TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय १२

श्रीवामनपुराण - अध्याय १२

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय १२

सुकेशिरुवाच

कर्मणा नरकानेतान् केन गच्छन्ति वै कथम् ।

एतद वदन्तु विप्रेन्द्राः परं कौतूहलं मम ॥१॥

ऋषय ऊचुः

कर्मणा येन येनेह यान्ति शालकटंकट ।

स्वकर्मफलभोगार्थं नरकान् मे श्रृणुष्व तान् ॥२॥

वेददेवद्विजातीनां यैर्निन्दा सततं कृता ।

ये पुराणेतिहासार्थान् नाभिनन्दनि पापिनः ॥३॥

गुरुनिन्दाकरा ये च मखविघ्नकराश्च ये ।

दातुर्निवारका ये च तेषु ते निपतन्ति हि ॥४॥

सुहद्दम्पतिसौदर्यस्वामिभृत्यपितासुतान् ।

याज्योपाध्याययोर्यैश्च कृता भेदोऽधमैर्मिथः ॥५॥

कन्यामेकस्य दत्त्वा च ददत्यन्यस्य येऽधमाः ।

करपत्रेण पाट्यन्ते ते द्विधा यमकिंकरैः ॥६॥

परोपतापजनकाश्चन्दनोशीरहारिणः ।

बालव्यजनहर्त्तारः करम्भसिकताश्रिताः ॥७॥

निमन्त्रितोऽन्यतो भुङ्क्ते श्राद्धे दैवे सपैतृके ।

स द्विधा कृष्यते मूढस्तीक्ष्णतुण्डैः खगोत्तमैः ॥८॥

मर्माणि यस्तु साधूनां तुदन् वाग्मिर्निकृन्तति ।

तस्योपरि तुदन्तस्तु तुण्डैस्तिष्ठन्ति पतत्त्रिणः ॥९॥

यः करोति च पैशुन्यं साधूनामन्यथामतिः ।

वज्रतुण्डनखा जिह्वामाकर्षन्तेऽस्य वायसाः ॥१०॥

मातापितृगुरुणां च येऽवज्ञां चक्रुरुद्धताः ।

मज्जन्ते पूयविण्मूत्रे त्वप्रतिष्ठे ह्यधोमुखाः ॥११॥

देवतातिथिभूतेषु भृत्येष्वभ्यागतेषु च ।

अभुक्तवत्सु ये श्नन्ति बालपित्रग्निमातृषु ॥१२॥

दुष्टासृक्पूयनिर्यासं भुञ्जते त्वधमा इमे ।

सूचीमुखाश्च जायन्ते क्षुधार्त्ता गिरिविग्रहाः ॥१३॥

एकपङ्क्त्युपविष्टानां विषमं भोजयन्ति ये ।

विड्भोजनं राक्षसेन्द्र नरकं ते व्रजन्ति च ॥१४॥

एकसार्धप्रयातं ये पश्यन्तश्चार्थिनं नराः ।

असंविभज्य भुञ्जन्ति ते यान्ति श्लेष्मभोजनम् ॥१५॥

गोब्राह्नणाग्नयः स्पृष्टा पैरुच्छिष्टैः क्षपाचर ।

छिप्यन्ते हि करास्तेषां तप्तकुम्भे सुदारुणे ॥१६॥

सूर्येन्दुतारका दृष्टा यैरुच्छिष्टैश्च कामतः ।

तेषां नेत्रगतो वह्निर्धम्यते यमकिंकरैः ॥१७॥

मित्रजायाथ जननी ज्येष्ठो भ्राता पिता स्वसा ।

जामयो गुरुवो वृद्धा यैः संस्पृष्टाः पदानृभिः ॥१८॥

बद्धाङ्घ्रयस्ते निगडैलोर्हैर्वह्निप्रतापितैः ।

क्षिप्यन्ते रौरवे घोरे ह्याजानुपरिदाहिनः ॥१९॥

पायसं कृशरं मांसं वृथा भुक्तानि यैर्नरैः ।

तेषामयोगुडास्तप्ताः क्षिप्यन्ते वदनेऽद्भुताः ॥२०॥

गुरुदेवद्विजातीनां वेदानां च नराधमैः ।

निन्दा निशामिता यैस्तु पापानामिति कुर्वताम् ॥२१॥

तेषां लोहमयाः कीला वह्निवर्णाः पुनः पुनः ।

श्रवणेषु निखन्यन्ते धर्मराजस्य किंकरैः ॥२२॥

प्रपादेकुलारामान् विप्रवेश्मसभामठान् ।

कूपवापीतडागांश्च भङ्क्त्वा विध्वंसयन्ति ये ॥२३॥

तेषां विलपतां चर्म देहतः क्रियते पृथक् ।

कर्तिकाभिः सुतीक्ष्णाभिः सुरैद्रैर्यमकिंकरैः ॥२४॥

गोब्राह्मणार्कमग्निं च ये वै मेहन्ति मानवाः ।

तेषां गुदेन चान्त्राणि विनिष्कृन्तन्ति वायसाः ॥२५॥

स्वपोषणपरो यस्तु परित्यजति मानवः ।

पुत्रभृत्यकलत्रादिबन्धुवर्गमकिंचनम् ।

दुर्भिक्षे संभ्रमे चापि स श्वभोज्ये निपात्यते ॥२६॥

शरणागतं ये त्यजन्ति ये च बन्धनपालकाः ।

पतन्ति यन्त्रपीडे ते ताडयमानास्तु किंकरैः ॥२७॥

क्लेशयन्ति हि विप्रादिन ये ह्यकर्मसु पापिनः ।

ते पिष्यन्ते शिलापेषे शोष्यन्तेऽपि च शोषकैः ॥२८॥

न्यासापहारिणः पापा वध्यन्ते निगडैरपि ।

क्षुत्क्षामाः शुष्कताल्वोष्ठाः पात्यन्ते वृश्चिकाशने ॥२९॥

पर्वमैथुनिनः पापाः परदारताश्च ये ।

ते वहितप्तां कूटाग्रामालिङ्गन्ते च शाल्मलीम् ॥३०॥

उपाध्यायमधः कृत्य यैरधीतं द्विजाधमैः ।

तेषामध्यापको यश्च स शिलां शिरसा वहेत् ॥३१॥

मूत्रश्लेष्मपुरीषाणी यैरुत्सृषानि वारिणि ।

ते पात्यन्ते च विण्मूत्रे दुर्गन्धे पूयपूरिते ॥३२॥

श्राद्धातिर्थयमन्योन्यं यैर्मुक्तं भुवि मानवैः ।

परस्परं भक्षयन्ते मांसानि स्वानि बालिशाः ॥३३॥

वेदवह्निगुरुत्यागी भार्यापित्रोस्तथैव च ।

गिरिश्रृङ्गादधः पातं पात्यन्ते यमकिंकरैः ॥३४॥

पुनर्भूपतयो ये च कन्याविध्वंसकाश्च ये ।

तदगर्भश्राद्धभुग् यश्च कृमीन्भक्षेत्पिपीलिकाः ॥३५॥

चाण्डालादन्त्यजाद्वापि प्रतिगृह्णाति दक्षिणाम् ।

याजको यजमानश्च सो श्मान्तः स्थूलकीटकः ॥३६॥

पृष्ठमांसाशिनो मूढास्तथैवोत्कोचजीविनः ।

क्षिप्यन्ते वृकभक्षे ते नरके रजनीचर ॥३७॥

स्वर्णस्तेयी च ब्रह्मघ्नः सुरापी गुरुतल्पगः ।

तथा गोभूमिहर्त्तारो गोस्त्रीबालहनाश्च ये ॥३८॥

एते नरा द्विजा ये च गोषु विक्रयिणस्तथा ।

सोमविक्रयिणो ये च वेदविक्रयिणस्तथा ॥३९॥

कूटसाक्ष्यप्रदा ये च ते महारौरवे स्थिताः ॥४०॥

दशवर्षसहस्त्राणि तावत् तामिस्त्रके स्थिताः ।

तावच्चैवान्धतामिस्त्रे असिपत्रवने ततः ॥४१॥

तावच्चैव घटीयन्त्रे तप्तकुम्भे ततः परम् ।

प्रपातो भवते तेषां यैरिदं दुष्कृतं कृतम् ॥४२॥

ये त्वेते नरका रौद्रा रौरवाद्यास्तवोदिताः ।

ते सर्वे क्रमशः प्रोक्ताः कृतघ्ने लोकनिन्दिते ॥४३॥

यथा सुराणां प्रवरो जनार्दनो यथा गिरीणामपि शैशिराद्रिः ।

यथायुधानां प्रवरं सुदर्शनं यथा च भूतेषु मही प्रधाना ॥४४॥

नदीषु गङ्गा जलजेषु पद्मं सुरारिमुख्येषु हराङ्घ्रिभक्तः ।

क्षेत्रेषु यद्वत्कुरुजाङ्गलं वरं तीर्थेषु यद्वत् प्रवरं पृथूदकम् ॥४५॥

सरस्सु चैवोत्तरमानसं यथा वनेषु पुण्येषु हि नन्दनं यथा ।

लोकेषु यद्वत्सदनं विरिञ्चेः सत्यं यथा धर्मविधिक्रियासु ॥४६॥

यथाश्वमेधः प्रवरः क्रतूनां पुत्रो यथा स्पर्शवतां वरिष्ठः ।

तपोधनानामपि कुम्भयोनिः श्रुतिर्वरा यद्वदिहागमेषु ॥४७॥

मुख्यः पुराणेषु यथैव मात्स्यः स्वायंभुवोक्तिस्त्वपि संहितासु ।

मनुः स्मृतीनां प्रवरो यथैव तिथीषु दर्शो विषुवेषु दानम् ॥४८॥

तेजस्विनां यद्वदिहार्क उक्तो ऋक्षेषु चन्द्रो जलधिर्हदेषु ।

भवान् तथा राक्षससत्तमेषु पाशेषु नागस्तिमितेषु बन्धः ॥४९॥

धान्येषु शालिर्द्विपदेषु विप्रः चतुष्पदे गोः श्वपदां मृगेन्द्रः ।

पुष्पेषु जाती नगरेषु काञ्ची नारीषु रम्भाश्रमिणां गृहस्थः ॥५०॥

कुशस्थली श्रेष्ठतमा पुरेषु देशेषु सर्वेषु च मध्यदेशः ।

फलेषु चूतो मुकुलेष्वशोकः सर्वाषधीनां प्रवरा च पथ्या ॥५१॥

मूलेषु कन्दः प्रवरो यथोक्तो व्याधिष्वजीर्ण क्षणदाचरेन्द्र ।

श्वेतेषु दुग्धं प्रवरं यथैव कार्पासिकं प्रावरेषु यद्वत् ॥५२॥

कलासु मुख्या गणितज्ञता च विज्ञानमुख्येषु यथेन्द्रजालम् ।

शाकेषु मुख्या त्वपि काकमाची रसेषु मुख्यं लवणं यथैव ॥५३॥

तुङ्गेषु तालो नलिनीषु पम्पा वनौकसेष्वेव च ऋक्षराजः ।

महीरुहेष्वेव यथा वटश्च यथा हरो ज्ञानवतां वरिष्ठः ॥५४॥

यथा सतीनां हिमवत्सुता हि यथार्जुनीनां कपिला वरिष्ठा ।

यथा वृषाणामपि नीलवर्णो यथैव सर्वेष्वपि दुःसहेषु ।

दुर्गेषु रौद्रेषु निशाचरेश नृपातनं वैतरणी प्रधाना ॥५५॥

पापीयसां तद्वदिह कृतघ्नः सर्वेषु पापेषु निशाचरेन्द्र ।

ब्रह्मघ्नगोघ्नादिषु निष्कृतिर्हि विद्येत नैवास्य तु दुष्टचारिणः ।

न निष्कृतिश्चास्ति कृतघ्नवृतैः सुहत्कृतं नाशयतोऽब्दकोटिभिः ॥५६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:14:40.6400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

HARIBABHRU(हरिबभ्रु)

RANDOM WORD

Did you know?

भावाला राखी बांधण्यामागील धार्मिक अथवा भावनिक महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site