TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय १३

श्रीवामनपुराण - अध्याय १३

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय १३

सुकेशिरुवाच

भवद्भिरुदिता घोरा पुष्करद्वीपसंस्थितिः ।

जम्बूद्वीपस्य तु संस्थानं कथयन्तु महर्षयः ॥१॥

ऋषय ऊचुः

जम्बूद्वीपस्य संस्थानं कथ्यमानं निशामय ।

नवभेदं सुविस्तीर्णं स्वर्गमोक्षफलप्रदम् ॥२॥

मध्ये त्विलावृतो वर्षो भद्राश्चः पूर्वतोऽद्भुतः ।

पूर्व उत्तरश्चापि हिरण्यो राक्षसेश्वर ॥३॥

पूर्वदक्षिणतश्चापि किंनरो वर्ष उच्यते ।

भारतो दक्षिणे प्रोक्तो हरिर्दक्षिणपश्चिमे ॥४॥

पश्चिमे केतुमालश्च रम्यकः पश्चिमोत्तरे ।

उत्तरे च कुरुर्वर्षः कल्पवृक्षसमावृत्तः ॥५॥

पुण्या रम्या नवैवैते वर्षाः शालकटंकट ।

इलावृताद्या ये चाष्टौ वर्षमुक्त्वैव भारतम् ॥६॥

न तेष्वस्ति युगावस्था जरामृत्युभयं न च ।

तेषां स्वाभाविका सिद्धिः सुखप्राया ह्ययत्नतः ।

विपर्ययो न तेष्वस्ति नोत्तमाधममध्यमाः ॥७॥

यदेतद् भारतं वर्षं नवद्वीपं निशाचर ।

सागरान्तरिताः सर्वे अगम्याश्च परस्परम् ॥८॥

इन्द्रद्वीपः कसेरुमांस्ताम्रवर्णो गभस्तिमान् ।

नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा ॥९॥

अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ।

कुमाराख्यः परिख्यातो द्वीपोऽयं दक्षिणोत्तरः ॥१०॥

पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ।

आन्ध्रा दक्षिणतो वीर तुरुष्कास्त्वपि चोत्तरे ॥११॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्तरवासिनः ।

इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः ॥१२॥

तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते ।

स्वर्गापवर्गप्राप्तिश्च पुण्यं पापं तथैव च ॥१३॥

महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ।

विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥१४॥

तथान्ये शतसाहस्त्रा भूधरा मध्यवासिनः ।

विस्तारोच्छ्रायिणो रम्या विपुलाः शुभसानवः ॥१५॥

कोलाहलः स वै भ्राजो मन्दरो दर्दुराचलः ।

वातंधमो वैद्युतश्च मैनाकः सरसस्तथा ॥१६॥

तुङ्गप्रस्थो नागगिरिस्तथा गोवर्धनाचलः ।

उज्जायनः पुष्पगिरिर्बुदो रैवतस्तथा ॥१७॥

ऋष्यमूकः सगोमन्तश्चित्रकूटः कृतस्मरः ।

श्रीपर्वतः कोङ्कणश्च शतशोऽन्येऽपि पर्वताः ॥१८॥

तैर्विमिश्रा जनपदा म्लेच्छा आर्याश्च भागशः ।

तैः पीयन्ते सरिच्छ्रेष्ठा यास्ताः सम्यङनिशामय ॥१९॥

सरस्वती पञ्चरुपा कालिन्दी सहिरण्यवती ।

शतद्रुश्चन्द्रिका नीला वितस्तैरावती कुहूः ॥२०॥

मधुरा देविका चैव उशीरा धातकी रसा ।

गोमती धूतपापा च बाहुदा सदृषद्वती ॥२१॥

निश्चीरा गण्डकी चित्रा कौशिकी च वधूसरा ।

सरयूश्च सलौहित्या हिमवत्पादनिः सृताः ॥२२॥

वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धुरेव च ।

पर्णाशा नन्दिनी चैव पावनी च मही तथा ॥२३॥

पारा चर्मण्वती लूपी विदिशा वेणुमत्यपि ।

सिप्रा ह्यवन्ती च तथा पारियात्राश्रयाः स्मृताः ॥२४॥

शोणो महानदश्चैव नर्मदा सुरसा कृपा ।

मन्दाकिनी दशार्णा च चित्रकूटापवाहिका ॥२५॥

चित्रोत्पला वै तमसा करमोदा पिशाचिका ।

तथान्या पिप्पलश्रोणी विपाशा वञ्जुलावती ॥२६॥

सत्सन्तजा शुक्तिमती मञ्जिष्ठा कृत्तिमा वसुः ।

ऋक्षपादप्रसूता च तथान्या बालुवाहिनी ॥२७॥

शिवा पयोष्णी निर्विन्ध्या तापी सनिषधावती ।

वेणा वैतरणी चैव सिनीबाहुः कुमुद्वती ॥२८॥

तोया चैव महागौरी दुर्गन्धा वाशिला तथा ।

विन्ध्यपादप्रसूताश्च नद्यः पुण्यजलाः शुभाः ॥२९॥

गोदावरी भीमरथी कृष्णा वेणा सरस्वती ।

तुङ्गभद्रा सुप्रयोगा बाह्या कावेरिरेव च ॥३०॥

दुग्धोदा नलिनी रेवा वारिसेना कलस्वना ।

एतास्त्वपि महानद्यः सह्यपादविनिर्गताः ॥३१॥

कृतमाला ताम्रपर्णी वञ्जुला चोत्पलावती ।

सिनी चैव सुदामा च शुक्तिमत्प्रभवास्त्विमाः ॥३२॥

सर्वाः पुण्याः सरस्वत्यः पापप्रशमनास्तथा ।

जगतो मातरः सर्वाः सर्वाः सागरयोषितः ॥३३॥

अन्याः सहस्त्रशश्चात्र क्षुन्द्रनद्यो हि राक्षस ।

सदाकालवहाश्चान्याः प्रावृट्कालवहास्तथा ।

उदडमध्योद्भवा देशाः पिबन्ति स्वेच्छया शुभाः ॥३४॥

मत्स्याः कुशट्टाः कुणिकुण्डलाश्च ।

पाञ्चालकाश्याः सह कोसलाभिः ॥३५॥

वृकाः शबरकौवीराः सभूलिङ्गा जनास्त्विमे ।

शकाश्चैव समशका मध्यदेश्या जनास्त्विमे ॥३६॥

वाह्वीका वाटधानाश्च आभीराः कालतोयकाः ।

अपरान्तास्तथा शूद्राः पह्लवाश्च सखेटकाः ॥३७॥

गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ।

शातद्रवा ललित्थाश्च पारावतसमूषकाः ॥३८॥

माठरोदकधाराश्च कैकेया दशमास्तथा ।

क्षत्रियाः प्रातिवैश्याश्च वैश्यशूद्रकुलानि च ॥३९॥

काम्बोजा दरदाश्चैव बर्बरा ह्यङ्गलौकिकाः ।

चीनाश्चैव तुषाराव बहुधा बाह्यतोदराः ॥४०॥

आत्रेयाः सभरद्वाजाः प्रस्थलाश्च दशेरकाः ।

लम्पकास्तावका रामाः शूलिकास्तङ्गणैः सह ॥४१॥

औरसाश्चालिभद्राश्च किरातानां च जातयः ।

तामसाः क्रममसाश्च सुपार्श्वाः पुण्ड्रकास्तथा ॥४२॥

कुलूताः कुहुका ऊर्णास्तूणीपादाः सकुक्कुटाः ।

माण्डव्या मालवीयाश्च उत्तरापथवासिनः ॥४३॥

अङ्गा वङ्गा मुदगरवास्त्वन्तर्गिरिबहिर्गिराः ।

तथा प्रवङ्गा वाङ्गेया मांसादा बलदन्तिकाः ॥४४॥

ब्रह्मोत्तरा प्राविजया भार्गवाः केशवर्वराः ।

प्राग्ज्योतिषाश्च शूद्राश्च विदेहास्ताम्रलिप्तकाः ॥४५॥

माला मगधगोनन्दाः प्राच्या जनपदास्त्विमे ।

पुण्ड्राश्च केरलाश्चैव चौडाः कुल्याश्च राक्षस ॥४६॥

जातुषा मूषिकादाश्च कुमारादा महाशकाः ।

महाराष्ट्रा माहिषिकाः कालिङ्गाश्चैव सर्वशः ॥४७॥

आभीराः सह नैषीका आरण्याः शबराश्च ये ।

वलिन्ध्या विन्ध्यमौलेया वैदर्भा दण्डकैः सह ॥४८॥

पौरिकाः सौशिकाश्चैव अश्मका भोगवर्द्धनाः ।

वैषिकाः कुन्दला आन्ध्रा उदभिदा नलकारकाः ।

दाक्षिणात्या जनपदास्त्विमे शालकटङ्कट ॥४९॥

शूर्पारका कारिवना दुर्गास्तालीकटैः सह ।

पुलीयाः ससिनीलाश्च तापसास्तामसास्तथा ॥५०॥

कारस्करास्तु रमिनो नासिक्यान्तरर्मदाः ।

भारकच्छा समाहेयाः सह सारस्वतैरपि ॥५१॥

वात्सेयाश्च सुराष्ट्राश्च आवन्त्याश्चार्बुदैः सह ।

इत्येते पश्चिमामाशां स्थिता जानपदा जनाः ॥५२॥

कारुषाश्चैकलव्याश्च मेकलाश्चोत्कलैः सह ।

उत्तमर्णा दशार्णाश्च भोजाः किंकवरैः सह ॥५३॥

तोशलाः कोशलाश्चैव त्रैपुराश्चैल्लिकास्तथा ।

तुरुसास्तुम्बराश्चैव वहनाः नैषधैः सह ॥५४॥

अनूपास्तुण्डिकेराश्च वीतहोत्रास्त्ववन्तयः ।

सुकेशे विन्ध्यमूलस्थास्त्विमे जनपदाः स्मृताः ॥५५॥

अथो देशान् प्रवक्ष्यामः पर्वताश्रयिणास्तु ये ।

निराहारा हंसमार्गाः कुपथास्तङ्गणाः खशाः ॥५६॥

कुथप्रावरणाश्चैव ऊर्णाः पुण्याः सहूहुकाः ।

त्रिगर्ताश्च किराताश्च तोमराः शिशिरादिकाः ॥५७॥

इमे तवोक्ता विषयाः सुविस्तराद द्विपे कुमारे रजनीचरेश ।

एतेषु देशेषु च देशधर्मान् संकीर्त्यमानाञ्श्रृणु तत्त्वतो हि ॥५८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:41.0630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

carcerule

  • मुद्रिका 
  • मुद्रिका 
  • ऊर्ध्वस्थ व संयुक्त किंजपुटापासून बनलेले, शुष्क, न फुटणारे, एकबीजी फलांश अलग करणारे फळ, उदा. चक्रभेंडी, पेटारी, मुद्रा, गुलखेरा इ. 
  • mericarp 
More meanings
RANDOM WORD

Did you know?

घराच्या दाराबाहेर शुभ-लाभ कां लिहीतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site