संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग १०

व्रतोद्यापन प्रयोगः - पूजा भाग १०

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही, म्हणून उद्यापनांच्या प्रयोगांचा संग्रह. व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते.


(ततो ग्रहमंडलसमीपे) ॐ सूर्यादिनवग्रहेभ्यः साधिप्रत्यधिदेव पंचलोकपालसहितेभ्यः इमं सदीपपदाधिभाषभक्तबलिं समर्पयामि । भो भो सूर्यादिग्रहमंडलदेवता इमं बलि गृह्रीत आयुःकर्तारः क्षेमकर्तारः ०अनेन बलिदानेन श्रीसूर्यादिग्रहमंडलदेवताः प्रीयंताम् ॥१॥

एवं सर्वतोभद्रमंडलदेवताभ्यश्वैकं बलिं दद्यात् ॥ ततः क्षेत्रपालबलिदानम् ॥ एकस्मिन् वंशपात्रे कुशानास्तीर्य तदुपरि अहारचतुर्गुणं द्विगुणं वा भाषभक्तदध्योदनं जलपात्रं च निधाय हरिद्राकुंकुमसिंदूरकज्जलद्रव्यपताकायवचूर्णकृततैलदीपयुतं कृत्वा । ॐ क्षेत्रपालाय नमः इति गंधपुष्पादिभिर्वलिं संपूज्य । ॐ नमः क्षेत्रपालस्त्वं भूतप्रेतगणैः सह । पूजां बलिं गृहाणेमं सौम्यो भवतु सर्वदा । देहि मे आयुरारोग्यं निर्विघ्नं क्रुउ सर्वदा ॥१॥

इति प्रार्थ्य । बलिं गृहीत्वा ॐ क्षेत्रपालाय सांगाय भूतप्रेतपिशाचशाकिनीवेतालादिपरिवारयुताय सायुधाय सशक्तिकाय सवाहनाय इमं सदीपदधिमाष भक्तबलिं समर्पयामि । भोभोः क्षेत्रपाल सर्वतो दिशं रक्ष बलिं भक्ष मम सकुटुंबस्याभ्युदयं कुरु । आयुः कर्ता क्षेमकर्ता शांतिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्रकर्ता वरदो भव । अनेन बलिदानेन क्षेत्रपालः प्रीयताय ॥ इमं बलिमनवेक्ष्यमाणेन द्रुर्बाह्यणेन नीत्वा चतुष्पथे निक्षिपेत ॥ यजमानोपो तस्य पृष्ठतो द्वारपर्य्यंत गत्वा जलं क्षिपेत् । ततो हस्तौ पादौ प्रक्षाल्य आचामेत् ॥ अथ पूर्णाहुतिहोमः ॥ देशकालौ स्मृत्वा । कृतस्य कर्मणः सांगतासिद्धयर्थं पूर्णा । हुतिहोमं करिष्ये । इति संकल्प्य । आज्याधि श्रयणभाज्योद्वासनमवेक्षणमुत्पवनं च कृत्वा स्त्रुवं पूरयित्वा नारिकेलं पूगीफलं वा धृत्वा यजमानः आचार्यस्कंधं स्पृशन् जुहुयात् ॥ तत्र मंत्राहः ॥ ॐ समुद्‌द्रादूर्मिर्मधुमाँ २ऽउदारदुपा शुनासममृतत्व मानट्‌ । घृतस्यनामगुह्यंदस्तिजिह्रादेवानाममृतस्यनाभिः ॥१॥
व्वयन्नामप्रब्रवामाघृतस्यास्मिन्येज्ञेधारयामानमोभिः । उपब्रह्माश्रृणवच्छस्यमानंचतुःश्रृंगोव्वमीङौरऽएतत् ॥२॥
चत्वारिश्रृंगा त्रयोऽअस्यपादाद्वेशीर्षेसप्तहस्तासोऽअस्य ॥ त्रिधाबद्धोवृषभोरोरवीतिमहोदेवोमर्त्या २ आविवेश ॥३॥
त्रिधाहितंपाणिभिर्गुह्यमानंगविदेवासोघृतमन्वविंदन् ॥ इन्द्रऽएकर्ठसूर्य्यऽएकंजजानव्वेनादेकर्ठस्वध यानिष्ठतक्षुः ॥४॥
एताऽअर्षान्तित्समुद्राच्छतव्रजारिपुणानावचक्षे ॥ घृतस्यधाराऽअभिचाकशीमि हिरण्ययोव्वेतसोमध्यऽइवक्षिणोरीषमाणाः ॥६॥
सिंधोरिवप्राध्वनेशूघनासोव्वातप्रमियःपतयन्ति यह्याः ॥ घृतस्यधाराऽअरुषोनवाजीकाष्ठाभिन्दन्नूर्म्मिभिःपिन्वमानः ॥७॥
अभिप्रवन्तसमनेव्वयोषाःकल्याण्यःस्मयमानासोऽअग्रिम् ॥ घृतस्यधाराःसमिधोनसन्तताजुषाणोहर्यतिजातवेदाः ॥८॥
कन्याऽइवव्वहतुमेतवाःऽ उऽअञ्ज्यञ्जानाऽअभ्चाकशीमि ॥ यत्रसोमःसूर्यतेयत्र यज्ञोघृतस्यधाराऽअभितत्पवंते ॥९॥
अभ्यर्षतसुष्ठुतिङुव्यमाजिमस्मासुभद्राद्रविणानिधत्त ॥ इमंयज्ञन्नयतदेवतानोघृतस्य धारामधुमत्पवंते ॥१०॥
धामन्तेव्विश्वंभुवनमधिश्रितमंतः समुद्रह्रद्यन्तरायुषि ॥ अपामनीकेशमिथेयऽआभृतस्तमस्याममधुमंतंतंऽऊर्म्मिम् ॥११॥
पुनस्त्वादित्यारुद्रा व्वसवःसमिंधताम्पुनर्ब्रह्माणोव्व सुनीथयज्ञैः ॥ घृतेन त्वंतन्वंव्वर्धयस्वसत्याःसंतुयजमानस्यकामाः ॥१२॥
सप्ततेऽअग्रेसमिधःसप्त जिह्राःसप्तऽऋपयःसप्तयामप्रियाणि । सप्तहोत्राःसप्तधात्वायजन्तिसप्तयोनीरापृणस्वाघृतेनस्वाहा ॥१३॥
पूर्णादर्व्विपरापतसुपूर्णापुनरापत ॥ वस्त्रेव्विक्रीणा वहाऽइषमूर्जर्ठःशतक्रतोस्वाहा ॥१४॥
इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यः शतक्रतवे सप्तवते अग्रये अभ्यश्व न मम ॥ इति पूर्णाहुतिं हुत्वा ॐ श्रद्धां मेधां यशः प्रज्ञां विद्या पुष्टिं श्रियं बलम् । तेज आयुष्यमारोग्यं देहि मे हव्यवाहन १ इति प्रार्थयेत् ॥ ततस्त्र्यायुषकरणम् ॥ स्त्रुवेण भस्मानीय दक्षिणाऽनामिकाग्रगृहीतभस्मना । ॐ त्र्यायुषं जम दग्रेरिति ललाटे ॐ कस्यपस्य त्र्यायुषमिति ग्रीवायाम् ॐ यद्देवेषु त्र्यायुषमिति दक्षिणांसे ॐ तन्नोऽअस्तु त्र्यायुषमिति ह्रदि । इति त्र्यायुषं कुर्यात् ॥ ततः संस्त्रप्राशनमाचमनं च कृत्वा ब्रह्मणे पूर्ण पात्रदाने कार्यम् । तद्यथा देशाकालौ पठित्वा । अद्य कृतैतदमुकव्रतोद्यापनहोमकर्मप्रतिष्ठार्थमिदं पूर्ण पात्रं सदक्षिणाकं प्रजापतिदैवत्ममुकगोत्रायामुकशर्मणि ब्राह्मणाय ब्रह्मणे दक्षिणात्वेन तुभ्यमहं संप्रददे । इति दद्यात् ॥ ॐ स्वस्तीतिप्रतिवचनम् ॥ ततो ब्रह्मग्रंथिविमोकः ॥ ततःप्रणीतोदकेन ॐ सुमित्रियानऽआपऽओषधयः संत्विति यजमानमूर्धानमभिषिंचेत् । ॐ दुर्मित्रियास्तस्मैसंतुयोस्मान्द्वेष्टि यंचव्वयंद्विष्मः इतीशान्यां प्रणीतां न्युब्जीं कुर्यात् ॥ ततः आस्तरणक्रमेण बर्हिरुत्थाप्याज्येनाभिवार्य्य ॥ ॐ देवागतुविदोगातुरव्वित्वागातुमितमनसस्पतऽमंदेवयज्ञर्ठस्वाहावातेधाअःस्वाहा १ इति मंत्रेण हस्तेनैव जुहुयात् ॥ एवं होमं समाप्य नवग्रहकलशोदकेन दूर्वाम्रपल्लवैरुदङ्‌मुख आचार्य ऋत्विजश्व सपत्नीकं यजमानं प्राङ्‌मुखमुपविष्टमभिर्षिचेयुः (अभिषेके पत्नी वा मतः) तत्र मंत्राः ॥ ॐ आपोहिष्ठामयोहुवस्तानऽऊर्ज्जेंदधातन ॥ महेरणायचक्षसे ॥१॥
योवःशिवतमोरसस्तस्यभाजयतेहनः ॥ उशतीरिवमातरः ॥२॥
तस्माअरङमामवोयस्यक्षयाय जिन्न्वथ । आपोजनयथाचनः ॥३॥
ॐ त्रातारमिन्द्रमवितारमिन्द्रर्ठहवेहवेसुहवर्ठशूरमिन्द्रम् ॥ ह्रयामिशक्रम्पुरुहूतमिन्द्रर्ठस्वस्तिनोमघवाधात्विद्रः ॥४॥
ॐ व्वरुणस्योतंभनमसि० ॥५॥
ॐ भगप्प्रणेतर्भगसत्यधोमगेमान्धियमुदवाददन्नः ॥ भगप्रणोजनयगोभिरश्वैर्भगप्रनृभिर्न्नृवन्तःस्याम् ॥६॥
इदमापः प्रवहतावद्यंचमलंचयत् ॥ यच्चाभिदुद्रोहानृतंयच्चशेपेऽभीरुणम् ॥ आपोमातस्मादेनसः पवमासश्वमुंचतु ॥७॥
पुनंतुमादेवजनाः पुनन्तुमनसाधियः ॥ पुनन्तु विश्वाभूतानिजातवेदः पुनीहिमा ॥८॥
आप्यायस्वसमेतुते विश्वथ सोमवृष्ण्यम् । भवावाज्यस्यसंग थे ॥९॥
पयः पृथिव्याम्पयऽओषधीषुपयोदिव्यन्तरिक्षेपयोधाः ॥ पयस्वतीः प्रदिशः सन्तुमह्यम् ॥१०॥
देवस्यत्वसवितुःप्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्याम् ॥११॥
सरस्वत्यैवाचोयंतुंर्यत्रियेद धामिबृहस्पतयेष्ट्रासाज्येनाभिषिंचामि ॥१२॥
देवस्यत्वासवितुः प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्याम् । आश्विनोर्भैषज्येनतेजसेब्रह्यवर्चसाचाभिषिंचामिदेवस्यत्वासरस्वत्यैभैषज्येनवीर्य्यायान्नाद्या याभिषिंचा मीन्द्रस्येन्द्रियेणबलायाश्रियेयशसेभिषिंचामि ॥१३॥
पालासं भवतितेन न ब्राह्मणोभिर्षिं चतिब्रह्मविपालाशोब्रह्मणैवैन मेतदभिषिंचति ॥१४॥
सर्वेषांवाऽएषवेदाना रसोयत्सामसर्वेषामेनैव मेतद्वेदाना रसेनाभिषिंचति ॥१५॥
यद्देवकल्पांजुहोतिप्राणवैकल्पाऽअमृतमुपवैप्राणऽअमृते नैवैनमेतदभिषिंचति ॥१६॥
दीर्घायुत्वायबलायवर्चसेसुप्रजास्त्वायसहसाऽअथोजीवशरदःशतम् ॥१७॥
द्यौः शांतिरंतरिक्षःर्ठशांतिः पृथिवीशांतिर्रापः शांतिरोषधयः शांतिर्वनस्पतयः शांति व्विंश्वेदेवाः शांतिर्ब्रह्मशांतिः सर्वर्ठशांतिः शांतिरेवशांतिः सामाशांतिरेधि ॥१८॥
