संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ३२

व्रतोद्यापन प्रयोगः - पूजा भाग ३२

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ अनंगत्रयोदशीव्रतं तदुद्यापनं च लिख्यते ॥ तच्च मार्गशीर्षशुल्कत्रयोदशी मारभ्य प्रतिमांस शुल्कत्रयोदश्यां वर्षपर्यतं कार्यम् ‍ ॥ मार्गशीर्षशुल्कत्रयोदश्यां प्रातरश्वत्थकाष्ठेन

दंतधावनं कृत्वा नदीतडागादौ स्नात्वा संध्यादिनित्यकर्म संपाद्य स्वासने प्राङमुख उपविश्य आचम्य प्राणानायम्य । देशकालौ संकीर्त्य ममात्मनः इह जन्मनि जन्मांतरे च कृत समस्तपापक्षयार्थं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं दुर्भगत्ववंत्वमृतवंध्यात्वादिदोषनिरसन पूर्वकं तत्तन्मासकल्पोक्तफलप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थ च अनंगत्रयोदशीव्रतं करिष्ये इति संकल्प्य । उक्तविधिना पीठे लिंगरुपिणमनंगं प्रतिष्ठाप्य ॐ अनंगाय नमः इति मंत्रेणावाह्य पृथ क्पृथक् ‍ पंचामृतैर्गधोदकेन च संस्नाप्य नानगंधैर्मरुबकपुष्पैर्धूपदीपफेणिकानैवेद्यादिभिश्च षोडशोपचारैः संपूज्य । नारिंगफलेनार्घ्यं दद्यात् ‍ तत्र मंत्रः । स्वर्गे चैव तु पाताले मर्त्यलोके तथैव च ॥ सर्व व्यापिन्ननंग त्वं गृहाणार्घ्यं नमोस्तु ते ॥१॥

इत्यर्घ्यं दत्त्वा प्रार्थयेत् ‍ । नमोस्त्वनंगदेवाय सर्व संघनिवासिने । हदयस्थाय नित्याय सूक्ष्माय परमेष्ठिने ॥१॥

इति प्रार्थ्य मधुप्राशनं कृत्वा रात्रौ जागरणं च कृत्वा प्रातर्ब्राह्मणसुवासिनीभ्यो भोजनं दत्त्वा स्वयं भुंजीत । एवं सर्वमासेषु त्रयोदश्यामु पोषणं पूजाविधानं च ज्ञेयम् ‍ (दंतकाष्ठपुष्पफलार्घ्यनैवेद्यादिषु च विशेषः ) तद्यथा । पोषशुल्कत्रयो दश्याम् ‍ औदुंबरकाष्ठदंतधावनम् ‍ । जातीपुष्पैः पूजनम् ‍ । दाडिमेनार्घ्यम् ‍ । अशोकवर्तिकानैवेद्यम् ‍ । ॐ नाट्येश्वराय नम इतिं मंत्रेण पूजा । नाट्येश्वराय शर्वाय ईश्वराय नमोनमः । नमस्ते भुवनेशाय गृहाणार्घ्यं नमोस्तु ते ॥१॥

इत्यर्घ्यदानमंत्रः । रात्रौ चंदनं प्राश्य स्वपेत् ‍ ॥२॥

माघे न्यग्रोध दंतकाष्ठम् ‍ । कुंदपुष्पाणि । बीजपूरेणार्घ्यम् ‍ । शर्करा नैवेद्यम् ‍ । योगेश्वरो देवता । ॐ योगेश्वराय देवाय योगजंबूनिवासिने । गृहाणार्घ्यं मया दत्तं योगेश्वर नमोस्तु ते ॥१॥

इत्यर्घ्यमंत्रः ॥ ततो मौक्तिकोदकं प्राश्य रात्रौ स्वपेत् ‍ ॥३॥

फाल्गुने बादरं दंतकाष्ठम् ‍ । जपापुष्पाणि । कंकोलेनार्घ्यम् ‍ । अपूपनैवेद्यम् ‍ । वीरेशोनाम देवता । वीरेश्वर वीरभद्र उमाकान्तं सुरेश्वर । हिममध्यनिवासिंस्त्वं गृहाणार्घ्यं महेश्वर ॥१॥

इत्यर्घ्यम् ‍ । रात्रौ कंकोलं प्राशयेत् ‍ ॥४॥

चैत्रे मल्लिकादंतकाष्ठम् ‍ । दमनपुष्पम् ‍ । द्राक्षयार्घ्यम् ‍ । वटकाः नैवेद्यम् ‍ । विश्वरुपदेवता । नमस्ते विश्वरुपाय स्वरुपाय महात्मने । गृहाणार्घ्यं मया दत्तं विश्वरुप नमोस्तु ते ॥१॥

इत्यर्घ्यं दत्त्वा कर्पूरं प्राशयेत् ‍ ॥५॥

वैशाखे अपामार्गं दंतकाष्ठम् ‍ । मल्लिकापुष्पाणि । खजूरेणार्घ्यम् ‍ । नैवेद्ये सक्तवः । महारुपदेवता । महारुपाय नमस्ते सर्वविज्ञानरुपिणे । गृहाणार्घ्यं मया दत्तं महारुप नमोस्तु ते ॥१॥

इत्यर्घ्यं दत्त्वा रात्रौ जातीफलं प्राशयेत् ‍ ॥६॥

ज्येष्ठे निर्गुंडीदंतधावनम् ‍ । बकुलपुष्पम् ‍ । श्रीफले नार्घ्यम् ‍ । नैवेद्ये मंडकाः । प्रद्युम्नदेवता । नमस्ते पशुपतये प्रद्युम्न भुवनेश्वर । गृहाणार्घ्यं मया दत्तं प्रद्युम्न परमेश्वर ॥१॥

इत्यर्घ्यम् ‍ । रात्रौ लवंगप्राशनम् ‍ ॥७॥

आषाढे नारिंगकाष्ठेन दंतधावनम् ‍ । कदंबपुष्पम् ‍ । नारिकेलेनार्घ्यम् ‍ । नैवेद्ये दधिभक्तम् ‍ । उमापतिर्देवता । उमापते महाबाहो कामदाहक ते नमः । गृहाणार्घ्यं मया दत्तं चन्द्रमौले नमोस्तु ते ॥१॥

इत्यर्घ्यमंत्रः । रात्रौ तिलोदकप्राशनम् ‍ ॥८॥

श्रावणे कारंजं दंतकाष्ठम् ‍ । पद्मपुष्पम् ‍ । रंभाफलेनार्घ्यम् ‍ । नैवेद्ये पायसम् ‍ ॥ शूलपाणिर्देवता । नमस्ते गिरिजानाथ नमस्ते भक्तिभावन । गृहाणार्घ्यं मया दत्तं शूलपाणे नमोस्तु ते ॥१॥

इत्यर्घ्यमंत्रः । रात्रौ गंधोदकप्राशनम् ‍ ॥९॥

भाद्रपदे कंकोलकोष्ठन दंतधावनम् ‍ । चंपकपुष्पाणि । नैवेद्ये घृतपूरिकाः ॥ पूगीफलेनार्घ्यम् ‍ । त्रिदशेशदेवता । त्रिदशेशाय देवाय सद्योजाताय वै नमः । गृहाणार्घ्य मया दत्तं सद्योजात नमोस्तु ते ॥१॥

इत्यर्घ्य दत्त्वा रात्रौ अगरुं प्राशयेत् ‍ ॥१०॥

आश्विने कंकतीकाष्ठेन दंतधावनम् ‍ । करवीरपुष्पम् ‍ । कर्कटिकाफले नार्घ्यम् ‍ । नैवेद्ये शुभ्रमण्डलः । त्रिदशपतिर्नाम देवता । त्रिदशाधिप देवेश उमाकान्त महेश्वर । त्रिधारुपमयस्त्वं हि अर्घोयं प्रतिगृह्यताम् ‍ ॥१॥

इत्यर्घ्यमंत्रः । रात्रौ कांचनं तोयं प्राशयेत् ‍ ॥११॥

कार्तिकशुल्कत्रयोदश्यां कदंबकाष्ठेन दंतधावनम् ‍ । रक्तोत्पलैः पूजनम् ‍ । कूष्मांडफलेनार्घ्यम् ‍ । पूरिका नैवेद्यम् ‍ । जगदीश्वरो नाम देवता । नमस्ते जगदीशाय तापिने शूलपाणये । गृहाणार्घ्यं महेशान जगदीश नमोस्तु ते ॥१॥

इति मंत्रेणार्घ्यम् ‍ । ततो रात्रौ मदनफलं प्राश्य जागरं कुर्यात् ‍ ॥१२॥

एवं सर्वत्र प्रदोषे पूजनं भक्षणं च ज्ञेयम् ‍ । ततो वत्सरांते उद्यापनं कार्यम् ‍ । तद्यथा । देशकालौ संकीर्त्य मम समस्तपापक्षयपूर्वकं मार्गशीर्षादितत्तन्मासकल्योफलप्राप्तिद्वारा श्रीमदर्धनारीश्वरमहेशप्रीत्यर्शम् ‍ । ततः आचार्यो लिंगताभद्रे ब्रह्मदिदेवान्संपूज्य मध्यस्थे ताम्रकलशे कर्षसुवर्णचितमर्द्धनारीश्वरं महेशं संस्थाप्य त्र्यम्बकमंत्रेणावाह्य वस्त्रयुग्मेन संवेष्टय षोडशोपचारैः संपूज्य अर्घ्यं दत्त्वा प्रार्थयेत् ‍ । ततः प्रातरग्निं प्रतिष्ठाप्य आज्यभागांते घृताक्तपायसद्रव्येण त्र्यम्बकमंत्रणाष्टोत्तरशतं हुत्वा ब्रह्मादिलिंगतोभद्रदेवताभ्यश्वैकैकयाज्याहुत्या होमं कुर्यात् ‍ । ततो होमांते छत्रोपानत्कमंडलुमुद्रिकासनवस्त्राभूषणादिद्रव्यैराचार्य संपुज्य सवत्सां पयस्विनीं गां सोपस्करां शय्यां चाचार्याय निवेद्य तस्य पादौ मूर्ध्नि समारोप्य प्रणिपत्य प्रार्थयेत् ‍ । भगवंस्त्वत्प्रसादेन व्रतसं पूर्णता मम । एवमस्त्विति संव्रूयात्तव तुष्टोस्तु शंकरः ॥१॥

इति प्रार्थ्य सोपस्करं पीठं च निवेद्य द्वादशाष्टौ वा दंपतीन् ‍ ब्राह्मणान् ‍ भोजयित्वा स्वयं भुंजीत् ‍ ॥ एतह्रतं मम श्रेष्ठं गह्यदूगुह्यतरं परम् ‍ । राज्यमर्थान्सुतान् ‍ सिद्धिमवैधव्यं प्रयच्छति ॥१॥

इति भविष्योत्तरपुराणोक्तमनंगत्रयो दशीव्रतोद्यापनं समाप्तम् ‍ ॥ इति पंडितगौडश्रीचतुर्थीलालविरचिते व्रतोद्यापनप्रकाशे त्रयोदशी व्रतोद्यापनानि ॥ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP