TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ६३

श्रीवामनपुराण - अध्याय ६३

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ६३

नारद उवाच

गतोऽन्धकस्तु पाताले किमचेष्टत दानवः ।

शङ्करो मन्दरस्थोऽपि यच्चकार तदुच्यताम् ॥१॥

पुलस्त्य उवाच

पातालस्थोऽन्धको ब्रह्मन् बाध्यते मदनाग्निना ।

संतप्तविग्रहः सर्वान् दानवानिदमब्रवीत् ॥२॥

स मे सुहत्स मे बन्धुः स भ्राता स पिता मम ।

यस्तामद्रिसुतां शीघ्रं ममान्तिकमुपानयेत् ॥३॥

एवं ब्रुवति दैत्येन्द्रं अन्धके मदनान्धके ।

मेघगम्भीरनिर्घोषं प्रह्लादो वाक्यमब्रवीत् ॥४॥

येयं गिरिसुता वीर सा माता धर्मतस्तव ।

पिता त्रिनयनो देवः श्रूयतामत्र कारणम् ॥५॥

तव पित्रा ह्यपुत्रेण धर्मनित्येन दानव ।

आराधितो महादेवः पुत्रार्थाय पुरा किल ॥६॥

तस्मै त्रिलोचनेनासीद दत्तोऽन्धोऽप्येव दानव ।

पुत्रकः पुत्रकामस्य प्रोक्त्वेत्थं वचनं विभो ॥७॥

नेत्रत्रयं हिरण्याक्ष नर्मार्थमुमया मम ।

पिहितं योगसंस्थस्य ततोऽन्धमभवत्तमः ॥८॥

तस्माच्च तमसो जातो भूतो नीलघनस्वनः ।

तदिदं गृह्यतां दैत्य तवौपयिकमात्मजम् ॥९॥

यदा तु लोकविद्विष्टं दुष्टं कर्म करिष्यति ।

त्रैलोक्यजननीं चापि अभिवाञ्छिष्यतेऽधमः ॥१०॥

घातयिष्यति चापि अभिवाञ्छिष्यतेऽधमः ॥१०॥

घातयिष्यति वा विप्रं यदा प्रक्षिप्य चासुरान् ।

तदास्य स्वयमेवाहं करिष्ये कायशोधनम् ॥११॥

एवमुक्त्वा गतः शम्भुः स्वस्थानं मन्दराचलम् ।

त्वपिताऽपि समभ्यागात् त्वामादाय रसातलम् ॥१२॥

एतेन कारणेनाम्बा शैलेयी भविता तव ।

सर्वस्यापीह जगतो गुरुः शम्भुः पिता ध्रुवम् ॥१३॥

भवानपि तपोयुक्तः शास्त्रवेत्ता गुणाप्लुतः ।

नेदृशे पापसंकल्पे मतिं कुर्याद भवद्विधः ॥१४॥

त्रैलोक्यप्रभुरव्यक्तो भवः सर्वैर्नमस्कृतः ।

अजेयस्तस्य भार्येयं न त्वमर्होऽमरार्दन ॥१५॥

न चापि शक्तः प्राप्तुं तां भवाञ्शैलनृपात्मजाम् ।

अजित्वा सगणं रुद्रं स च कामोऽद्य दुर्लभः ॥१६॥

यस्तरेत सागरं दोर्भ्यां पातयेद भुवि भास्करम् ।

मेरुमुत्पाटयेद वापि स जयेच्छूलपाणिनम् ॥१७॥

उताहोस्विदिमाः शक्याः क्रियाः कर्तुं नैरर्बलात् ।

न च शक्यो हरो जेतुं सत्यं सत्यं मयोदितम् ॥१८॥

किं त्वया न श्रुतं दैत्य यथा दण्डो महीपतिः ।

परस्त्रीकामवान् मूढः सराष्ट्रौ नाशमाप्तवान् ॥१९॥

आसीद दण्डो नाम नृपः प्रभूतबलवाहनः ।

स च वव्रे महातेजाः पौरोहित्याय भार्गवम् ॥२०॥

ईजे च विविधैर्यज्ञैर्नृपतिः शुक्रपालितः ।

शुक्रस्यासीच्च दुहिता अरजा नाम नामतः ॥२१॥

शुक्रः कदाचिदगमद वृषपर्वाणमासुरम् ।

तेनार्चिताश्चिरं तत्र तस्थौ भार्गवसत्तमः ॥२२॥

अरजा स्वगृहे वह्निं शुश्रूषन्ती महासुर ।

अतिष्ठत सुचार्वङ्गी ततोऽभ्यगान्नराधिपः ॥२३॥

स पप्रच्छ क्व शुक्रेति तमूचुः परिचारिकाः ।

गतः स भगवान् शुक्रो याजनाय दनोः सुतम् ॥२४॥

पप्रच्छ नृपतिः का तु तिष्ठते भार्गवाश्रमे ।

तास्तमूचुर्गुरोः पुत्री संतिष्ठत्यरजा नृप ॥२५॥

तामाश्रमे शुक्रसुतं द्रष्टुमिक्ष्वाकुनन्दनः ।

प्रविवेश महाबाहुर्दर्शारजसं ततः ॥२६॥

तां दृष्ट्वा कामसंतप्तस्तत्क्षणादेव पार्थिवः ।

संजातोऽन्धक दण्डस्तु कृतान्तबलचोदितः ॥२७॥

ततो विसर्जयामास भृत्यान् भ्रातृन् सुहत्तमान् ।

शुक्रशिष्यानपि बली एकाकी नृप आव्रजत् ॥२८॥

तमागतं शुक्रसुता प्रत्युत्थाय यशस्विनी ।

पूजयामास संहष्टा भ्रातृभावेन दानव ॥२९॥

ततस्तामाह नृपतिर्बाले कामाग्नितापितम् ।

मां समाह्वादयस्वाद्य स्वपरिष्वङ्गवारिणा ॥३०॥

साऽपि प्राह नृपश्रेष्ठ मा विनीनश आतुरः ।

पिता मम महाक्रोधात् त्रिदशानपि निर्दहेत ॥३१॥

मूढबुद्धे भवान् भ्राता ममासि त्वनयाप्लुतः ।

भगिनी धर्मतस्तेऽहं भवाञ्शिष्यः पितुर्मम ॥३२॥

सोऽब्रवीद भीरु मां शुक्रः कालेन परिधक्ष्यति ।

कामाग्निर्निर्दहति मामद्यैव तनुमध्यमे ॥३३॥

सा प्राह दण्डं नृपतिं मुहूर्तं परिपालय ।

तमेव याचस्व गुरुं स ते दास्यत्यसंशयम् ॥३४॥

दण्डोऽब्रवीत् सुतन्वङ्गि कालक्षेपो न मे क्षमः ।

च्युतावसरकर्तृत्वे विघ्नो जायेत सुन्दरि ॥३५॥

ततोऽब्रवीच्च विरजा नाहं त्वां पार्थिवात्मज ।

दातुं शक्ता स्वमात्मानं स्वतन्त्रा न हि योषितः ॥३६॥

किं वा ते बहुनोक्तेन मा त्वं नाशं नराधिप ।

गच्छस्व शुक्रशापेन सभृत्यज्ञातिबान्धवः ॥३७॥

ततोऽब्रवीन्नरपतिः सुतनु श्रृणु चेष्टितम् ।

चित्राङ्गदाया यद् वृत्तं पुरा देवयुगे शुभे ॥३८॥

विश्वकर्मसुता साध्वी नाम्ना चित्राङ्गदाऽभवत् ।

रुपयौवनसम्पन्ना पद्महीनेव पद्मिनी ॥३९॥

सा कदाचिन्महारण्यं सखीभिः परिवारिता ।

जगाम नैमिषं नाम स्त्रातुं कमललोचना ॥४०॥

सा स्त्रातुमवतीर्णा च अथाभ्यागान्नरेश्वरः ।

सुदेवतनयो धीमान सुरथो नाम नामतः ।

तां ददर्श च तन्वङ्गीं शुभाङ्गो मदनातुरः ॥४१॥

तं दृष्ट्वा सा सखीराह वचनं सत्यसंयुतम् ।

असौ नराधिपसुतो मदनेन कदर्थ्यते ॥४२॥

मदर्थे च क्षमं मेऽस्य स्वप्रदानं सुरुपिणः ।

सख्यस्तामब्रुवन् बाला न प्रगल्भाऽसि सुन्दरि ॥४३॥

अस्वातन्त्र्यं तवास्तीह प्रदाने स्वात्मनोऽनघे ।

पिता तवास्ति धर्मिष्ठः सर्वशिल्पविशारदः ॥४४॥

न ते युक्तमिहात्मानं दातुं नरपतेः स्वयम् ।

एतस्मिन्नन्तरे राजा सुरथः सत्यवाक् सुधीः ॥४५॥

समभ्येत्याऽब्रवीदेनां कन्दर्पशरपीडितः ।

त्वं मुग्धे मोहयसि मां दृष्ट्यैव मदिरेक्षणे ॥४६॥

त्वददृष्टिशरपातेन स्मरेणाभ्येत्य ताडितः ।

तन्मां कुचतले तल्पे अभिशायितुमर्हसि ॥४७॥

नोचेत् प्रधक्ष्यते कामो भूयो भूयोऽतिदर्शनात् ।

ततः सा चारुसर्वाङ्गी राज्ञो राजीवलोचना ॥४८॥

वार्यमाणा सखीभिस्तु प्रादादात्मानमात्मना ।

एवं पुरा तया तन्व्या परित्रातः स भूपतिः ॥४९॥

तस्मान्मामपि सुश्रोणि त्वं परित्रातुमर्हसि ।

अरजस्काऽब्रवीद दण्डं तस्या यद वृत्तमुत्तरम् ॥५०॥

किं त्वया न परिज्ञातं तस्मात् ते कथयाम्यहम् ।

तदा तया तु तन्वङ्ग्या सुरथस्य महीपतेः ॥५१॥

आत्मा प्रदत्तः स्वातन्त्र्यात् ततस्तामशपत् पिता ।

यस्माद् धर्मं परित्यज्य स्त्रीभावान्मन्दचेतसे ॥५२॥

आत्मा प्रदत्तस्तस्माद्धि न विवाहो भविष्यति ।

विवाहरहिता नैव सुखं लप्स्यसि भर्तृतः ॥५३॥

न च पुत्रफलं नैव पतिना योगमेष्यसि ।

उत्सृष्टमात्रे शापे तु ह्यपोवाह सरस्वती ॥५४॥

अकृतार्थं नरपतिं योजनानि त्रयोदश ।

अपकृतार्थं नरपतिं योजनानि त्रयोदश ।

अपकृष्टे नरपतौ साऽपि मोहमुपागता ॥५५॥

ततस्तां सिषिचुः सख्यः सरस्वत्या जलेन हि ।

सा सिच्यमाना सुतरां शिशिरेणाप्यथाम्भसा ॥५६॥

मृतकल्पा महाबाहो विश्वकर्मसुताऽभवत् ।

तां मृतामिति विज्ञाय जग्मुः सख्यस्त्वरान्विताः ॥५७॥

काष्ठान्याहर्तुमपरा वह्निमानेतुमाकुलाः ।

सा च तास्वपि सर्वासु गतासु वनमुत्तमम् ॥५८॥

संज्ञां लेभे सुचार्वङ्गी दिशश्चाप्यवलोकयत् ।

अपश्यन्ती नरपतिं तथा स्त्रिग्धं सखीजनम् ॥५९॥

निपतात सरस्वत्याः पयसि स्फुरितेक्षणा ।

तां वेगात् काञ्चनाक्षी तु महानद्यां नरेश्वर ॥६०॥

गोमत्यां परिचिक्षेप तरङ्गकुटिले जले ।

तयाऽपि तस्यास्तद्भाव्यं विदित्वाऽथ विशांपते ॥६१॥

महावने परिक्षिप्ता सिंहव्याघ्रभयाकुले ।

एवं तस्याः स्वतन्त्राया एषाऽव्यस्था श्रुता मया ॥६२॥

तस्मान्न दास्याम्यात्मानं रक्षन्ती शीलमुत्तमम् ।

तस्यास्तद्वचनं श्रुत्वा दण्डः शक्रसमो बली ।

विहस्य त्वरजां प्राह स्वार्थमर्थक्षयंकरम् ॥६३॥

दण्ड उवाच

तस्या यदुत्तरं वृत्तं तत्पितुश्च कृशोदरि ।

सुरथस्य तथा राज्ञस्तच्छ्रोतुं मतिमादथ ॥६४॥

यदाऽवकृष्टे नृपतौ पतिता सा महावने ।

तदा गगनसंचारी दृष्टवान् गुह्यकोऽञ्जनः ॥६५॥

ततः सोऽभ्येत्य तां बालां परिसान्त्य्व्य प्रयत्नतः ।

प्राह मा गच्छ सुभगे विषादं सुरथं प्रति ॥६६॥

ध्रुवमेष्यसि तेन त्वं संयोगमसितेक्षणे ।

तस्माद गच्छस्व शीघ्रं त्वं द्रष्टुं श्रीकण्ठमीश्वरम् ॥६७॥

इत्येवमुक्ता सा तेन गुह्यकेन सुलोचना ।

श्रीकण्ठमागता तूर्णं कालिन्द्या दक्षिणे तटे ॥६८॥

दृष्ट्वा महेशं श्रीकण्ठं स्त्रात्वा रविसुताजले ।

अतिष्ठत शिरोनम्रा यावन्मध्यस्थितो रविः ॥६९॥

अथाजगाम देवस्य स्नानं कर्तुं तपोधनः ।

शुभः पाशुपताचार्यः सामवेदी ऋतध्वजः ॥७०॥

ददर्श तत्र तन्वङ्गी मुनिश्चित्राङ्गदां शुभाम् ।

रतीमिव स्थितां पुण्यामनङ्गपरिवर्जिताम् ॥७१॥

तां दृष्ट्वा स मुनिर्ध्यानमगमत् केयमित्युत ।

अथ सा तमृषिं वन्द्य कृताञ्जलिरुपस्थिता ॥७२॥

तां प्राह पुत्रि कस्यासि सुता सुरसुतोपमा ।

किमर्थमागतासीह निर्मनुष्यमृगे वने ॥७३॥

ततः सा प्राह तमृषिं यथातथ्यं कृशोदरी ।

श्रुत्वर्षिः कोपमगमदशपच्छिल्पिनां वरम् ॥७४॥

यस्मात् स्वतनुजातेयं परदेयाऽपि पापिना ।

योजिता नैव पातिना तस्माच्छाखामृगोऽस्तु सः ॥७५॥

इत्युक्त्वा स महायोगी भूयः स्त्रात्वा विधानतः ।

उपास्य पश्चिमां सन्ध्यां पूजयामास शङ्करम् ॥७६॥

सम्पूज्य देवदेवेशं यथोक्तविधिना हरम् ।

उवाचागम्यतां सुभ्रूं सुदतीं पतिलालसाम् ॥७७॥

गच्छस्व सुभगे देशं सप्तगोदावरं शुभम् ।

तत्रोपास्य महेशानं महान्तं हाटकेश्वरम् ॥७८॥

तत्र स्थिताया रम्भोरु ख्याता देववती शुभा ।

आगमिष्यति दैत्यस्य पुत्री कन्दरमालिनः ॥७९॥

तथाऽन्या गुह्यससुता नन्दयन्तीति विश्रुता ।

अञ्जनस्यैव तत्रापि समेष्यति तपस्विनी ।

तथाऽपरा वेदवती पर्जन्यदुहिता शुभा ॥८०॥

यदा तिस्त्रः समेष्यन्ति सप्तगोदावरे जले ।

हाटकाख्ये महादेवे तदा संयोगमेष्यसि ॥८१॥

इत्येवमुक्ता मुनिना बाला चित्राङ्गदा तदा ।

सप्तगोदावरं तीर्थमगमत् त्वरिता ततः ॥८२॥

सम्प्राप्य तत्र देवेशं पूजयन्ती त्रिलोचनम् ।

समध्यास्ते शुचिपरा फलमूलाशनाऽभवत् ॥८३॥

स चर्षिर्ज्ञानसम्पन्नः श्रीकण्ठायतनेऽलिखत् ।

श्लोकमेकं महाख्यानं तस्याश्च प्रियकाम्यया ॥८४॥

न सोऽस्ति कश्चित् त्रिदशोऽसुरो वा यक्षोऽथ मर्त्यो रजनीचरो वा ।

इदं हि दुःखं मृगशावनेत्र्या निर्मार्जयेद यः स्वपराक्रमेण ॥८५॥

इत्येवमुक्त्वा स मुनिर्जगाम द्रष्टुं विभुं पुष्करनाथमीड्यम् ।

नदीं पयोष्णीं मुनिवृन्दवन्द्यां संचिन्तयन्नेव विशालनेत्राम् ॥८६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:15:04.2030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धडकन

  • क्रि.वि. १ आकस्मित व मोठा धड असा आवाज होईल अशा प्रकारे ; धपकन . ( क्रि० पडणे इ० ). माडीवरुन पोर धड्कन खाली पडले . २ आग , विस्तव एकदम , भडकन पेटतांना होणार्‍या आवाजाप्रमाणे आवाज होऊन . ( क्रि० पेटणे ; उडणे ). [ ध्व . ] 
RANDOM WORD

Did you know?

कुंभमेळ्याबद्दल माहिती द्या? नजिकचा कुंभमेळा कोठे आहे ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.