अथ पौराणिका मंत्राः । सुरास्त्वामभिषिचंतु ब्रह्मविष्णुमहेश्वराः ॥ वासुदेवो जगन्नास्तथा संकर्षणो विभुः १ प्रद्युम्नश्वानिरुद्धश्व भवंतु विजयाय ते ॥ आंखडलोग्निर्भगवान्यमो वै निऋतिस्तथा २ वरुणः पवनशैव धनाध्यक्षस्तथाशिवः । ब्रह्मणा सहिताः सर्वे दिक्पालाः पांतु ते सदा ३ कीर्त्तिर्ल क्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धिर्लज्जा वपुः शांतिस्तुष्टिः कांतिस्तु मातरः ४ एता स्तामभिषिंचंतु देवपत्न्यः समागताः ॥ आदित्यश्र्वंद्रमा भौमो बुधजीवसितार्कजाः ५ ग्रहास्त्वामभि षिचंतु राहुः केतुश्व तर्पिताः । देवदानवग्धर्वा यक्षराक्षसन्नगाः ६ ऋषयो मुनयोइ गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याश्वाप्सरसां गणाः७ अस्नाणि सर्वशस्नाणि राजानो वहनानि च । औषधानि च रत्नानि कालस्यावयवाश्व ये ८ सरितः सागराः शैलास्तीर्थानि जलरा नदाः । एते त्वाम्नभिषिचंतु सर्वकामार्थसिद्धये ९ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्‌गणाः । अभिषिंचंतु त सर्वे धर्मकामार्थसिद्धये १० अमृताभिषेकोस्तु । एवभिषेकं कृत्वा अनंतरं सर्वोषधी रनुलिप्य । शुद्धोदकेन स्नान्त्वा । उभयोः स्नानवस्त्रत्यागः ॥ शुल्कमाल्यांबरधरो धृतमंगलतिलकःसपत्नीको यजमानः स्वासने उपविश्य । आचम्य । आज्ये मुखवलोक्य । ब्राह्मणाय छायापात्रदानं कुर्यात् ॥ अथाचार्यादिपूजनम् ॥  यजमानो देशकालौ संकीर्त्य कृतस्त्यामुकव्रतोद्यापन कर्मणः सांगतासिद्धयर्थमाचार्यदीन् वस्त्रतांबूलदक्षिणाभिः पूजयिष्ये । इति संकल्प विद्युक्त प्रकारेण आचार्यादीन् गंधादिभिः संपूज्य दक्षिणादिभिः प्रतोष्य आचार्याय श्वेतां सवत्सां सालं कारां गां दद्यात् । तद्‌भावे गोनिष्क्रयरजतद्रव्य्म वा दद्यात् ॥ ततो ऋत्विगादिभ्यो यथाशक्ति दक्षिणां दत्त्वा अन्येभ्यो ब्राह्मणेभ्यो यथाशक्ति भूयसीं दक्षिणां दत्त्वा तेषामाशिषो गृह्रीयात् ॥ ते च ॐ स्वस्तिनऽइन्द्रोवृद्धश्रवाः स्वस्तिनः पृपा विश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नोबृहस्पतिर्दधातु ॥१॥  
श्रीर्वर्च्चस्वमायुष्यमारोग्यमाविधात्पवमानंमहीयते ॥ धान्यंधनंपशुबहु पुत्रलाभंशतसंवत्सरंदीर्घमायुः ॥२॥
पुनस्त्वादित्यारुद्रावसवः समिंधताम्पुनर्ब्रह्माणोवसुनीथ यज्ञैः ॥ घृतेनत्वन्तवन्वर्द्धययस्वसत्याः सन्तुयजमानस्यकामाः ॥३॥
मंत्रार्थाः सफलाः संतुः पूर्णाः सन्तु मनोरथाः । शत्रूणां बुद्धिनाशोस्तु मित्राणमुदयस्तव ॥४॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP