संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ४२

व्रतोद्यापन प्रयोगः - पूजा भाग ४२

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ धारणापारणाव्रतोद्यापनम् ‍ ॥ तद्धतं तु आषाढ शुल्कैकादशीमारभ्य कार्तिकशुल्कैकादशीपर्यतं मासचतुष्टयं मासं वा कार्यम् ‍ । तत्र एकस्मिन्दिने उपवासः द्वीतीयदिने भोजनमिति धारणपारणम् ‍ । तत्र विधिः । एकादश्यां प्रातर्नद्यादौ स्त्रात्वा नित्यकर्म कृत्वा देशकालौ संकीर्त्य मम बंधुधादिजनितपापक्षियपूर्वकत्तमलोकप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थ धारणापारणाव्रतं करिष्ये इति संकल्प्य गणेशं संपूज्य विष्णुं पीठे ॐ नमो नारायणाय इत्यष्टाक्षरमंत्रेण षोडशोपचारैः संपूज्य तद्दिने उपवासं कुर्यात् ‍ । ततो द्वादश्यां प्रातः स्नात्वा देवं संपूज्य अष्टाक्षरमनुमष्टोत्तरशतं जप्त्वा तेनैवाऽष्टोत्तरशतमर्घ्य दत्त्वा ब्राह्मणभोजनपुरःसरं मौनी स्वयं भोजनं कुर्यात् ‍ । एवं मासचतुष्टयं मासं वा चरित्वा कार्तिकशुल्कैकादश्यामुद्यापनं कार्यम् ‍ ॥ अथो द्यापनप्रयोगः ॥ देशकालौ स्मृत्वा मम सर्वविधपातकनिवृत्तिपूर्वकधर्मार्थकाममोक्षसिद्धिद्वारा श्रीपरमेश्वरप्रीतये आचरितधारनापारणाव्रतोद्यापनं करिष्ये इति संकल्प्य गणेशपूजनाद्याचार्यवरणांतं पूर्ववत्कर्म कुर्यात् ‍ । ततः सर्वतोभद्रे ब्रह्मदिदेवताः संकल्प्य तन्मध्ये ताम्रकलशे सौवर्णीं लक्ष्मीणा रायणप्रतिमाम् ‍ ॐ विष्णोर्नुकंवीर्याणिप्रवोचंयः पार्थिवानिविममेरजा सियोऽअस्कभायदुत्तरर्ठसध स्थंविक्रमाणस्त्रेधोरुगायोविष्णवेत्वा ॥१॥

इति मंत्रेण प्रतिष्ठाप्य । पुरुषसूक्तेन ॐ नमो नारायणाय इत्यनेन पंचामृतपुरः षोडशोपचारैः संपूज्य । रात्रौ कथाश्रवणदिना जागरणं कुर्यात् ‍ । ततः प्रातरग्निं प्रतिष्ठाप्य आज्यभागांते ॐ निषदीदतगणपतेगणेषुत्वा माहुर्विप्रयमंकवीनाम् ‍ । नऽऋतेत्यत्‍क्रियतेकिंचनारेमहामंर्क मघवांचित्रमर्च स्वाहा ॥१॥

इति मंत्रेण तिलौदनेन १०८ । ॐ अरायिकाणेविकटेगिरिंगच्छसदान्वे । शिरिंबिठंस्यसत्त्वभिस्तेभिष्टा चातयामसिस्वाहा ॥१॥

इति मंत्रेण घृतादनं १०८ ॐ नमोनारायणय स्वाहा इत्यष्टक्षरेण पायसं च प्रत्येकमष्टोत्तरशतं हुत्वा सर्वतोभद्रदेवताभ्यश्वैकैकाहुतिं जुहुयात् ‍ । ततः आचार्य वस्त्रादिभिः संपूज्य सोपस्करां प्रतिमां व्रतपूर्त्तये सवत्साम गां सोपस्करां शय्यां च दद्यात् ‍ । ततः प्रतिमासं पंचदश ब्राह्मणान् ‍ पायसाद्यन्नेन संतर्प्य दक्षिणां दत्त्वा आशिषो गृहीत्वा स्वयं भुंजीत । इदं व्रतं महापुण्य़ं तपसामुत्तमं तपः । तस्मात्त्वमपि राजेंद्र कुर्विदं विधिपूर्वकम् ‍ ॥१॥

इति भविष्योत्तरोक्तं धारणापारनाव्रतोद्यापनम् ‍ ॥ अथ मासोपवासव्रतोद्यापनम् ‍ । तच्च आश्विन शुल्कैकादशीमारभ्य कार्तिकशुल्कैकादशीपर्यतं मासोपवासं कृत्वा अंत्ये उद्यापनं कार्यम् ‍ । प्रत्यहं त्रिकालस्नानं विष्णुमंत्रजपः विष्णुपूजनं तुलसीदलानामर्पणम् ‍ असदालापवर्जनं पुराणश्रवणं पठनं च ब्राह्मणपूजनं यथाशक्ति दानं च एवमादिनियमान् ‍ कुर्यात् ‍ । देशकालौ संकीर्त्य । मम समस्तपापक्षयपूर्वकधर्मार्थकाममोक्षप्राप्तिद्वारा श्रीमहाविष्णुप्रीत्यर्थम ‍ आचरितमासोपवासव्रतो द्यापनं करिष्ये । इति संकल्प्य गणेशपूजनायाचार्यवरणांत पूर्ववत्कर्म कुर्यात् ‍ । ततः सर्वतो भद्रे ब्रह्मदिदेवताः संपूज्य तत्र मध्ये ताम्रकलशोपरि सुवर्णमयी लक्ष्मीनारायणप्रतिमां पीतकौ शेयवस्त्रयुग्मवेष्टितां संस्थाप्य । ॐ इदंविष्णुर्विचक्रमे० १ इत्यावाह्य पुरुषसूक्तेन द्वादशाक्षरमनुना च पंचामृतपुरःसरं षोडशोपचारैः कोमलतुलसीदलैश्व संपूज्य रात्रौ जागरणं कुर्यात् ‍ । ततः प्रातर्न द्यादौ स्नात्वा देवर्षिपितृन्संतर्प्य नित्यकर्म समाप्य स्थंडिले अग्निं प्रतिष्ठाप्य आज्यभागांते पूर्वोक्तवैदिकमंत्रेण ॐ नमो भगवते वासुदेवाय स्वाहा इत्यनेन वा तिलाज्यपायसद्रव्यैरष्टोत्तरशतं हुत्वा सर्वतोभद्रदेवताभ्यश्वैकैकाज्याहुतिं हुत्वा होमशेष्म समाप्य आचार्याय सोपस्करां प्रतिमां व्रतपूर्त्तये सवत्साम गां शय्यां च दत्त्वा वेदशास्त्रसंपन्नांस्त्रिशद्धह्यणान् ‍ पायसान्नेन संतर्प्य दक्षिणा वस्त्राभूषणयात्रादिभिः संपूज्य प्रार्थयेत् ‍ । भो द्विजा अनुमोदध्वं विष्णुलोकं प्रयाम्यहम् ‍ । ततो द्विजाः प्रतिवदेयुः । व्रजव्रज नरश्रेष्ठ विष्णुलोकमनामयम् ‍ । विमानं वैष्णवं दिव्यं शय्यायां परिकल्पितम् ‍ ॥ तेन विष्णुपदं याहि सच्चिदानंदरुपिणम् ‍ ॥१॥

ततो दीनानाथान्र्पतोष्य बंधुभिः सहस्वयं मौनी भुंजीत । अशक्तेन तु एतद्धतं कंदमूलफलपयोभक्षणादिना कर्तव्यम् ‍ । अनेन सर्व पापमुक्तो भवति ॥ इति विष्णुरहस्योक्तं मासोपवासव्रतोद्यापनम् ‍ ॥ अथ सर्वसंक्रातिव्रतो द्यापनम् ‍ ॥ अयनसंक्रांतौ विषुवत्संक्रांतौ वा प्रातः शुल्कतिलैर्नद्यादौ स्नात्वा गोमयोपलिप्ते शुद्ध देशे कुंकुमादिनाष्टदलं विरच्य पूजासामग्रीं संपाद्य देशकालौ संकीर्त्य मम अग्निष्टोमादिफलप्राप्तिपूर्वकसप्तजन्मधनधान्यपुत्रपौत्रविविधभोगप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थम् ‍ आचरिताऽमुकसंक्रां तिव्रतोद्यापनं करिष्ये । इति संकल्प्य गणेपूजनाद्याचार्यवरणांतं पूर्वत्कर्म कुर्यात् ‍ । ततः पूर्वचितपद्मे ब्रह्मदिदेवताः संपूज्य तन्मध्ये ताम्रकलशोपरि रक्तकौशेयवस्त्रं प्रसार्य्य तत्र कुंकुमा दिनाऽष्टदलं विरच्य तन्मध्ये कर्णिकायां सुवर्णमयीं सूर्यप्रतिमां प्रतिष्ठाप्य ॐ आकृष्णेनरजसा ०१ इति मंत्रेणावाह्य परितः पूर्वादिष्वष्टदिक्षु देवताः स्थापयेत् ‍ । तद्यथा । पूर्वे आदित्याय नमः १ (आग्रेय्याम् ‍) सोमार्चिषे नमः २ (याम्याम् ‍) ऋड्‌मंडलाय नमः ३ (नैऋत्ये ) सवित्रे नमः ४

( पश्चिमे ) तपनाय नमः ५ ( वायव्याम् ‍) मित्राय नमः ६ ( उत्तरे ) मांर्तडाय नमः ७ ( एशान्याम् ‍) विष्णवे नमः ८ इति संस्थाप्य पुरुषसूक्तेन संपूज्य । चंदनोदकपुष्पैरर्घ्य दद्यात् ‍ । तत्र मंत्रः । विश्वाय विश्वरुपाय विश्वधाम्ने स्वयंभुवे । नमोनंत नमो धात्रे ऋक्‍सामयजुषां पते ॥१॥

ततः अग्निं प्रतिष्ठाप्य आज्यभागांते पूर्वोक्तमंत्रेणाष्टोत्तरशतं पायसहोमं कृत्वा ब्रह्मादिदेवताभ्यश्वैकैकाहुतिं जुहुयात् ‍ । ततो होमं समाप्य आचार्य वस्त्रदिभिः संपूज्य सोपस्करां प्रतिमां सुवर्णकमलं च दत्त्वा सवत्साः सोपस्कराः सप्त गाः अशक्तस्तु कपिलामेकां वा दद्यात् ‍ । ततो हैमीं रौप्यां वा ताम्रमयीं वा पैष्टीं तिलैर्वा पृथिवीं विधाय सौवर्णसूर्यसहितां दद्यात् ‍ । ततः सोदकं कुंभं तिलपात्रं ससुवर्ण कस्मैचिद्वाह्यणाय दत्त्वा द्वादश ब्राह्मणान् ‍ पायसेन भोजयित्वा तेभ्यो जलपूरितातान्द्वादश घटान् ‍ सदक्षिणाकान्दत्त्वा तैराशिषो गृहीत्वा स्वयं भुंजीत । इति हेमाद्रौ मत्स्यपुराणोक्तं सर्वसंक्रांतिव्रतोद्या पनम् ‍ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP