संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ११

व्रतोद्यापन प्रयोगः - पूजा भाग ११

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


इत्याशिषो दद्युः ॥ ततो ब्राह्मण भोजनसंकल्पः ॥ देशकालौ स्मृत्वा । कृतस्य कर्मणः सांगतासिद्धयर्थममुकसंख्याकान्ब्राह्मणान्भोजयिष्ये इति संकल्प । पीठदानं कुर्यात् । देशकालौ संकीर्त्य । इदं पीठं सोपस्करम् अमुकदेवता प्रतिमायुतं श्रीपरमेश्वरप्रीतये तुभ्यमहं संप्रददे । इत्याचार्याय दद्यात् ततो देवताग्रिविसर्ज नम् ॥ यांतु देवगणाः सर्वे स्वशक्त्या पूजिता मया । इष्टकामप्रसिद्धर्थ पुनरागमनाय च ॥१॥

ॐ उत्तिष्ठब्रह्मणस्पतेदेवययन्तस्त्वेमहे । उपप्रयन्तुमरुतः सुदानवऽइन्द्रप्राशूर्भवास च ॥२॥

आवाहितदेवताः स्वस्वस्थाने गच्छत ॥ गच्छगच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर । यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन ॥१॥

ॐ यज्ञयज्ञंगज्छयज्ञपतिंगच्छस्वांयोनिंगच्छ स्वाहा । एषतेयज्ञोयज्ञपतेसहसूक्त वाकः सर्व्ववीरस्तंजुषस्वस्वाहा ॥१॥

यज्ञनारायण स्वस्थाने गच्छ ॥ एवं देवान्विसृज्य यज्ञोपकरणादिकम् ऋत्विभ्यो दत्त्वा आचार्यदीन् संपूज्य करौ संपुटीकृत्य व्रतपूर्णतां वाचयेत् ॥ जपच्छिद्रं तपश्छिद्रं यच्छिद्रं व्रतकर्मणि । सर्व भवतु मेऽच्छिद्रं ब्राह्मणानां प्रसादतः ॥१॥

इति प्रार्थयेत् ॥ अच्छिद्रं भवतु ते व्रतमिति ब्राह्मणाः प्रतिवदेयुः ॥ ततस्तत्त द्धतकल्पोसंख्याकान्ब्राह्मणान् शक्त्यनुरुपं वा भोजयित्वा । यस्यस्मृत्या च० १ प्रमादा त्कुर्वतां० २ इति यज्ञपूर्तिकामो विष्णुं स्मृत्वा कुटुम्बजनैः परिवृतः सोत्सवः स्वयं भुंजीत ॥ इति व्रतोद्यापनप्रकाशे सर्वव्रतोद्यापनोपनोपयोगिप्रयोगः समाप्तः ॥ अथ गोदानप्रयोगः ॥ यजमानःसुस्नातः सुप्रक्षालितपाणिपादः स्वाचातः मृद्धोमयोपलिप्तायां भूमौ स्वासने प्राङ्‌मुख उपविश्य करौ सपवित्रौ कृत्वा । आचम्यप्राणानायम्य । ॐ सुमुखश्वैकदंतश्वै त्यादिगणपतिं संपूज्य कुलदेवता गुरुंश्व नत्वा । स्वदक्षिणतः उदङ्‌मुखं ब्राह्मणमासने समुपवेश्य । देशकालौ स्मृत्वा । अद्य श्रुतिस्मृतिपुराणोक्तफलप्राप्तिकामोऽमुकव्रतोद्यापनपूर्ति कामश्व नारायणप्रीतयं गोदानमहं करिष्ये इति संकल्ष्य । तदंगत्वेन देवब्राह्मणपूजनं धेनुपूजनं च करिष्ये । इति संकल्पयेत् ॥ ततो गां ददामीति द्विजकरे जलं दद्यात् । ॐ ददस्व इति विप्रो वदेत् ॥ ततो गंधपुष्पतांबूलवासांस्यादाय । देशकालौ संकीर्त्य । अमुकव्रतोद्या वृणो । इतिवृत्त्वा । ॐ वृतोस्मीतिप्रतिवचनानंतरं ब्राह्मणं पाद्यार्घ्यगंधादिभिः पूजयेत् ॥ ततः । ॐ यदर्चनं कृतं विप्र तव विष्णुस्वरुपिणः । तत्सर्व मम दानं च विष्णुवे त्वं समर्पय ॥१॥

इति प्रार्थ्य । स्वपुरतः प्राङ्‌मुखीं गां संस्थाप्य वत्समुत्तरतो न्यसेत् ॥ अथ पूजा ॥ आवाहयाम्यहं देवीं सुरभीं लोकमातरम् । पूज्यां त्रिभुवने देवैर्गधवैः किन्नरै सदा ॥१॥

अमृतं देवि सर्वधर्म प्रवर्तनि । तारयस्व महादेवि दुःसहादूदुःखसागरात् ॥२॥

ॐ भूर्भुवः धेनो इहागच्छ इह तिष्ठ । इत्यावाहनम् ॥१॥

सौरभेयि सर्वहिते पवित्रे पापनाशिनि । गृह्रीष्वेतन्मया दत्तं पाद्यं त्रैलोक्य वंदिते ॥ ॐ भूर्भुवःस्वः रुद्ररुपिण्यै गवे नमः पाद्यं समर्पयामि ॥२॥

( एवं सर्वत्र ) इति पाद्यम् ॥ सर्व देवमये देवि सर्वतीर्थमय शुभे । गुहाणार्घ्य मया दत्तं सौरभेयि नमोस्तु ते ॥३॥

इत्यर्घ्यम् ॥ देहे स्थितासि रुद्राणि शंकरस्य सदा प्रिये । धेनुरुपेण सा देवि मम पापं व्यपोहतु ॥४॥

इत्याचमनीयम् ॥ या लक्ष्मीः सर्वलोकेषु या च देवेष्ववस्थिता ॥ धेनुरुपेण सा देवि मम पापं व्यपोहतु ॥५॥

इति स्नानम् ॥ आच्छादनं च कौशेयं शुद्धं चैव सुनिर्मलम् । सुरभ्यै दीयमानं तु प्रीयतां केशवः सदा ॥६॥

इति वस्त्रम् ॥ सर्वदेवप्रिय्म देवि चंदनं मलयोद्धवम् ॥ कस्तूरीकुंकुमाढ्यं च गौर्गधः प्रतिगृह्यताम् ॥७॥

इति गंधम् ॥ ऐरावतकुले जाता शतक्रतुप्रिया सदा । या लक्ष्मीःसर्वभूतानां या च देवेष्ववस्थिता ॥ धेनुरुपेण सा देवि पुष्पाणि प्रतिगृह्यताम् ॥८॥

इति पुष्पाणि॥ ( ततोऽलंकारान् श्रृङुभूषार्थ सुवर्णम् । चरणभूषार्थ रजतम् । भालभूषार्थमादर्शम् । नेत्रभूषार्थ रत्नद्वयम् । कंठभूषार्थ घंटाम् ॥ पुष्पस्त्रजं च । सर्वाऽवयवभूषार्थ पट्टदुकूलम् । पृष्ठभूषार्थ ताम्रम । पुच्छभूषार्थमुक्ताफलस्त्रजम् । दोहनार्थ पित्तलपात्रम् दुग्धपानार्थ कांस्यपात्रं च संपादयेत् ) ॥ अथांगपूजा॥ ॐ आस्याय नमः । ॐ श्रुंगाभ्यां नमः । ॐ पृष्ठायां नमः । ॐ पुच्छाय नमः । ॐ पूर्वपद्धयां नमः । ॐ पश्चिमपद्धयां नमः । अथाङुदेवतापूजा ॥ श्रृंगमूल योः ॐ ब्रह्मविष्णुभ्यां नमः १ ललाटे ॐ महदेवाय नमः २ नाशावंशे षण्मुखाय नमः३ कर्णयोः अश्विभ्यां नमः ४ चक्षुषोः शशिभास्कराभ्यां नमः ५ दंतेषु मरुद्धयो नमः ६ जिह्यायां वरुणाय नमः ७ हुंकारे सरस्वत्यै नमः ८ गंड्योः यमजाभ्यां नमः९ ओष्ठयोः संध्याद्वयाय नमः १० ग्रीवायाम् इंद्राय नमः ११ कुक्षिदेशे रक्षोभ्यो नमः ॥१२॥ उरसि साध्यअभ्यो नमः१३ चतुष्पादेषु धर्माय नमः १४ खुरमध्ये गंधर्वेभ्यो नम १५ खुरपार्श्वे अप्सरोभ्यो नमः १६ पृष्ठे एकादशरु द्रेभ्यो नमः ॥१७ सर्वसंधिषु वसुभ्यो नमः १८ श्रोणीतटे पितृभ्यो नमः १९ लांगूले सोमाय नमः २० वालेषु आदित्यश्मिभ्यो नमः २१ गोमूत्रे गंगायै नमः २२ क्षीरे सरस्वत्यै नमः २३ दध्रिनर्मदायै नमः २४ सर्पिषि हुताशनाय नमः २५ रोमसु देवायनामष्टविंशतिकोटिभ्यो नमः २६ उदरे पृथिव्यै नमः २७ पयोधरेषु चतुःसागेरेभ्यो नमः २८ इत्यंगदेवताः संपूज्य ॥ वनस्पतिर सो धूपो गंधाढ्यो गंध उत्तमः । आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम् ॥९॥

इति धूपम् ॥ साज्य च वर्तिसंयुक्तं वह्रिना योजितं मया ॥ दीपं गृहाण सुरभे मया दत्तं हि भक्तितः ॥१०॥

इति दीपम् ॥ वैष्णवी सुरभे मातार्नित्यं विष्णुपदे स्थिते । सर्वदेवमये ग्रासं मया दत्तमिमं ग्रस ॥११॥

इति गोग्रासनैवेद्यम् ॥ यत्ते मयार्पितं शुद्धं घंटाचामरसंयुतम् ॥ ग्रैवेयं गदूगृहाणेदं मुनित्रिदशवं दिते ॥१२॥

इति घंटाचामरम् ॥ पंच गावः समुत्पन्ना मथ्यमाने महावर्णवे । तासां मध्ये तु या नंदा तस्यै देव्यै नमोनमः ॥१३॥

इति नमस्कारः ॥ ततः ॐ इरावतीधेनुमतीहिभूर्ठसूयवसि नीमनवेदशस्या । व्यस्कश्वारोदसीव्विष्णवेतेदाधर्त्थपृथिवीम वितोमयूखैः स्वाहा ॥१॥

इति मंत्रेण प्रदक्षिणीकुर्वन् प्रार्थयेत् ॥ गावो मे अग्रतः संतु गावो मे संतु पृष्ठतः । गावो मे ह्रदये नित्यं गवां मध्ये वसाम्यहम् ॥१॥

ततो यजमानः प्राङ्‌मुख उदङ्‌मुखो वा गोपुच्छं गृहीत्वा कुशत्रयाक्षत यवतिलजलैर्देवर्षिपितृतर्पणं कुर्यात् । ( सव्येन ) ॐ गणपतिश्व तथा ब्रह्मा केशवो रुद्रदेवता लक्ष्मीः सरस्वती चैव ये चान्ये च नवग्रहाः ॥१॥ पान ४१ ब

ते सर्वे तृप्तिमयांतु गोपुच्छोदकतर्पणैः । देवाधिदेवताः सर्वास्तथा प्रत्यधिदेवताः ॥२॥

नक्षत्रवसवो रुद्रा विश्वेदेवा मरुद्धणाः । ते ते सर्वे तृप्तिमा यांतु गोपुच्छोदकतर्पणैः ॥३॥

किन्नराश्व पिशाचाश्व यक्षगंधर्वराक्षसाः । दैत्याश्व दानवाश्वैव ये चा न्येऽप्सरसां गणाः । ते सर्वे तृप्ति० ॥४॥

पुलस्तिःपुलहश्वैव दत्तात्रेयोथ भार्गवः । वसिष्ठांगिरसा वापि कश्यपश्वैव काश्यपाः । ते सर्वे तृप्ति० ॥५॥

ऋषयो मानवा देवा अधःस्था भूमिदेवताः । वाय्वाधारा जलाधाराः साध्या यक्षास्तथैव च । ते सर्वे तृप्ति० ॥६॥

सरितः सागराश्वैव पर्वता वनमेव च । लता औषधयश्वैव मृगा आरण्यवासिनः । ते सर्वे तृप्ति० ॥७॥

स्वाहा स्वधा तथा लक्ष्मीवृद्धिः श्रद्धा सरस्वती । मेधा प्रीतिस्तथा लज्जा कीर्तिश्व दशमी तथा । ताः सर्वास्तृप्तिमायांतु गोपुच्छोदकतर्पणैः ॥८॥

विश्वाद्याश्वैव ये देवा ये च वैकुंठवासिनः । गरुडासनमारुढा आगताः पुच्छगोचरे । ते सर्वे तृप्ति० ॥९॥

रुद्राद्या देवताः सर्वे ये च कैलासवासिनः । वृषभसनमारुढा योगिनः पीठसंस्थिताः । ते सर्वे तृप्ति० ॥१०॥

आदित्याद्या ग्रहाः सर्वे ऋक्षाश्वाश्विनिकादयः । मेषाद्या राशयश्वैव योगाविष्कंकादयः । ते सर्वे तृप्ति० ॥११॥

( ततः कंठीकृत्वा उदड्‌मुखः कायतीर्थेन यवोदकैस्तर्पयेत् ) सनकः सनंदनश्वैव तृतीयश्व सनातनः । कपिलश्वासुरिश्वैव वोढुह पंचशिखस्तथा । ते सर्वे तृप्ति० ॥१२॥

( ततो दक्षिणामुखः पातितवामजानुर्द्विगुणभुग्नकुशत्रयातिलजलैः पितृतीर्थेन तर्पयेत् । कव्यवाडनलः सोमो यमोऽर्यमा तथैव । अग्निष्वात्ताः पितृगणा बर्हिषदश्व सोमपाः । ते सर्वे तृप्ति० ॥१३॥

पिता पितामहश्वैव तथैव प्रपितामहः । मातामहः प्रमाता च वृद्धमातामहस्तथा । ते सर्वे तृप्ति०॥१४॥

माता पितामही चैव तथैव प्रपिता मही । मातामह्रादयःसर्वास्तथैवान्याश्व गोत्रजाः । ताःसर्वास्तृप्ति० ॥१५॥

पितृवंशे मृता ये च मातृवंशे तथैव च । गुरुश्वशुरबंधूनां ये चान्येबांधवा मृताः । ते सर्वे० ॥१६॥

ये मे कुले लुप्तपिंडाः पुत्रदारविवर्जिताः क्रियालोपगता ये च ये चांधाः पंगवस्तथा । ते सर्वे० ॥१७॥

विरुपा आमगर्भाश्व ज्ञाताऽज्ञाताः कुले मम । वृक्षयोनिगता ये च ये च कीटपतंगकाः । ते सर्वे० ॥१९॥

स्वार्थबंधमृता ये च शस्त्रदिविषमोहिताः । ब्रह्महस्तमृता ये च सिंहसर्पैश्व श्रृंगिभिः । ते सर्वे० ॥२०॥

चांडालेन मृता ये च पथि लोपगताश्व ये । जलमध्ये मृता ये च ह्यल्पमृत्युगताश्व ये । ते सर्वे० ॥२१॥

बंदिमध्ये मृता ये च स्त्रीहतेनैव ये मृताः । ये च ब्रह्माणडखंडे च व संति पितृदेवताः ॥२२॥

सर्वे च मानवा नागा आगताः पुच्छगोचरे । ते सर्वे तृप्तिमायांतु गोपुच्छोदकतर्पणैः ॥२३॥

आब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः । वंशद्वये स्मिन्मम दासभूता भृत्यास्तथैवाश्रितसेवकाश्च ॥ ते सर्वे तृप्तिमायांतु गोपुच्छोदकतर्पणैः ॥२४॥

एवं तर्पणं कृत्वा । सव्येन आचम्य । ब्राह्मंण गंधादिभिः संपूज्य । सतिलजलकुशाक्षतं गोपुच्छं गृहीत्वा । देशकालौ संकीर्त्य अद्य कृतैतदमुकव्रतोद्यापनकर्मणः संपूर्णतासिद्धिद्धारा श्रीपरमेश्वर प्रीत्यर्थभिमां गां सवत्सां सुशीलां सुपूजितां पयस्विनीं सुवर्णश्रृंगी रौप्यखुरां ताम्रपृष्ठीं घंटाचामर भूषितां मुक्तादामलांगूलां वस्त्रयुगच्छन्नां कांस्यपानीयपात्रां पैत्तिलदोहां यशाशक्त्यलंकृतां रुद्रदैव ताममुकगोत्रामुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे । इति सतिलजगोपुच्छं ब्राह्मणहस्ते निक्षेपेत् ‍ । न ममेति त्यागं कुर्यात् ‍ । ततः प्रतिग्रहीता । ॐ स्वस्तीत्युक्त्वा । ॐ कोदात्कामोदादिति कामस्तुतिं पठेत् ‍ । ततः । यज्ञसाधनभूता या विश्वस्याघौघनाशिनी । विश्वरुपधरो देवः प्रीयतामन या गवा ॥१॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP