TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ७७

श्रीवामनपुराण - अध्याय ७७

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ७७

पुलस्त्य उवाच

देवमातुः स्थित देव उदरे वामनाकृतौ ।

निस्तेजसोऽसुरा जाता यथोक्तं विश्वयोनिना ॥१॥

निस्तेजसोऽसुरान दृष्ट्वा प्रह्लादं दावनेश्वरम् ।

बलिर्दानवशार्दूल इदं वचनमब्रवीत् ॥२॥

बलिरुवाच

तात निस्तेजसो दैत्याः केन जातास्तु हेतुना ।

कथ्यतां परमज्ञोऽसि शुभाशुभविशारद ॥३॥

पुलस्त्य उवाच

तत्पौत्रवचनं श्रुत्वा मुहूर्तं ध्यानमास्थितः ।

किमर्थं तेजसो हानिरिति कस्मादतीव च ॥४॥

स ज्ञात्वा वासुदेवोत्थं भयं दैत्येष्वनुत्तमम् ।

चिन्तयामास योगात्मा क्व विष्णुः साम्प्रतं स्थितः ॥५॥

अधो नाभेः स पातालान् सप्त संचिन्त्य नारद ।

नाभेरुपरि भूरार्दील्लोकांश्चर्तुमियाद वशी ॥६॥

भूमिं स पङ्कजाकारां तन्मध्ये पङ्कजाकृतिम् ।

मेरुं ददर्श शैलेन्द्रं शातकौम्भं महर्द्धिमत् ॥७॥

तस्योपरि महापुर्यस्त्वष्टो लोकपतींस्तथा ।

तेषामुपरि वैराजीं ददृशे ब्रह्मणः पुरीम् ॥८॥

तदधस्तान्महापुण्ययमाश्रमं सुरपूजितम् ।

देवमातुः स ददृशे मृगपक्षिगणैर्वृत्तम् ॥९॥

तां दुष्टा देवजननीं सर्वतेजोऽधिकां मुने ।

विवेश दानवपतिरन्वेष्टं मधुसूदनम् ॥१०॥

स दृष्टवाञ्जगन्नाथं माधवं वामनाकुतिम् ।

सर्वभूतवरेण्यं तं देवमातुरथोदरे ॥११॥

तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम् ।

सुरासुरगणैः सर्वैः सर्वतो व्याप्तविग्रहम् ॥१२॥

तेनैव क्रमयोगेन दृष्ट्वा वामनतां गतम् ।

दैत्येजोहरं विष्णुं प्रकृतिस्थोऽभवत् ततः ॥१३॥

अथोवाच महाबुद्धिर्विरोचनसुतं बलिम् ।

प्रह्लादो मधुरं वाक्यं प्रणम्य मधुसूदनम् ॥१४॥

प्रह्लाद उवाच

श्रूयतां सर्वमख्यास्ते यतो वो भयमागतम् ।

येन निस्तेजसौ दैत्या जाता दैत्येन्द्र हेतुना ॥१५॥

भवता निर्जिता देवाः सेन्द्रद्रार्कपावकाः ।

प्रयताः शरणं देवं हरिं त्रिभुवनेश्वरम् ॥१६॥

स तेषामभयं दत्त्वा शक्रादीनां जगद्रुरुः ।

अवतीर्णो महाबाहुरदित्या जठरे हरिः ॥१७॥

हतानि वस्तेन बले तेजांसहित मतिर्मम ।

नालं तमो विषहितुं स्थातुं सूर्योदयं बले ॥१८॥

पुलस्त्य उवाच

प्रह्लादवचनं श्रुत्वा क्रोधप्रस्फुरिताधरः ।

प्रह्लादमाहाथ बलिर्भाविकर्मप्रचोदितः ॥१९॥

बलिरुवाच

तात कोऽयं हरिर्नाम यतो नो भयमागतम् ।

सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥२०॥

सहस्त्रशो यैरमराः सेन्द्ररुद्राग्निमारुताः ।

निर्जित्य त्याजिताः स्वर्गं भग्नदर्पा रणाजिरे ॥२१॥

ये सूर्यरथाद वेगाच्चक्रं कृष्टं महाजवम् ।

स विप्रचित्तिर्बलवान् मम सैन्यपुरस्सरः ॥२२॥

अयः अङ्कुः शिवः शम्भुरसिलोमा विलोमकृत् ।

त्रिशिरा मकराक्ष वृषपर्वा नतेक्षणः ॥२३॥

एते चान्ये च बलिनो नानायुधविशारदाः ।

येषामेकैकशो विष्णुः कलां नार्हति षोडशीम् ॥२४॥

पुलस्त्य उवाच

पौत्रस्यैतद वचः श्रुत्वा प्रह्लादः क्रोधमूर्छितः ।

धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम् ॥२५॥

धिक् त्वां पापसमाचारं दुष्टबुद्धिं सुबालिशम् ।

हरिं निन्दयतो जिह्वा कथं न पतिता तव ॥२६॥

शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः ।

यत् त्रैलोक्यगुरुं विष्णुमभिनिन्दसि दुर्मते ॥२७॥

शोच्यश्चास्मि न संदेहो येन जातः पिता तव ।

यस्य त्वं कर्कशः पुत्रो जातो देवावमान्यकः ॥२८॥

भवान् किल विजानाति तथा चामी महासुराः ।

यथा नान्यः प्रियः कश्चिन्मम तस्माज्जनार्दनात् ॥२९॥

जानन्नपि प्रियतरं प्राणेभ्योऽपि हरि मम ।

सर्वेश्वरेश्वरं देवं कथं निन्दितवानसि ॥३०॥

गुरुः पूज्यस्तव पिता पूज्यस्तस्याप्यहं गुरुः ।

ममापि पूज्यो भगवान् गुरुर्लोकगुरुर्हरिः ॥३१॥

गुरोर्गुरुगुरुर्मूढ पूज्यः पूज्यतमस्तव ।

पूज्यं निन्दयते पाप कथं न पतितोऽस्यधः ॥३२॥

शोचनीया दुराचारा दानवामी कृतास्त्वया ।

येषां त्वं कर्कशो राजा वासुदेवस्य निन्दकः ॥३३॥

यस्मात् पूज्योऽर्चनीयश्च भवता निन्दितो हरिः ।

तस्मात् पापसमाचार राज्यनाशमवाप्नुहि ॥३४॥

यथा नान्यत् प्रियतरं विद्यते मम केशवात् ।

मनसा कर्मणा वाचा राज्यभ्रष्टस्तथा पत ॥३५॥

यथ न तस्मादपरं व्यतिरिक्तं हि विद्यते ।

चतुर्दशसु लोकेषु राज्यभ्रष्टस्तथा पत ॥३६॥

सर्वेषामपि भूतानां नान्यल्लोके परायणम् ।

यथा तथाऽनुपश्येयं भवन्तं राज्यविच्युतम् ॥३७॥

पुलस्त्य उवाच

एवमुच्चारिते वाक्ये बलिः सत्वरितस्तदा ।

अवतीर्यासनाद ब्रह्मन् कृताञ्जलिपुटो बली ॥३८॥

शिरसा प्रणिपत्याह प्रसादं यातु मे गुरुः ।

कृतापराधानपि हि क्षमन्ति गुरवः शिशून् ॥३९॥

तत्साधु यदहं शप्तो भवता दानवेश्वर ।

न बिभेमि परेभ्योऽहं न च राज्यपरिक्षयात् ॥४०॥

नैव दुःखं मम विभो यदहं राज्यविच्युतः ।

दुःखं कृतापराधत्वाद भवतो मे महत्तरम् ॥४१॥

तत् क्षम्यतां तात ममापराधो बालोऽस्म्यनाथोऽस्मि सुदुर्मतिश्च ।

कृतेऽपि दोषे गुरवः शिशूनां क्षमन्ति दैन्यं समुपागतानाम् ॥४२॥

पुलस्त्य उवाच

स एवमुक्तो वचनं महात्मा विमुक्तमोहो हरिपादभक्तः ।

चिरं विचिन्त्याद्भुतमेतदित्थमुवाच पौत्रं मधुरं वचोऽथ ॥४३॥

प्रह्लाद उवाच

तात मोहेन मे ज्ञानं विवेकश्च तिरस्कृतः ।

येन सर्वगतं विष्णुं जानंस्त्वां शप्तवानहम् ॥४४॥

नूनमेतेन भाव्यं वै भवतो येन दानव ।

ममाविशन्महाबाहो विवेकप्रतिषेधकः ॥४५॥

तस्माद राज्यम्प्रति विभो न ज्वरं कर्तुमर्हसि ।

अवश्यं भाविनो ह्यर्था न विनश्यन्ति कर्हिचित् ॥४६॥

पुत्रमित्रकलत्रार्थे राज्यभोगधनाय च ।

आगमे निर्गमे प्राज्ञो न विषादं समाचरेत् ॥४७॥

यथा यथा समायान्ति पूर्वकर्मविधानतः ।

सुखदुःखानि दैत्येन्द्र नरस्तानि सहेत् तथा ॥४८॥

आपदामागमं दृष्ट्वा न विषण्णो भवेद वशी ।

सम्पदं च सुविस्तीर्णां प्राप्य नोऽधृतिमान् भवेत् ॥४९॥

धनक्षये न मुह्यन्ति न हष्यन्ति धनागमे ।

धीराः कार्येषु च सदा भवन्ति पुरुषोत्तमाः ॥५०॥

एवं विदित्वा दैत्येन्द्र न विषादं कथंचन ।

कर्तुमर्हसि विद्वांस्त्वं पण्डितो नावसीदति ॥५१॥

तथाऽन्यच्च महाबाहो हितं श्रृणु महार्थकम् ।

भवतोऽथ तथाऽन्येषां श्रुत्वा तच्च समाचर ॥५२॥

शरण्यं शरणं गच्छ तमेव पुरुषोत्तमम् ।

स ते त्राता भयादस्माद दानवेन्द्र भविष्यति ॥५३॥

ये संश्रिता हरिमनन्तमनादिमध्यं विष्णुं चराचरगुरुं हरिमीशितारम् ।

संसारगर्तपतितस्य करावलम्बं नूनं न ते भुवि नरा ज्वरिणो भवन्ति ॥५४॥

तन्मना दानवश्रेष्ठ तद्भक्तश्च भवाधुना ।

स एष भवतः श्रेयो विधास्यति जनार्दनः ॥५५॥

अहं च पापोपशमार्थमीशमाराध्य यास्ये प्रतितीर्थयात्राम् ।

विमुक्तपापश्च ततो गमिष्ये यत्राच्युतो लोकपतिर्नृसिंहः ॥५६॥

पुलस्त्य उवाच

इत्येवमाश्वास्य बलिं महात्मा संस्मृत्य योगाधिपतिं च विष्णुम् ।

आमन्त्र्य सर्वान् दनुयूथपालान् जगाम कर्तुं त्वथ तीर्थयात्राम् ॥५७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:26.4230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

घसटया

  • वि. १ अडाणी ; अडमुठ्ठा ; दांडगा ; लाटया घसमुसळया ( मजूर , कामकरी ). घसक्या अर्थ १ पहा . २ सुस्त ; मंद ; गाफील ; टोणपा ; झांबर्‍या . [ घसटणें ] 
RANDOM WORD

Did you know?

सोळा वर्षाखालील मुलांना शनिची साडेसाती कां त्रस्त करत नाही?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site