संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग २९

व्रतोद्यापन प्रयोगः - पूजा भाग २९

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ गोपद्मव्रतम् ‍ ॥ तच्च आषाढशुल्कैकादश्यां समारभ्य कार्तिकशुल्क द्वादश्यंतं कार्यम् ‍ । एतद्रूतं पंचवर्षात्मकम् ‍ । अस्योद्यापनं तु पूर्णे पंचमे वर्षे कार्तिकशुल्कैदादश्यां कार्यम् ‍ । तत्र प्रयोगः देशकालौ संकीर्त्य ममात्मनो यमदंडनिरसनपूर्वकपुत्रपौत्रसौभाग्यादि वृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं पंचवर्षाचरितगोपद्मव्रतोद्यापनं करिष्ये । इति संकल्प्य गणेशपूज नाद्याचार्यवरणांतं पूर्ववत्कर्म कुर्यात् ‍ । ततः । आचार्यो गोमयोपलिप्ते शुद्धस्थाने व्रीहिपिष्टकैः त्रयस्त्रिंशत्पद्मानि कृत्वा पंचरंगैः शोभयित्वा गंधपुष्पैः प्रपूजयेत् ‍ । ततः सर्वतोभद्रे ब्रह्मदिदेवान्संपूज्य तन्मध्ये ताम्रकलशोपरि कर्षमात्रसुवर्णरचितां लक्ष्मीनारायणप्रतिमां चतुर्भुजीं गोपाल रुपां प्रतिष्ठाय । ॐ इदम्बिष्णुर्विचक्रमे ०१ इत्यावाह्य पुरुषसूक्तेन षोडशोपचारैः संपूज्य केशवा दिद्वादशनामभिः पूजयेत् ‍ । ततः । नमस्ते देवदेवेश नमस्ते गरुडध्वज । नमस्ते विष्णवे तुभ्यं व्रतस्य फलदायक ॥१॥

इति प्रार्थ्य रात्रौ गीतवाद्यादिमंगलैर्जागरणं कृत्वा प्रातः पुनः संपूज्य अग्निं प्रतिष्ठाप्य आज्यभागंते केशवादिद्वादशनाभिः समित्तिलाज्यद्रव्यैर्होमं कृत्वा । ॐ इदम्बिष्णुर्विचक्रमे ० १०८ इति मन्त्रेणाऽष्टोत्तरशतं पायसं हुत्वा ब्रह्मादिसर्वतोभद्रदेवताभ्यश्वैकैकयाज्या हुत्या होमं कुर्यात् ‍ । ततः स्विष्टकृदादिपूर्णाहुत्यंतं होमशेषं समाप्य सवत्सां धेनुमाचार्याय दत्त्वा सपत्नीकान्पंच ब्राह्मणान् ‍ षड्र्सैः संभोज्य तेभ्यो वस्त्राणि पंचवायनानि च दत्त्वा अन्यानपि यथा शक्त्या ब्राह्मणान्संभोजयेत् ‍ । ततो बंधुभिः सार्द्ध स्वयं भुञ्जीत । कृत्वा चेदं व्रतं पुण्यं सर्वान्कामा नवाप्नुयात् ‍ । अंते स्वर्गपदं गच्छेत्सर्वपापविवर्जितः ॥१॥

इति गोपद्मव्रतोद्यापनम् ‍ ॥ इति श्रीगौड पंडितश्रीचतुर्थीलालविरचिते व्रतोद्यापनप्रकाशे एकादशीव्रतोद्यापनानि समाप्तानि ॥११॥ paan 90 b

अथ द्वादशीव्रतोद्यापनानि लिख्यंते ॥ तत्र तावत् ‍ वामनजयंतीव्रतोद्यापनम् ‍ ॥ तच्च भाद्रशुल्कैकादशी युतायां द्वादश्यां श्रवणयोगे कार्यम् ‍ । बुधवारयोगे प्रशस्ततरम् ‍ । तत्र प्रयोगः । प्रातरुत्थाय दंतधावनं कृत्वा नद्यादौ । ॐ वरो वरेण्यो वरदो वराहो धरणीधरः । अपवित्रं मां करोतु भगवान्हरिः ॥

इति मंत्रेण तिलकल्कं स्वशरीरे विलिप्य यथाविधि स्नात्वा स्नानांगतर्पणं विधाय संध्यादिनित्य कर्म निर्वर्त्य कुर्यात् ‍ । देशकालौ स्मृत्वा ममात्मनः अखिलपापक्षयपूर्वकपिशाचादिदुर्योनिनिर सनद्वारा श्रीविष्णुलोकप्राप्त्यर्थमाचरितवामनजयंती (श्रवणद्वादशी ) व्रतोद्यापनं करिष्ये ।

इति संकल्प्य गणेशपूजनाद्याचार्यवरणांतं कर्म कुर्यात् ‍ । ततः आचार्यो वेद्यां सर्वतोभद्रं विरच्य तत्र ब्रह्मणदिदेवानावाह्य संपूज्य तन्मध्ये यथाविधि ताम्रकलशंसंस्थाप्य तदुपरि सुवर्नरौप्यताम्रदारु वंशजान्यतमं पात्रं निधाय तिलाढकेन प्रस्थेन वा यवगोधूर्मैर्वा प्रपूर्य तत्र मृगचर्म प्रसार्य्य तत्र कुंकुमादिना द्वादशारयुतं पद्मं विलिख्य तन्मध्ये सौवर्ण वामनं शिखाकमंडलुधरं छत्रयज्ञोपवीतिनं संस्थापयेत् ‍ । ततः ॐ त्रीणिपदाविचक्रमेविष्णुर्गोपाऽअदाभ्यः । अथोधर्माणिधारयन् ‍ ॥१॥

ॐ भूर्भुवः स्वः ॐ वामनाय नमः वामनमावाह्यामि इत्यावाह्य पुरुषसूक्तेन षोडशोपचारैः यथा कालोद्धवैः पुष्पैः फलैश्व नानाविधभक्ष्यभोज्यैश्व सम्पूजयेत् ‍ । पुष्पपूजांते अंगपूजां कुर्यात् ‍ । ॐ मत्स्याय नमः पादौ पूजयामि १ कूर्माय ० जानुनी पू० २ वराहाय ० गुह्यं पू० ३ नृसिंहाय० नाभिं पू ० ०४ वामनाय० उदरं पू० ५ परशुरामाय०९ दक्षिणभुंज पू ०६ दाशरथिरामाय ० वामभुंज पू० ७ कृष्णाय० मुखं पू० ८ बुद्धाय० कर्णौ पू० ९ कल्किने नमः शिरः पूजयामि १० ॐ नमो भगवते वासुदेवाय सर्वागं पूजयामि ११ इति संपूज्य दधिभक्तनैवेद्यं निवेद्य प्रार्थयेत् ‍ । नमस्तेऽदिति पुत्राय नमस्ते कश्यपात्मज । त्रिविक्रमाय देवाय वामनाय नमोनमः ॥१॥

ततो न्यग्रोधम् ‍ ॐ कद्रुद्रायप्रचेतसेमीढुष्टमायनव्यसे । वोचेमशन्तमंह्रदे ॥ इतिमंत्रेण संपूज्य दध्योदनयुतं शिक्यं जल पूरितं करकं च संपूजयेत् ‍ । तत्र मंत्रौ । शिक्योसि दधिभक्तोऽ *सि लंबितोसि मयोपरि । सूत्रेणैवाश्रि तोसि त्वं वामनः प्रीयतामिति ॥१॥

करकं पूजयिष्यामि सरितां संगमे जलैः । पंचरत्नसमायुक्तं तेन तुष्यतु वामनः ॥२॥

ततः सर्वान्प्रार्थयेत् ‍ । पर्जन्यो वरुणः सूर्यः केशवः सलिलं शिवः । त्वष्टायमो वैश्रवणः सदा पापं हरंतु मे ॥१॥

ततः कथाश्रवणादिना रात्रौ जागरणं कृत्वा प्रातःस्नात्वा अग्निं प्रतिष्ठाप्य आज्यभागांते प्रधानदेवश्रीवामनाय पायसघृतसमित्तिलैः प्रतिद्रव्यमष्टोत्तरशतसं रव्यया हुत्वा सर्वतोभद्रदेवताभ्यश्वैकैकयाज्याहुत्या होमं कुर्यात् ‍ । तत्र होममंत्राः । ॐ इरावतीतिमंत्रेण पायसं घृतं च । ॐ इदम्विष्णुर्विचक्रमे० इति मंत्रेण समित् ‍ । ॐ त्रीणिपदाविचक्रमे० इति मंत्रेण । ॐ विष्णोःकर्माणिपश्यत० इति मंत्रेण तिलाश्व होतव्याः । ततो द्वादशासंख्याकान् ‍ विप्रान्वस्त्रादि ना संपूज्य दधिभक्तान्नोपवीतचन्द्र्नयुतातान्सुगंधजलपूरितान्द्वादशकरकांस्तेभ्यो दद्यात् ‍ । तत्र मंत्रः । सुगंधिजलसंपूर्ण दधिभक्तयुतं द्विज । करकं ते प्रदास्यामि वामनः प्रीयतामिति ॥१॥

वामनः प्रतिगृह्रति वामनो वै ददाति च वामस्तारकोभाभ्यां वामनाय नमोनमः ॥१॥

इति मंत्रेण सोपस्करं पीठमाचार्याय दद्यात् ‍ । ततो व्रतपूर्त्तये गां दत्त्वा विप्रान् ‍ भोजयेत् ‍ ॥ इति श्रीवामन जयंती (श्रवणद्वादशी ) व्रतोद्यापनं समाप्तम् ‍ ॥ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP