TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ५७

श्रीवामनपुराण - अध्याय ५७

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ५७

नारद उवाच

कथं समहिषः क्रौञ्चो भिन्नः स्कन्देन सुव्रत ।

एतन्मे विस्तराद ब्रह्मन् कयस्वामितद्युते ॥१॥

पुलस्त्य उवाच

श्रृणुष्व कथयिष्यामि कथां पुण्यां पुरातनीम् ।

यशोवृद्धिं कुमारस्य कार्तिकेयस्य नारद ॥२॥

यत्तत्पीतं हुताशेन स्कन्नं शुक्रं पिनाकिनः ।

तेनाक्रान्तोऽभवद ब्रह्मन् मन्दतेजा हुताशनः ॥३॥

ततो जगाम देवानां सकाशममितद्युतिः ।

तैश्चापि प्रहितस्तूर्णं ब्रह्मलोकं जगाम ह ॥४॥

स गच्छन् कुटिलां देवीं ददर्श पथि पावकः ।

तां दृष्ट्वा प्राह कुटिले तेज एतत्सुदुर्द्धरम् ॥५॥

महेश्वरेण संत्यक्तं निर्दहेद भुवनान्यपि ।

तस्मात् प्रतीच्छ पुत्रोऽयं तव धन्यो भविष्यति ॥६॥

इत्यग्निना सा कुटिला स्मृत्वा स्वमतमुत्तमम् ।

प्रक्षिपस्वाम्भसि मम प्राह वह्निं महापगा ॥७॥

ततस्त्वधारयद्देवी शार्वं तेजस्त्वपूपुषत् ।

हुताशनोऽपि भगवान् कामचारी परिभ्रमन् ॥८॥

पञ्चवर्षसहस्त्राणि धृतवान् हव्यभुक् ततः ।

मांसमस्थीनि रुधिरं मेदोऽन्त्ररेतसी त्वचः ॥९॥

रोमश्मश्वक्षिकेशाद्याः सर्वे जाता हिरण्मयाः ।

हिरण्यरेता लोकेषु तेन गीतश्च पावकः ॥१०॥

पञ्चवर्षसहस्त्राणि कुटिला ज्वलनोपमम् ।

धारयन्ती तदा गर्भं ब्रह्मणः स्थानमागता ॥११॥

तां दृष्टवान् पद्मजन्मा संतप्यन्तीं महापगाम् ।

दृष्ट्वा पप्रच्छ केनायं तव गर्भः समाहितः ॥१२॥

सा चाह शाङ्करं यत्तच्छुकं पीतं हि वह्निना ।

तदशक्तेन तेनाद्य निक्षिप्तं मयि सत्तम ॥१३॥

पञ्चवर्षसहस्त्राणि धारयन्त्याः पितामह ।

गर्भस्य वर्तते कालो न पपात च कर्हिचित् ॥१४॥

तच्छुत्वा भगवानाह गच्छ त्वमुदयं गिरिम् ।

तत्रास्ति योजनशतं रौद्रं शरवणं महत् ॥१५॥

तत्रैनं क्षिप सुश्रोणि विस्तीर्णे गिरिसानुनि ।

दशवर्षसहस्त्रान्ते ततो बालो भविष्यति ॥१६॥

सा श्रुत्वा ब्रह्मणो वाक्यं रुपिणी गिरिमागता ।

आगत्य गर्भं तत्याज मुखेनैवाद्रिनन्दिनी ॥१७॥

सा तु संत्यज्य तं बालं ब्रह्माणं सहसागमत् ।

आपोमयी मन्त्रवशात् संजाता कुटिला सती ॥१८॥

तेजसा चापि शार्वेण रौक्मं शरवणं महत् ।

तन्निवासरताश्चान्ये पादपा मृगपक्षिणः ॥१९॥

ततो दशसु पूर्णेषु शरद्दशशतेष्वथ ।

बालार्कदीप्तिः संजातो बालः कमललोचनः ॥२०॥

उत्तानशायी भगवान् दिव्ये शरवणे स्थितः ।

मुखेऽङ्गुष्ठं समाक्षिप्य रुरोद घनराडिव ॥२१॥

एतस्मिन्नन्तरे देव्यः कृत्तिकाः षट सुतेजसः ।

ददृशुः स्वेच्छया यान्त्यो बालं शरवणे स्थितम् ॥२२॥

कृपायुक्ताः समाजग्मुर्यत्र स्कन्दः स्थितोऽभवत् ।

अहं पूर्वमहं पूर्वं तस्मै स्तन्येऽभिचुक्रुशुः ॥२३॥

विवदन्तीः स ता दृष्ट्वा षण्मुखः समजायत ।

अबीभरंश्च ताः सर्वाः शिशुं स्त्रेहाच्च कृत्तिकाः ॥२४॥

भ्रियमाणः स ताभिस्तु बालो वृद्धिमगान्मुने ।

कार्तिकेयेति विख्यातो जातः स बलिनां वरः ॥२५॥

एतस्मिन्नन्तरे ब्रह्मन् पावकं प्राह पद्मजः ।

कियत्प्रमाणः पुत्रस्ते वर्त्तते साम्प्रतं गुहः ॥२६॥

स तद्वचनमाकर्ण्य अजानंस्तं हरात्मजम् ।

प्रोवाच पुत्रं देवेश न वेद्मि कतमो गुहः ॥२७॥

तं प्राह भगवान् यत्तु तेजः पीतं पुरा त्वया ।

त्रैयम्बकं त्रिलोकेश जातः शरवणे शिशुः ॥२८॥

श्रुत्वा पितामहवचः पावकस्त्वरितोऽभ्यगात् ।

वेगिनं मेषमारुह्य कुटिला तं ददर्श ह ॥२९॥

ततः पप्रच्छ कुटिला शीघ्रं क्व व्रजसे कवे ।

सोऽब्रवीत् पुत्रदृष्ट्यर्थं जातं शरवणे शिशुम् ॥३०॥

साऽब्रवीत् तनयो मह्यं ममेत्याह च पावकः ।

विवदन्तौ ददर्शाथ स्वेच्छाचारी जनार्दनः ॥३१॥

तौ पप्रच्छ किमर्थं वा विवादमिह चक्रथः ।

तावूचतुः पुत्रहेतो रुद्रशुक्रोद्भवाय हि ॥३२॥

तावुवाच हरिर्देवो गच्छ तं त्रिपुरान्तकम् ।

स यद वक्ष्यति देवेशस्तत्कुरुध्वमसंशयम् ॥३३॥

इत्युक्तौ वासुदेवेन कुटिलाग्नी हरान्तिकम् ।

समभ्येत्योचतुस्तथ्यं कस्य पुत्रेति नारद ॥३४॥

रुद्रस्तद्वाक्यमाकर्ण्य हर्षनिर्भरमानसः ।

दिष्ट्या दिष्ट्येति गिरिजां प्रोद्भूतपुलकोऽब्रवीत् ॥३५॥

ततोऽम्बिका प्राह हरं देव गच्छाम तं शिशुम् ।

प्रष्टुं समाश्रयेद यं स तस्य पुत्रो भविष्यति ॥३६॥

बाढमित्येव भगवान् समुत्तस्थौ वृषध्वजः ।

सहोमया कुटिलया पावकेन च धीमता ॥३७॥

सम्प्राप्तास्ते शरवणं हराग्निकुटिलाम्बिकाः ।

ददृशुः शिशुकं तं च कृत्तिकोत्सङ्गशायिनम् ॥३८॥

ततः स बालकस्तेषां मत्वा चिन्तितमादरात् ।

योगी चतुर्मूर्तिरभूत् षण्मुखः स शिशुस्त्वपि ॥३९॥

कुमारः शङ्करमगाद विशाखो गौरिमागमत् ।

कुटिलामगमच्छाखो महासेनोऽग्निमभ्ययात् ॥४०॥

ततः प्रीतियुतो रुद्र उमा च कुटिला तथा ।

पावकश्चापि देवेशः परां मुदमवाप च ॥४१॥

ततोऽब्रुवन् कृत्तिकास्ताः षण्मुखः किं हरात्मजः ।

ता अब्रवीद्धरः प्रीत्या विधिवद वचनं मुने ॥४२॥

नाम्ना तु कार्त्तिकेयो हि युष्माकं तनयस्त्वसौ ।

कुटिलायाः कुमारेति पुत्रोऽयं भविताऽव्ययः ॥४३॥

स्कन्द इत्येव विख्यातो गौरीपुत्रो भवत्वसौ ।

गुह इत्येव नाम्ना च ममासौ तनयः स्मृतः ॥४४॥

महासेन इति ख्यातो हुताशस्यास्तु पुत्रकः ।

शारद्वत इति ख्यातः सुतः शरवणस्य च ॥४५॥

एवमेष महायोगी पृथिव्यं ख्यातिमेष्यति ।

षडास्यत्वान्महाबाहुः षण्मुखो नाम गीयते ॥४६॥

इत्येवमुक्त्वा भगवाञ्शूलपाणिः पितामहम् ।

सस्मार दैवतैः सार्द्धं तेऽप्याजग्मुस्त्वरान्विताः ॥४७॥

प्रणिपत्य च कामारिमुमां च गिरिनन्दिनीम् ।

दृष्ट्वा हुताशनं प्रीत्या कुटिलां कृत्तिकास्तथा ॥४८॥

ददृशुर्बालमत्युग्रं षण्मुखं सूर्यसंनिभम् ।

मुष्णन्तमिव चक्षूंषि तेजसा स्वेन देवताः ॥४९॥

कौतुकाभिवृताः सर्वे एवमूचुः सुरोत्तमाः ।

देवकार्यं त्वया देव कृतं देव्याऽग्निना तथा ॥५०॥

तदुत्तिष्ठ व्रजामोऽद्य तीर्थमौजसमव्ययम् ।

कुरुक्षेत्रे सरस्वत्यामभिषिञ्चाम षण्मुखम् ॥५१॥

सेनायाः पतिरस्त्वेष देवगन्धर्वकिंनराः ।

महिषं घातयत्वेष तारकं च सुदारुणम् ॥५२॥

बाढमित्यब्रवीच्छर्वः समुत्तस्थुः सुरास्ततः ।

कुमारसहिता जग्मुः कुरुक्षेत्रं महाफलम् ॥५३॥

तत्रैव देवताः सेन्द्रा रुद्रब्रह्मजनार्दनाः ।

यत्नमस्याभीषेकार्थं चक्रुर्मुनिगणैः सह ॥५४॥

ततोऽम्बुना सप्तसमुद्रवाहिनी नदीजलेनापि महाफलेन ।

वरौषधीभिश्च सहस्त्रमूर्तिभिस्तदाभ्याषिञ्चन् गुहमच्युताद्याः ॥५५॥

अभिषिञ्चति सेनान्यां कुमारे दिव्यरुपिणी ।

जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥५६॥

अभिषिक्तं कुमारं च गिरिपुत्री निरीक्ष्य हि ।

स्नेहादुत्सङ्गगं स्कन्दं मूर्ध्न्यजिघ्रन्मुहुर्मुहुः ॥५७॥

जिघ्रती कार्तिकेयस्य अभिषेकार्द्रमाननम् ।

भात्यद्रिजा यथेन्द्रस्य देवमाताऽदितिः पुरा ॥५८॥

तदाऽभिषिक्तं तनयं दृष्ट्वा शर्वो मुदं ययौ ।

पावकः कृत्तिकाश्चैव कुटिला च यशस्विनी ॥५९॥

ततोऽभिषिक्तस्य हरः सेनापत्ये गुहस्य तु ।

प्रमथांश्चतुरः प्रादाच्छक्रतुल्यपराक्रमान् ॥६०॥

घण्टाकर्णं लोहिताक्षं नन्दिसेचं च दारुणम् ।

चतुर्थं बलिनां मुख्यं ख्यातं कुमुदमालिनम् ॥६१॥

हरदत्तान् गणान् दृष्ट्वा देवाः स्कन्दस्य नारद ।

प्रददुः प्रमथान् स्वान् स्वान् सर्वे ब्रह्मपुरोगमाः ॥६२॥

स्थाणुं ब्रह्मा गणं प्रादाद विष्णुः प्रादाद गणत्रयम् ।

संक्रमं विक्रमं चैव तृतीयं च पराक्रमम् ॥६३॥

उत्केशं पङ्कजं शक्रो रविर्दण्डकपिङ्गलौ ।

चन्द्रो मणिं वसुमणिमश्विनौ वत्सनन्दिनौ ॥६४॥

ज्योतिर्हुताशनः प्रादाज्ज्वलज्जिह्वं तथापरम् ।

कुन्दं मुकुन्दं कुसुमं त्रीन् धाताऽनुचरान् ददौ ॥६५॥

चक्रानुचक्रौ त्वष्टा च वेधातिस्थिरसुस्थिरौ ।

पाणित्यजं कालकञ्च प्रादात् पूषा महाबलौ ॥६६॥

स्वर्णमालं घनाह्वं च हिमवान् प्रमथोत्तमौ ।

प्रादादेवोच्छ्रितो विन्ध्यस्त्वतिश्रृङ्गं च पार्षदम् ॥६७॥

सुवर्चसं च वरुणः प्रददौ चातिवर्चसम् ।

संग्रहं विग्रहं चाब्धिर्नागा जयमहाजयौ ॥६८॥

उन्मादं शङ्ग्कुकर्णं च पुष्पदन्तं तथाऽम्बिका ।

घसं चातिघसं वायुः प्रादादनुचरावुभौ ॥६९॥

परिघं चटकं भीमं दहतिदहनौ तथा ।

प्रददावंशुमान् पञ्च प्रमथान् षण्मुखाय हि ॥७०॥

यमः प्रमाथमुन्माथं कालसेनं महामुखम् ।

तालपत्रं नाडिजङ्घं षडेवानुचरात् ददौ ॥७१॥

सुप्रभं च सुकर्माणं ददौ धाता गणेश्वरौ ।

सुव्रतं सत्यसन्धं च मित्रः प्रादाद द्विजोत्तम ॥७२॥

अनतः शङ्कुपीठश्च निकुम्भः कुमुदोऽम्बुजः ।

एकाक्षः कुनटी चक्षुः किरीटी कलशोदरः ॥७३॥

सूचीवक्त्रः कोकनदः प्रहासः प्रियकोऽच्युतः ।

गणाः पञ्चदशैते हि यक्षैर्दत्ता गुहस्य तु ॥७४॥

कालिन्द्याः कालकन्दश्च नर्मदाया रणोत्कटः ।

गोदावर्याः सिद्धयात्रस्तमसायाद्रिकम्पकः ॥७५॥

सहस्त्रबाहुः सीताया वञ्जुलायाः सितोदरः ।

मन्दाकिन्यास्तथा नन्दो विपाशायाः प्रियंकरः ॥७६॥

ऐरावत्याश्चतुर्दंष्ट्रः षोडशाक्षो वितस्तया ।

मार्जारं कौशिकी प्रादात् क्रथक्रौञ्चौ च गौतमी ॥७७॥

बाहुदा शतशीर्षं च वाहा गोनन्दनन्दिकौ ।

भीमं भीमरथी प्रादाद वेगारिं सरयूर्ददौ ॥७८॥

अष्टबाहुं ददौ काशी सुबाहुमपि गण्डकी ।

महानदी चित्रदेवं चित्रा चित्ररथं ददौ ॥७९॥

कुहूः कुवलयं प्रादान्मधुवर्णं मधूदका ।

जम्बूकं धूतपापा च वेणा श्वेताननं ददौ ॥८०॥

श्रुतवर्णं च पर्णासा रेवा सागरवेगिनम् ।

प्रभावार्थं सहं प्रादात् काञ्चना कनकेक्षणम् ॥८१॥

गृध्रपत्रं च विमला चारुवक्त्रं मनोहरा ।

धूतपापा महारावं कर्णा विद्रमसंनिभम् ॥८२॥

सुप्रसादं सुवेणुश्च जिष्णुमोघवती ददौ ।

यज्ञबाहुं विशाला च सरस्वत्यो ददुर्गणान् ॥८३॥

कुटिला तनयस्यादाद दश शक्रबलान् गणान् ।

करालं सितकेशं च कृष्णकेशं जटाधरम् ॥८४॥

मेघनादं चतुर्दंष्ट्रं विद्युज्जिह्वं दशाननम् ।

सोमाप्यायनमेवोग्रं देवयाजिनमेव च ॥८५॥

हंसास्यं कुण्डजठरं बहुग्रीवं हयाननम् ।

कूर्मग्रीवं च पञ्चैतान् ददुः पुत्राय कृत्तिकाः ॥८६॥

स्थाणुजङ्घं कुम्भवक्त्रं लोहजङ्घं महाननम् ।

पिण्डाकारं च पञ्चैतान् ददुः स्कन्दाय चर्षयः ॥८७॥

नागजिह्वं चन्द्रभासं पाणिकूर्मं शशीक्षकम् ।

चाषवक्त्रं च जम्बूकं ददौ तीर्थः पृथूदकः ॥८८॥

चक्रतीर्थं सुचक्राक्षं मकराक्षं गयाशिरः ।

गणं पञ्चशिखं नाम ददौ कनखलः स्वकम् ॥८९॥

बन्धुदत्तं वाजिशिरो बाहुशालं च पुष्करम् ।

सर्वोजसं माहिषकं मानसः पिङ्गलं यथा ॥९०॥

रुद्रमौशनसः प्रादात् ततोऽन्ये मातरो ददुः ।

वसुदामां सोमतीर्थः प्रभासो नन्दिनीमपि ॥९१॥

इन्द्रतीर्थं विशोकां च उदपानो घनस्वनाम् ।

सप्तसारस्वतः प्रादान्मातरश्चतुरोद्भुताः ॥९२॥

गीतप्रियां माधवीं च तीर्थनेमिं स्मिताननाम् ।

एकचूडां नागतीर्थः कुरुक्षेत्रं पलासदाम् ॥९३॥

ब्रह्मयोनिश्चण्डशिलां भद्रकालीं त्रिविष्टपः ।

चौण्डीं भैण्डीं योगभैण्डीं प्रादाच्चरणपावणः ॥९४॥

सोपानीयां मही प्रादाच्छालिकां मनसो हदः ।

शतघण्टां शतानन्दां तथोलूखलमेखलाम् ॥९५॥

पद्मावतीं माधवीं च ददौ बदरिकाश्रमः ।

सुषमामेकचूडां च देवीं धमधमां तथा ॥९६॥

उत्क्राथनीं वेदमित्रां केदारो मातरो ददौ ।

सुनक्षत्रां कद्रूलां च सुप्रभातां सुमङ्गलाम् ॥९७॥

देवमित्रां चित्रसेनां ददौ रुद्रमहालयः ।

कोटरामूर्ध्ववेणीं च श्रीमतीं बहुपुत्रिकाम् ॥९८॥

पलितां कमलाक्षीं च प्रयागो मातरो ददौ ।

सूपलां मधुकुम्भां च ख्यातिं दहदहां पराम् ॥९९॥

प्रादात् खटकटां चान्यां सर्वपापविमोचनः ।

संतानिकां विकलिकां क्रमश्चत्वरवासिनीम् ॥१००॥

जलेश्वरीं कुक्कुटिकां सुदामां लोहमेखलाम् ।

वपुष्मत्युल्मुकाक्षी च कोकनामा महाशनी ।

रौद्रा कर्कटिका तुण्डा श्वेततीर्थो ददौ त्विमाः ॥१०१॥

एतानि भूतानि गणांश्च मातरो दृष्ट्वा महात्मा विनतातनूजः ।

ददौ मयूरं स्वसुतं महाजवं तथाऽरुणस्ताम्रचूडं च पुत्रम् ॥१०२॥

शक्तिं हुताशोऽद्रिसुता च वस्त्रं दण्डं गुरुः सा कुटिला कमण्डलुम् ।

मालां हरिः शूलधरः पताकां कण्ठे च हारं मघवानुरस्तः ॥१०३॥

गणैर्वृतो मातृभिरन्वयातो मयूरसंस्थो वरशक्तिपाणिः ।

सैन्याधिपत्ये स कृतो भवेन रराज सूर्येव महावपुष्मान् ॥१०४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:15:01.5170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

semilunar nucleus

  • Zool. अर्धचांद्र केंद्रक 
RANDOM WORD

Did you know?

कपिलाषष्ठीचा योग म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site