TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ५८

श्रीवामनपुराण - अध्याय ५८

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ५८

पुलस्त्य उवाच

सेनापत्येऽभिषिक्तस्तु कुमारो दैवतैरथ ।

प्रणिपत्य भवं गिरिजां पावकं शुचिम् ॥१॥

षट् कृत्तिकाश्च शिरसा प्रणम्य कुटिलामपि ।

ब्रह्माणं च नमस्कृत्य इदं वचनमब्रवीत् ॥२॥

कुमार उवाच

नमोऽस्तु भवतां देवा ओं नमोऽस्तु तपोधनाः ।

युष्मत्प्रसादाज्जेष्यामि शत्रू महिषतारकौ ॥३॥

शिशुरस्मि न जानामि वक्तुं किंचन देवताः ।

दीयतां ब्रह्मणा सार्द्धमनुज्ञा मम साम्प्रतम् ॥४॥

इत्येवमुक्ते वचने कुमारेण महात्मना ।

मुखं निरीक्षन्ति सुराः सर्वे विगतसाध्वसाः ॥५॥

शङ्करेऽपि सुतस्त्रेहात् समुत्थाय प्रजापतिम् ।

आदाय दक्षिणे पाणौ स्कन्दान्तिकमुपागतम् ॥६॥

अथोमा प्राह तनयं पुत्र एह्येहि शत्रुहन् ।

वन्दस्व चरणौ दिव्यौ विष्णोर्लोकनमस्कृतौ ॥७॥

ततो विहस्याह गुहः कोऽयं मातर्वदस्व माम् ।

यस्यादरात् प्रणामोऽयं मातर्वदस्व माम् ।

यस्यादरात् प्रणामोऽयं क्रियते मद्विधैर्जनैः ॥८॥

तं माता प्राह वचनं कृते कर्मणि पद्मभूः ।

वक्ष्यते तव योऽयं हि महात्मा गरुडध्वजः ॥९॥

केवलं त्विह मां देवस्त्वत्पिता प्राह शङ्करः ।

नान्यः परतरोऽस्माद्धि वयमन्ये च देहिनः ॥१०॥

पार्वत्या गदिते स्कन्दः प्रणिपत्य जनार्दनम् ।

तस्थौ कृताञ्जलिपुटस्त्वाज्ञां प्रार्थयतेऽच्युतात् ॥११॥

कृताञ्जलिपुटं स्कन्दं भगवान् भूतभावनः ।

कृत्वा स्वस्ययनं देवो ह्यनुज्ञां प्रददौ ततः ॥१२॥

नारद उवाच

यत्तत् स्वस्त्ययनं पुण्यं कृतवान् गरुडध्वजः ।

शिखिध्वजाय विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥१३॥

पुलस्त्य उवाच

श्रृणु स्वस्त्ययनं पुण्यं यत्प्राह भगवान् हरिः ।

स्कन्दस्य विजयार्थाय महिषस्य वधाय च ॥१४॥

स्वस्ति ते कुरुतां ब्रह्मा पद्मयोनी रजोगुणः ।

स्वस्ति चक्राङ्कितकरो विष्णुस्तो विदधात्वजः ॥१५॥

स्वस्ति ते शङ्करो भक्त्या सपत्नीको वृषध्वजः ।

पावकः स्वस्ति तुभ्यं च करोतु शिखिवाहन ॥१६॥

दिवाकरः स्वस्ति करोतु तुभ्यं सोमः सभौमः सबुधो गुरुश्च ।

काव्यः सदा स्वस्ति करोतु तुभ्यं शनैश्चरः स्वस्त्ययनं करोतु ॥१७॥

मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुर्वसिष्ठो भृगुरङ्गिराश्च ।

मृकण्डुजस्ते कुरुतां हि स्वस्ति स्वस्ति सदा सप्त महर्षयश्च ॥१८॥

विश्वेश्विनौ साध्यमरुदगणाग्नयो दिवाकराः शूलधरा महेश्वराः ।

यक्षाः पिशाचा वसवोऽथ किन्नरास्तेस्वस्ति कुर्वन्त सदोद्यतास्त्वमी ॥१९॥

नागाः सुपर्णाः सरितः सरांसि तीर्थानि पुण्यायतनाः समुद्राः ।

महाबला भूतगणा गणेन्द्रास्ते स्वस्ति कुर्वन्तु सदा समुद्यताः ॥२०॥

स्वस्ति द्विपादिकेभ्यस्ते चतुष्पादेभ्य एव च ।

स्वस्ति ते बहुपादेभ्यस्त्वपादेभ्योऽप्यनामयम् ॥२१॥

प्राचीं दिग रक्षतां वज्री दक्षिणां दण्डनायकः ।

पाशी प्रतीचीं रक्षतु लक्ष्मांशुः पातु चोत्तराम् ॥२२॥

वह्निर्दक्षिणपूर्वां च कुबेरो दक्षिणापराम् ।

प्रतीचीमुत्तरां वायुः शिवः पूर्वोत्तरामपि ॥२३॥

उपरिष्टाद ध्रुवः पातु अधस्ताच्च धराधरः ।

मुसली लाङ्गली चक्री धनुष्मानन्तरेषु च ॥२४॥

वाराहोऽम्बुनिधौ पातु दुर्गे पातु नृकेसरी ।

सामवेदध्वनिः श्रीमान् सर्वतः पातु माधवः ॥२५॥

पुलस्त्य उवाच

एवं कृतस्वस्त्ययनो गुहः शक्तिधरोऽग्रणीः ।

प्रणिपत्य सुरान् सर्वान् समुत्पतत भूतलात् ॥२६॥

तमन्वेव गणाः सर्वे दत्ता ये मुदितैः सुरैः ।

अनुजग्मुः कुमारं ते कामरुपा विहङ्गमाः ॥२७॥

मातरश्च तथा सर्वाः समुत्पेतुर्नभस्तलम् ।

समं स्कन्देन बलिना हन्तुकामा महासुरान ॥२८॥

ततः सुदीर्घमध्वानं गत्वा स्कन्दोऽब्रवीद् गणान् ।

भूम्यां तूर्णं महावीर्याः कुरुध्वमवतारणम् ॥२९॥

गणा गुहवचः श्रुत्वा अवतीर्य महीतलम् ।

विवेशर्णवरन्ध्रेण पातालं दानवालयम् ॥३१॥

श्रुतः स महिषेणाथ तारकेण च धीमता ।

विरोचनेन जम्भेन कुजम्भेनासुरेण च ॥३२॥

ते श्रुत्वा सहसा नादं वज्रपातोपमं दृढम् ।

किमेतदिति संचिन्त्य तूर्णं जग्मुस्तदान्धकम् ॥३३॥

ते समेत्यान्धकेनैव समं दानवपुङ्गवाः ।

मन्त्रयामासुरुद्विग्नास्तं शब्दं प्रति नारद ॥३४॥

मन्त्रयत्सु च दैत्येषु भूतलात् सूकराननः ।

पातालकेतुर्दैत्येन्द्रः सम्प्राप्तोऽथ रसातलम् ॥३५॥

स बाणविद्धो व्यथितः कम्पमानो मुहुर्मुहः ।

अब्रवीद वचनं दीनं समभ्येत्यान्धकासुरम् ॥३६॥

पातालकेतुरुवाच

गतोऽहमासं दैत्येन्द्र गालवस्याश्रमं प्रति ।

तं विध्वंसयितुं यत्नं समारब्धं बलान्मया ॥३७॥

यावत्सूकररुपेण प्रविशामि तमाश्रमम् ।

न जाने तं नरं राजन् येन मे प्रहितः शरः ॥३८॥

शरसंभिन्नजत्रुश्च भयात् तस्य महाजवः ।

प्रणष्ट आश्रमात् तस्मात् स च मां पृष्ठतोऽन्वगात् ॥३९॥

तुरङ्गखुरनिर्घोषः श्रूयते परमोऽसुर ।

तिष्ठ तिष्ठेति वदतस्तस्य शूरस्य पृष्ठतः ।

तद्भयादस्मि जलधिं सम्प्राप्तो दक्षिणार्णवम् ॥४०॥

यावत्पश्यामि तत्रस्थान् नानावेषाकृतीन् नरान् ।

केचिद गर्जन्ति घनवत् प्रतिगर्जन्ति चापरे ॥४१॥

अन्ये चोचुर्वयं नूनंख निघ्नामो महिषासुरम् ।

तारकं घातयामोऽद्य वदन्त्यन्ये सुतेजसः ॥४२॥

तुच्छुत्वा सुतरां त्रासो मम जातोऽसुरेश्वर ।

महार्णवं परित्यज्य पतितोऽस्मि भयातुरः ॥४३॥

धरण्यां विवृतं गर्गं स मामन्वपतद बली ।

तद्भयात् सम्परित्यज्य हिरण्यपुरमात्मनः ॥४४॥

तवान्तिकमनुप्राप्तः प्रसादं कर्तुमर्हसि ।

तच्छुत्वा चान्धको वाक्यं प्राह मेघस्वनं वचः ॥४५॥

न भेतव्यं त्वया तस्मात् सत्यं गोप्ताऽस्मि दानव ।

महिषस्तारकश्चोभौ बाणश्च बलिनां वरः ॥४६॥

अनाख्यायैव ते वीरास्त्वन्धकं महिषादयः ।

स्वपरिग्रहसंयुक्ता भूमिं युद्धाय निर्ययुः ॥४७॥

यत्र ते दारुणाकारा गणाश्चक्रुर्महास्वनम् ।

तत्र दैत्याः समाजग्मुः सायुधाः सबला मुने ॥४८॥

दैत्यानापततो दृष्ट्वा कार्तिकेयगणास्ततः ।

अभ्यद्रवन्त सहसा स चोग्रो मातृमण्डलः ॥४९॥

तेषां पुरस्सरः स्थाणुः प्रगृह्य परिघं बली ।

निषूदयत् परबलं क्रुद्धो रुद्रः पशूनिव ॥५०॥

तं निघ्नन्तं महादेवं निरीक्ष्य कलशोदरः ।

कुठारं पाणिनादाय हन्ति सर्वान् महासुरान् ॥५१॥

ज्वालामुखो भयकरः करेणादाय चासुरम् ।

सरथं सगजं साश्वं विस्तृते वदनेऽक्षिपत् ॥५२॥

दण्डकश्चापि संक्रुद्धः प्रासपाणिर्महासुरम् ।

सवाहनं प्रक्षिपति समुत्पाट्य महार्णवे ॥५३॥

शङ्कुकर्णश्च मुसली हलेनाकृष्य दानवान् ।

संचूर्णयति मन्त्रीव राजानं प्रासभृद वशी ॥५४॥

खङ्गचर्मधरो वीरः पुष्पदन्तो गणेश्वरः ।

द्विधा त्रिधा च बहुधा चक्रे दैतेयदानवान् ॥५५॥

पिङ्गलो दण्डमुद्यम्य यत्र यत्र प्रधावति ।

तत्र तत्र प्रदृश्यन्ते राशयः शावदानवैः ॥५६॥

सहस्त्रनयनः शूलं भ्रामयन् वै गणाग्रणीः ।

निजघानासुरान् ससवीरः सवाजिरथकुञ्जरान् ॥५७॥

भीमो भीमशिलावर्षैः स पुरस्सरतोऽसुरान् ।

निजघान यथैवेन्द्रो वज्रवृष्ट्या नगोत्तमान् ॥५८॥

रौद्रः शकटचक्राक्षो गणः पञ्चशिखो बली ।

भ्रामयन् मुदगरं वेगान्निजघान् बलाद् रिपून् ॥५९॥

गिरिभेदी तलेनैव सारोहं कुञ्जरं रणे ।

भस्म चक्रे महावेगो रथं च रथिना सह ॥६०॥

नाडीजङ्घोऽङ्घिपातैश्च मुष्टिभिर्जानुनाऽसुरान् ।

कीलाभिर्वज्रतुल्याभिर्जघान बलवान् मुने ॥६१॥

कूर्मग्रीवो ग्रीवयैव शिरसा चरणेन च ।

लुण्ठनेन तथा दैत्यान् निजघान सवाहनान् ॥६२॥

पिण्डारकस्तु तुण्डेन श्रृङ्गाभ्यां च कलिप्रिय ।

विदारयति संग्रामे दानवान् समरोद्धतान् ॥६३॥

ततस्तत्सैन्यमतुलं वध्यमानं गणेश्वरैः ।

प्रदुद्रावाथ महिषस्तारकश्च गणाग्रणीः ॥६४॥

ते हन्यमानाः प्रमथा दानवाभ्यां वरायुधैः ।

परिवार्य समन्तात् ते युयुधुः कुपितास्तदा ॥६५॥

हंसास्यः पट्टिशेनाथ जघान महिषासुरम् ।

षोडशाक्षस्त्रिशूलेन शतशीर्षो वरासिना ॥६६॥

श्रुतायुधस्तु गदया विशोको मुसलेन तु ।

बन्धुदत्तस्तु शूलेन मूर्ध्नि दैत्यमताडयत् ॥६७॥

तथान्यैः पार्षदैर्युद्धे शूलशक्त्यृष्टिपट्टिशैः ।

नाकम्पत् ताडयमानोऽपि मैनाक इव पर्वतः ॥६८॥

तारको भद्रकाल्या च तथोलूखलया रणे ।

वध्यते चैकचूडाया दार्यते परमायुधैः ॥६९॥

तौ ताड्यमानौ प्रमथैर्मातृभिश्च महासुरौ ।

न क्षोभं जग्मतुर्वीरौ क्षोभयन्तौ गणानपि ॥७०॥

महिषो गदया तूर्णं प्रहारैः प्रमथानथ ।

पराजित्य पराधावत् कुमारं प्रति सायुधः ॥७१॥

तमापतन्तं महिषं सुचक्राक्षो निरीक्ष्य हि ।

चक्रमुद्यम्य संक्रुद्धो रुरोध दनुनन्दनम् ॥७२॥

गदाचक्राङ्कितकरौ गणासुरमहारथौ ।

अयुध्येतां तदा ब्रह्मन् लघु चित्रं च सुष्ठु च ॥७३॥

गदां मुमोच महिषः समाविध्य गणाय तु ।

सुचक्राक्षो निजं चक्रमुत्ससर्जासुरं प्रति ॥७४॥

गदां छित्वा सुतीक्ष्णारं चक्रं महिषमाद्रवत् ।

तत उच्चुक्रुशुर्दैत्या हा हतो महिस्त्विति ॥७५॥

तच्छुत्वाऽभ्यद्रवद बाणः प्रासमाविध्य वेगवान् ।

जघान चक्रं रक्ताक्षः पञ्चमुष्टिशतेन हि ॥७६॥

पञ्चबाहुशतेनापि सुचक्राक्षं बबन्ध सः ।

बलवानापि बाणेन निष्प्रयत्नगतिः कृतः ॥७७॥

सुचक्राक्षं सचक्रं हि बद्धं बाणासुरेण हि ।

दृष्ट्वाद्रवदगदापाणिर्मकराक्षो महाबलः ॥७८॥

गदया मूर्ध्नि बाणं हि निजघान महाबलः ।

वेदनार्त्तो मुमोचाथ सुचक्राक्षं महासुरः ।

स चापि तेन संयुक्तो व्रीडायुक्तो महामनाः ॥७९॥

स संग्रामं परित्यज्य सालिग्राममुपाययौ ।

बाणोऽपि मकारक्षेण ताडितोऽभूत्पराङ्मुखः ॥८०॥

प्रभज्यत बलं सर्वं दैत्यानां सुरतापस ।

ततः स्वबलमीक्ष्यैव प्रभग्नं तारको बली ।

खङ्गोद्यतकरो दैत्यः प्रदुद्राव गणेश्वरान् ॥८१॥

ततस्तु तेनाप्रतिमेन सासिना ते हंसवक्त्रप्रमुखा गणेश्वराः ।

समातरश्चापि पराजिता रणे स्कन्दं भयार्त्ताः शरणं प्रपेदिरे ॥८२॥

भग्नान् गणान् वीक्ष्य महेश्वरात्मजस्तं तारकं सासिनमापतन्तम् ।

दृष्टैव शक्त्या हदये बिभेद स भिन्नमर्मा न्यपतत् पृथिव्याम् ॥८३॥

तस्मिन्हते भ्रातरि भग्नदर्पो भयातुरोऽभून्महिषो महर्षे ।

संत्यज्य संग्रामशिरो दुरात्मा जगाम शैलं स हिमाचलाख्यम् ॥८४॥

बाणेऽपि वीरे निहतेऽथ तारके गते हिमाद्रिं महिषे भयार्त्ते ।

भयाद् विवेशोग्रमपां निधानं गनैर्बले वध्यति सापराधे ॥८५॥

हत्वा कुमारो रणमूर्ध्नि तारकं प्रगृह्य शक्तिं महता जवेन ।

मयूरमारुह्य शिखण्डमण्डितं ययौ निहन्तुं महिषासुरस्य ॥८६॥

स पृष्ठतः प्रेक्ष्य शिखण्डिकेतनं समापतन्तं वरशक्तिपाणिनम् ।

कैलासमुत्सृज्य हिमाचलं तथा क्रौञ्चं समभ्येत्य गुहां विवेश ॥८७॥

दैत्यं प्रविष्टं स पिनाकिसूनुर्जुगोप यत्नाद भगवान् गुहोऽपि ।

स्वबन्धुहन्ता भविता कथं त्वहं संचिन्तयन्नेव ततः स्थितोऽभूत् ॥८८॥

ततोऽभ्यगात् पुष्करसम्भवस्तु हरो मुरारिस्त्रिदशेश्वरश्च ।

अभ्येत्य चोचुर्महिषं सशैलं भिन्दस्व शक्त्या कुरु देवकार्यम् ॥८९॥

तत् कार्तिकेयः प्रियमेव तथ्यं श्रुत्वा वचः प्राह सुरान् विहस्य ।

कथं हि मातामहनप्तृकं वधे स्वभ्रातरं भ्रातृसुतं च मातुः ॥९०॥

एषा श्रुतिश्चापि पुरातनी किल गायन्ति यां वेदविदो महर्षयः ।

कृत्वा च यस्या मतमुत्तमायाः स्वर्गं व्रजन्ति त्वतिपापिनोऽपि ॥९१॥

गां ब्राह्मणं वृद्धमथाप्तवाक्यं बालं स्वबन्धुं ललनामदुष्टाम् ।

कृतापराधा अपि नैव वध्या आचार्यमुख्या गुरवस्तथैव ॥९२॥

एवं जानन् धर्ममग्र्यं सुरेन्द्रा नाहं हन्यां भ्रातरं मातुलेयम् ।

यदा दैत्यो निर्गमिष्यद गुहान्तस्तदा शक्त्या घातयिष्यामि शत्रुम् ॥९३॥

श्रुत्वा कुमारवचनं क्भगवान्महर्षे कृत्वा मतिं स्वहदये गुहमाह शक्रः ।

मत्तो भवान् न मतिमान् वदसे किमर्थं वाक्यं श्रृणुष्व हरिणा गदितं हि पूर्वम् ॥९४॥

नैकस्यार्थे बहून हन्यादिति शास्त्रेषु निश्चयः ।

एकं हन्याद बहुभ्योऽर्थे न पापी तेन जायते ॥९५॥

एतच्छुत्वा मया पूर्वं समयस्थेन चाग्निज ।

निहतो नमुचिः पूर्वं सोदरोऽपि ममानुजः ॥९६॥

तस्माद् बहूनामर्थाय सक्रौञ्चं महिषासुरम् ।

घातयस्व पराक्रम्य शक्त्या पावकदत्तया ॥९७॥

पुरन्दरवचः श्रुत्वा क्रोधादारक्तलोचनः ।

कुमारः प्राह वचनं कम्पमानः शतक्रतुम् ॥९८॥

मूढ किं ते बलं बाह्वोः शारीरं चापि वृत्रहन् ।

येनाधिक्षिपसे मां त्वं ध्रुवं न मतिमानसि ॥१९॥

तमुवाच सहस्त्राक्षस्त्वत्तोऽहं बलवान् गुह ।

तं गुहः प्राह एह्येहि युद्ध्यस्व बलवान् यदि ॥१००॥

शक्रः प्राहाथ बलवान् ज्ञायते कृत्तिकासुत ।

प्रदक्षिणं शीघ्रतरं यः कुर्यात् क्रौञ्चमेव हि ॥१०१॥

श्रुत्वा तद्वचनं स्कन्दो मयूरं प्रञ्झय वेगवान् ।

प्रदक्षिणं पादचारी कर्तुं तूर्णतरोऽभ्यगात् ॥१०२॥

शक्रोऽवतीर्य नागेन्द्रात् पादेनाथ प्रदक्षिणम् ।

कृत्वा तस्थौ गुहोऽभ्येत्य मूढं कि संस्थितो भवान् ॥१०३॥

तमिन्द्रः प्राह कौटिल्यं मया पूर्वं प्रदक्षिणः ।

कृतोऽस्य न त्वया पूर्वं कुमारः शक्रमब्रवीत् ॥१०४॥

मया पूर्वं मया पूर्वं विवदन्तो परस्परम् ।

प्राप्योचतुर्महेशाय ब्रह्मणे माधवाय च ॥१०५॥

अथोवाच हरिः स्कन्दं प्रष्टुमर्हसि पर्वतम् ।

योऽयं वक्ष्यति पूर्वं स भविष्यति महाबलः ॥१०६॥

तन्माधववचः श्रुत्वा क्रौञ्चमभ्येत्य पावकिः ।

पप्रच्छाद्रिमिदं केन कृतं पूर्वं प्रदक्षिणम् ॥१०७॥

इत्येवमुक्तः क्रौञ्चस्तु प्राह पूर्वं महामतिः ।

चकार गोत्रभित् पश्चात्त्वया कृतमथो गुह ॥१०८॥

एवं ब्रुवन्तं क्रौञ्चं स क्रोधात्प्रस्फुरिताधरः ।

बिभेद शक्त्या कौटिल्यो महिषेण समं तदा ॥१०९॥

तस्मिन् हतेऽथ तनये बलवान् सुनाभो वेगेन भूमिधरपार्थिवजस्तथागात् ।

ब्रह्मेन्द्ररुद्रमरुदश्विवसुप्रधाना जग्मुर्दिवं महिषमीक्ष्य हतं गुहेन ॥११०॥

स्वमातुलं वीक्ष्य बली कुमारः शक्तिं समुत्पाट्य निहन्तुकामः ।

निवारितश्चक्रधरेण वेगादालिङ्ग्य दोर्भ्यां गुरुरित्युदीर्य ॥१११॥

सुनाभमभ्येत्य हिमाचलस्तु प्रगृह्य हस्तेऽन्यत एव नीतवान् ।

हरिः कुमारं सशिखण्डिनं नयद्वेगाद्दिवं पन्नगशत्रुपत्रः ॥११२॥

ततो गुहः प्राह हरिं सुरेशं मोहेन नष्टो भगवन् विवेकः ।

भ्राता मया मातुलजो निरस्तस्तस्मात् करिष्ये स्वशरीरशोषम् ॥११३॥

तं प्राह विष्णुर्व्रज तीर्थवर्यं पृथूदकं पापतरोः कुठारम् ।

स्त्रात्वौघवत्यां हरमीक्ष्य भक्त्या भविष्यसे सूर्यसमप्रभावः ॥११४॥

इत्येवमुक्तो हरिणा कुमारस्त्वभ्येत्व तीर्थं प्रसमीक्ष्य शम्भुम् ।

स्त्रात्वार्च्य देवान् स रविप्रकाशो जगाम शैलं सदनं हरस्य ॥११५॥

सुचक्रनेत्रोऽपि महाश्रमे तपश्चचार शैले पवनाशनस्तु ।

आराधयानो वृषभध्वजं तदा हरोऽस्य तुष्टो वरदो बभ व ॥११६॥

देवात् स वव्रे वरमायुधार्थे चक्रं तथा वै रिपुबाहुषण्डम् ।

छिन्द्याद्यथा त्वप्रतिमं करेण बाणस्य तन्मे भगवान् ददातु ॥११७॥

तमाह शम्भुर्व्रज दत्तमेतद वरं हि चक्रस्य तवायुधस्य ।

बाणस्य तद्वाहुबलं प्रवृद्धं संछेत्य्सते नात्र विचारणाऽस्ति ॥११८॥

वरे प्रदत्ते त्रिपुरान्तकेन गणेश्वरः स्कन्दमुपाजगाम ।

निपत्य पादौ प्रतिवन्द्य हष्टो निवेदयामास हरप्रसादम् ॥११९॥

एवं तवोक्तं महिषासुरस्य वधं त्रिनेत्रात्मजशक्तिभेदात् ।

क्रौञ्चस्य मृत्युः शरणागतार्थं पापापहं पुण्यविवर्धनं च ॥१२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:15:01.9700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सुगरात

  • पु. ( गो . ) स्वार्थ . 
RANDOM WORD

Did you know?

Are we transliterating everything? Do we copy that from some other websites?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site