ॥५९॥

ऋषीनुवाच कालीयं मम पुत्री तपोधनाः ।

प्रणामं शङ्करवधूर्भक्तिनम्रा करोति वः ॥६०॥

ततोऽष्यरुन्धती कालीमङ्क्तमारोप्य चाटुकैः ।

लज्जमानां समाश्वास्य हरनामोदितैः शुभैः ॥६१॥

ततः सप्तर्षयः प्रोचुः शैलराज निशामय ।

जामित्रगुणसंयुक्तां तिथिं पुण्यां सुमङ्गलाम् ॥६२॥

उत्तराफाल्गुनीयोगं तृतीयेऽह्नि हिमांशुमान् ।

गमिष्यति च तत्रोको मुहूर्तो मैत्रनामकः ॥६३॥

तस्यां तिथ्यां हरः पाणिं ग्रहीष्यति समन्त्रकम् ।

तव पुत्र्या वयं यामस्तदनुज्ञातुमर्हसि ॥६४॥

ततः सम्पूज्य विधिना फलमूलादिभिः शुभैः ।

विसर्जजायामास शनैः शैलराड् ऋषिपुङ्गवान् ॥६५॥

तेऽप्याजग्मुर्महावेगात् त्वाक्रम्य मरुदालयम् ।

आसाद्य मन्दरगिरिं भूयोऽवन्दन्त शङ्करम् ॥६६॥

प्रणम्योचुर्महेशानं भवान् भर्त्ताऽद्रिजा वधूः ।

सब्रह्यकास्त्रयो लोका द्रक्ष्यति घनवाहनम् ॥६७॥

ततो महेश्वरः प्रीतो मुनीन् सर्वाननुक्रमात् ।

पूजयामास विधिना अरुन्धत्या समं हरः ॥६८॥

ततः सम्पूजिता जग्मुः सुराणां मन्त्रणाय ते ।

तेऽप्याजग्मुर्हरं द्रष्टुं ब्रह्मविष्णिवन्द्रभास्कराः ॥६९॥

गेहं ततोऽभ्येत्य महेश्वस्य कृतप्रणामा विविशुर्महर्षे ।

सस्मार नन्दिप्रमुखांश्च सर्वानभ्येत्य ते वन्द्य हरं निषण्णाः ॥७०॥

देवैर्गणैश्चापि वृतो गिरिशः स शोभते मुक्तजटाग्रभारः ।

यथा वने सर्ज्जकदम्बमध्ये प्ररोहमूलोऽथ वनस्पतिर्वै ॥७१॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP