संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग १८

व्रतोद्यापन प्रयोगः - पूजा भाग १८

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


दश ब्राह्मणान् ‍ मोदकपायसदिभिर्भोजयित्वा आशिषो गृहीत्वा स्वयं भुजीत् ‍ ।

इति द्शरथललिताव्रतोद्यानम् ‍ ॥ इति श्रीपण्डितगौडश्रीचतुर्थीलालविरचिते व्रतोद्यापनप्रकाशे चतुर्थीव्रतोद्यापनानि समाप्तानि ॥ ॥

अथ पंचमीव्रतोद्यापनानि तत्र तावत् ‍ नागपंचमीव्रतोद्यापनम् ‍ भविष्योत्तरे प्रभासखण्डे च ।

तच्च श्रावणशुल्कपंचम्यां भाद्रशुक्लपंचम्यां च कार्यम् ‍ ॥ चतुर्थ्यामेकभक्तं कृत्वा पंचम्यां प्रातर्नद्यादौ स्नात्वा नित्यकर्म्म समाप्य ।

देशकालौ स्मृत्वा । मम संतत्यभिवृद्धिपूर्वकं सौभाग्यवृद्धिद्धारा श्रीनागरुपपरमेश्वरप्रीत्यर्थ नागपंचमीव्रतकं रिष्ये । इति संकल्प्य ।

गणेशपूजनादि आचार्यवरणांतं कुर्य्यात् ‍ । ततः सौवर्ण राजतं दारुमयं मृन्मयं वा नागं कृत्वा पटे चंदनादिना पंचफणं वा नागं विलिख्य ।

दधिदुग्धदूर्वाक्षतकरवीरशतपत्र जातीपुष्पपद्मगंधादिभिः संपूज्य अनंताय नमः १ वासुकयेनमः २ शेषाय० ३ पद्मनाभाय० ४ कंबलाय० ५ कालियाय०

६ कर्कोटकाय० ७ तक्षकाय० ८ अश्वतराय ०९ धृतराष्ट्राय० १० शंखपालाय ९ ११ पिंगलाय नमः १२ एतैर्नाममंत्रैर्विशेषपूजां कुर्य्यात् ‍ ।

ततो ब्राह्मणान् ‍ घृतपायसैः संतर्प्य स्वयं तैलपक्कविवर्जितान्नेन नक्तं कुर्यात् ‍ । ( एवं प्रतिमासं पंचम्यां कृत्वा प्रतिमासमनंतादि नाम्रा संपूजयेत् ‍ ।

एवं द्वादशवर्षमेकवर्ष वा संपाद्य अंते सर्वतोभद्रमण्डलस्थकलशे रत्नचित्रितं कांचनं नागं पूर्ववत्संपूज्य घृतपायसं

निवेद्य रात्रौ जागरण्म कृत्वा षष्टयां प्रातः पुनः पूर्ववत्संपूज येत् ‍ । ततः कथावाचकाय व्यासरुपिणे ब्राह्मणाय सोपस्करां

प्रतिमां पीठं गां च दद्यात् ‍ । तत्र मंत्रः । दानकाले पठेदेतत्स्मन्नारायणं प्रभुम् ‍ । सर्वगं सर्वधातारमनंतपराजितम् ‍ ॥१॥

ये केचिन्मे कुले सर्पेर्दष्टाः प्राप्ता ह्यधोगतिम् ‍ । व्रतदानेन गोविंद मुक्तिभाजो भवंतु ते ॥२॥

इत्युक्त्वा सितचंदना क्षतय्तमोदकं जले निक्षिपेत् ‍ । ततः ब्राह्मणानां यतीनां न नानानुद्दिश्य

महाभोज्यं दत्त्वाआशिषो गृहीत्वा स्वयं भुंजीत अनेन सर्पयोनेर्मुक्तो भवति ॥ इति नागपंचमीव्रतोद्यापनम् ‍ ॥

अथ भाद्रशुल्कपंचम्यामृषिपंचमीव्रतोद्यापनम् ‍ ॥ भविष्योत्तरे ॥ सप्तवर्षपर्यन्तं व्रतं कृत्वा अन्ते भाद्रशुल्कचतुर्थ्यमेकभक्तं

विधाय पंचम्यां प्रातर्नद्यादौ अपामार्गदंतधावनपूर्वकं स्नात्वा नित्य कर्म समाप्य पंचगव्य प्राशयेत् ‍ ।

ततो मध्याह्रे पुनः स्नात्वा धौतवस्त्रे परिधाय सपत्नीको यजमानः देशकालौ संकीर्त्य ।

मया ज्ञानतोऽज्ञानतो वा रजस्वलावस्थायां कृतसंपर्कजनितदुर्योनित्वदोषपरि हारद्वाराशुभफलप्राप्त्यर्थ

श्रीपरमेश्वरप्रीत्यर्थमाचरितऋषिपंचमीव्रतोद्यापनं करिष्ये । इति संकल्प्य गणेशपूजादि आचार्यवरणांतं

कर्म्म कुर्यात् ‍ । ततो वृताचार्यः सर्वतोभद्रमण्डलमध्ये सप्तता म्रकलशान एकं वा यथाविधिना संस्थाप्य

तेषु शक्त्या संपादिता हैमीः सप्तर्षिप्रतिमाः अरुंधती सहिता अष्टौसंख्याकाः प्रतिष्ठापयेत् ‍ । तत्र मंत्रः ।

ॐ सप्तऽऋषयःप्प्रतिहिताः शरीरे सप्त रक्षंति सदमप्प्रमादम् ‍ । सप्तापः स्वपतोलोकमीयुस्तत्र जागतोऽअस्वप्न्जौसवसदौचदेवौ ॥१॥

paan 59

ॐ कश्यपाय नमः कश्यपमावाह्यामि १ अत्रये नमः अत्रिमावाह्यामि २ भरद्वाजाय नमः भरद्वाय० ३

विश्वामित्राय० विश्वामित्रं ४ गौतमाय० गौतम० ५ जमदग्रये० जमदग्रिं० ६ वसिष्ठाय० वसिष्ठं ० ७ अरुंधत्यै० अरुंधतीमावाहयामि

८ इत्यावाह्य । ॐ मनोजूतिरिति प्रतिष्ठाप्य । पुरुषसूक्तेन स्त्री चेन्नाममंत्रेण षोडशोपचारैः संपूज्य ।

नमोस्तु ऋषिवृंदभ्यो देवर्षिभ्यो नमोनमः । सर्वपापहरे भ्यो हि वेदविन्द्यो नमोनमः ॥१॥

एते सप्तर्षयः सर्वे भक्त्या संपूजिता मया । सर्वपापं व्यपोहंतु ज्ञानतोऽज्ञानतः कृतम् ‍ ॥२॥

इति प्रार्थ्य वायनं दद्यात् ‍ । तत्र मंत्रः । वायनं फलसंयुक्त सघृतं दक्षिणान्वितम् ‍ । द्विजवर्याय दास्यामि व्रसंपूर्तिहेतवे ॥१॥

भवंतः । प्रतिग्रह्रन्तु ज्योतीरुपा स्तपोधनाः । उभयोस्तारकाः संतु वायनस्य प्रसादतः ॥२॥

ततः प्रार्थना । न्यूनातिरिक्तकर्माणि मया यानि कृतानि च ॥ क्षमध्वं तानि सर्वाणि यूयं सर्वे ततोधनाः ॥१॥

इति क्षमाप्य । कथाश्रवणादिना रात्रिं निनयेत् ‍ ॥ ततः प्रातरग्रिं प्रतिष्ठाप्य ।

आज्यभागांते ग्रहहोमं कृत्वा अरुंधतीसहितकश्यपादिसप्तर्षिभ्यस्तत्तन्नामंत्रेण

प्रत्येकं तिलव्रीहियवसर्पिर्द्रव्यैरष्टोत्तरसहस्त्रमष्टोत्तरशतमष्टाविंशतिंवा हुत्वा

सर्वतोभद्रदेवताभ्यश्व एकैकयाज्याहुत्या हुत्वा होमशेषं समाप येत् ‍ ततः

पूजां कृत्वा सपत्नीकान् ‍ सप्त ब्राह्मणान् ‍ वस्त्रदिना संपूज्य तेभ्यः क्रमेण दक्षिणा

प्रतिमायुतलकलशान् ‍ दद्यात् ‍ । तत्र मंत्रः । प्रतिगृह्र द्विजश्रेष्ठ प्रतिमादिसमन्वितम् ‍ ।

कलशं चर्षिसं प्रीत्यै व्रतसंपूर्तिहेतवे ॥१॥

यदैककुम्भस्तदा सर्वप्रतिमापूजनादिद्रव्यसहितं कलशमाचार्याय दद्यात् ‍ ।

अन्येभ्ययः दक्षिनावस्त्रज्ञोपवीतयुतान् ‍ पक्कान्न पूरितान् ‍ कलशान् ‍ दद्यात् ‍ ।

ततः आचार्याय सुवर्णगुलीयक कुण्डलाभूषणानि सवत्सां सोपस्कराम पयस्विनीं च दत्त्वा प्रार्थयेत् ‍ ।

सप्तर्षयः शुभाः श्रेष्ठाः सर्वेषां च शुभप्रदाः । सर्वपापं च मे घ्रंतु ज्ञानतोऽज्ञानतः कृतम् ‍ ॥१॥

ततो ब्राह्मणान् ‍ भोजयित्वा दीनानाथान् ‍ संतर्प्य इष्टबंधुजनैः सह भुंञ्जीत ॥

इति ऋषिपंचमीव्रतोद्यापनप्रयोगः ॥ अथ आश्विनशुल्कपंचम्यां मध्याह्रव्यापिन्यामुपांगललिताव्रतम् ‍ ॥

तस्योद्यापनप्रयोगः (उद्या पनकौद्याम् ‍) । प्रातःदंतधावनपूर्वकं नद्यादौ स्नात्वा शुक्लवाससी परिधाय मंडपिकादिकं कृत्वा

तिथ्यादि संकीर्त्य मया पुत्रपौत्रविद्यारोग्यसुखविजयपुष्टयादिकामेन स्त्रीत्वावैधव्यकामन

योपांगललिताप्रीत्यर्थमष्टवर्षात्मकाचरितोपांगललिताव्रतोद्यापनं करिष्ये । इति संकल्प्य गणेश

पूजनादि आचार्यरणांतं कर्म कुर्यात् ‍ । ततःआचार्यः एकलिंगतोभद्रे ताम्रकलशोपरि सौवर्णी ललिताप्रतिमां

प्रतिष्ठाप्य पौराणमंत्रैः श्रीसूक्तेन च पूजयेत् ‍ । तत्रादौ ध्यानम् ‍ । नीलकौशेयवस ना हेमाभां कमलासनाम् ‍ ।

भक्तानां वरदां नित्यं ललितां चिंतयाम्यहम् ‍ ॥१॥

पुष्पपूजांते उपांगललितायै०पादौ पू० भवान्यै० गुल्फौ० सिद्धेश्वर्यै० जंघे० श्रियै० ऊरु०

विश्वरुपिण्यै० कटी० देव्यै० नाभिं० वरदायै० कुक्षिं० शिवायै० ह्रदयं० वागीश्वर्यै० स्कंधौ०

महादेव्यै० बाहू० प्रकृतिभद्रायै० करौ० पाघ्निन्यै० कंठं० सरस्वत्यै० मुंख० पद्मकेशरवासिन्यै०

नासिकां० महिषम र्दिन्यै० नेत्रे० लक्ष्म्यै० कर्णौ० भवान्यै० ललाटं० विंध्यावासिन्यै० शिरःपू०

सिंहवाहिन्यै० सर्वा गं पू० । ततो धूपादिकं समर्प्य पुष्पांजल्यंते साग्रानष्टचत्वारिंशत्परिमितान् ‍ दूर्वकुरान् ‍ हस्तेनादाय ।

बहुप्ररोहासततममृतां हरिता लता । यथेयं ललिते मातस्तथा मे स्युर्मनोरथाः १ इति मंत्रेणा र्पयेत् ‍

ततः प्रदक्षिणात्रयं कृत्वा साष्टांगं प्रणम्य क्षमाप्य कथाश्रवणादिना रात्रौ जागरणं कुर्यात् ‍ ।

ततःप्रातर्नित्यकर्म कृत्वा पुनः देवीं संपूज्यं अष्टौ वटकान् ‍ समर्प्य । स्थंडिले *ग्रिं प्रतिष्ठाप्य आज्यभागांते

उपांगललितादेव्यै ॐ गौरीर्मिमायेतिमंत्रेण अष्टोत्तरशतं दूर्वाभिर्होमं कृत्वा । नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताःप्रणताः स्म ताम् ‍ ॥१॥

इतिमंत्रेणाष्टोत्तरशतं तिलसर्पिःपंचखाद्ययुतपायसाहुतिभिश्व होमं कुर्यात् ‍ ।

ततः लिंगतोभद्र्देवताभ्य एकैकामाज्याहुतिं हुत्वा बलिदानं च कृत्वा होमशेषं समापयेत् ‍ ।

ततः अष्टौ ब्राह्मणान् ‍ वस्त्रादिभिः संपूज्य तेभ्यःपक्कान्नपुरितान् ‍ दक्षिणासहितानष्टौ कलशान् ‍ दद्यात् ‍ ।

ततः आचार्य वस्त्रालंकारा दिभिःसंपूज्य सदक्षिणं । विंशतिवटकसहितं वायनं दद्यात् ‍ ।

ततः आचार्य वस्त्रालंकारा दिभिःसंपूज्य सदक्षिणं विंशतिवटकसहितं वायनं दद्यात् ‍ । तत्र मंत्रः ।

पक्कान्नफलसंयुक्तं सघृतं दक्षिणान्वितम् ‍ । उपांगललिताप्रीत्यै ब्राह्मणाय ददाम्यहम् ‍ ॥

ततो देवीं विसर्जयेत् ‍ । सवाहना शक्तियुता वरदा पूजिता मया । मातर्मामनुगृह्याथ गम्यतां निजमंदिरम् ‍ ॥१॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP