संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग २

व्रतोद्यापन प्रयोगः - पूजा भाग २

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही, म्हणून उद्यापनांच्या प्रयोगांचा संग्रह. व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते.


अथ संकल्पः ॥
ताम्रपात्रे गंधाक्षतपुष्पाणि यवजलकुशांश्वादाय ॥ ॐ विष्णुर्विष्णुः ३ ॐ तत्सह्रसश्रीमद्धगवतो महापुरुषस्य विष्णुराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणो द्वितीये परार्द्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे अह्रो द्वितीये यामे तृतीये मुहूर्ते रथंतरादिद्वात्रिशत्कल्पानां मध्ये अष्टमे श्वेतवाराहकल्पे स्वायंभुवादिमन्वंतराणां मध्ये सप्तमे वैवस्वतमन्वंतरे कृत त्रेताद्वापरकलिसंज्ञानां चतुर्णा युगानां मध्ये वर्त्तमाने कलियुगे तत्प्रथमचरणे तथा पंचाशत्कोटियोजनविस्तीर्णेभूमण्डलान्तर्गतसप्तद्वीपमध्यवर्तिनि जंबूद्वीपे तत्रापि नवखण्डा नां मध्ये नवसहस्त्रयोजनविस्तीर्णे भरतखण्डे तत्रापि परमपवित्रे भारते वर्षे आर्यावर्तान्तर्गतब्रह्मा वर्ते वा अमुकदेशे वा अमुकक्षेत्रे श्रीगङायमुनयोर्महानद्योरमुकदिग्भागे नर्मदाया अमुकप्रदेशे श्रीमन्नृविक्रमादित्यराज्यादमुकसंरुयापरिमिते प्रवर्तमानवत्सरे प्रभवादिषष्टिसंवत्सराणां मध्येऽमुकाना नाम्नि संवत्सरे अमुकायने अमुकर्तौ अमुकमासे अमुकपक्षे अमुकतिथावमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकराशिस्थे चन्द्रे अमुकराशिस्थे सूर्य्ये अमुकराशिस्थिते देवगुरौ शेषे षु ग्रहेषु यथायथाराशिस्थानस्थितेषु सत्सु एवंगुणाविशेषणविशिष्टायां शुभपुण्यतिथौ देवब्राह्मणानां सन्निधौ अमुकगोत्रोऽमुकप्रवरोऽमुकशर्मा ममात्मनः श्रुतिस्मृतिपुराणोफलावाप्तये अखिलपाप क्षयपूर्वंक धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थममुककामनया वा मया पूर्वाचरितममुकव्रतं तत्संपूर्णफ्लावाप्तये अमुकव्रतोद्यापनाख्यं कर्म करिष्ये (पित्रादीनां निमित्तकं चेत्तर्हि तेषामूहः कार्य्यः ) तदंगतया विहितं गणेशपूजन्म स्वस्तिपुण्यहवाचनं मातृकापूजनं नांदी श्राद्धमाचार्यादिवरणं च करिष्ये ॥ इति संकल्प्य स्ववामे ॥ कर्मार्थगंगाजलपूरितताम्रकलशार्चनम् ॥ ॐ तत्त्वायामिब्रह्मणाव्वन्दमानस्तदाशातेयजमनोहविर्भिः ॥ अहेडमानोव्वरुणेहबोध्युरुशर्ठ.०स मानऽआयुःप्प्रमोषीः १ अस्मिन्कलशे ॐ वरुण इहागच्छेह तिष्ठ । इत्यावाह्य । ॐ अपांपतिवरुणा य नमः । इतिगंधाक्षतपुष्पैः संपूज्य । कलशस्य मुखे विष्णुरित्यभिमंत्य ॥ ॐ गंगे च यमुने चैव गोदावरि सरस्वति ॥ नर्मदे सिंधु कार्वेरि जलेस्मिन्सन्निधिं कुरु ॥१॥

इति कलशे तीर्थान्यावा ह्य ॐ गंगादितीर्थेभ्यो नमः । इति गंधादिभिः संपूज्य । देवदानवसंवादे इति प्रार्थयेत् ॥ ततो दूर्वा भिः कलशोदकेन संभारान्स्वात्मानं च । ॐ अपवित्रः पवित्रो वा० ॐ विष्णुः ३ पुनात्विति संप्रोक्ष्य । दीपपूजनं कुर्यात् ॥ भो दीप त्वंब्रह्मरुप अन्धकारनिवारक ॥ इमां मया कृतां पूजां गृह्रंस्तेजः प्रवर्धयः ॥१॥
दीपाय नमः । इति गंधाक्षतपुष्पैः पूजयेत् ॥

अथ गणपतिपूजनम् ॥ तत्रादौ ध्यानम् ॥ श्वेताङु श्वेतवस्त्रं सितकुसुमगणैः पूजितं श्वेतगन्धैः क्षीराब्धौ रत्नदीपैः सुरतरुविमले रत्न सिंहासनस्थम् ॥ दोर्भिः पाशाङ्‌कुशेष्टाभयधृतिविशदं चन्द्रमौलिं त्रिनेत्रं ध्यायेच्छांत्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम् ॥१॥

ॐ भूर्भुवःस्वः सिद्धिबुद्धिसहितमहागणपतये नमः ध्यायामि इति ध्यानम् ॥१॥

पुष्पाणादाय ॥ हेरंब त्वमेह्येहि अंबिकात्र्यंबकात्मज ॥ सिद्धिबुद्धिपते त्र्यक्षलक्षलाभपितुः पितः ॥१॥
नागास्य त्वं गणराज चतुर्भुज ॥ भूषितः स्वायुधैर्दिव्यैः पाशाङ्‌कुशपरश्वधैः ॥२॥
आवाहयामि पूजार्थ रक्षार्थ च मम क्रतोः ॥ इहागत्य गृहाण त्वं पूजां क्रतुं च रक्ष मे ॥३॥

ॐगणानान्त्वागणपतिर्ठ हवामहेप्रिवाणांत्वाप्रियपतिर्ठहवामहेनिधीनान्त्वानिधिपतिर्ठःहवामहेव्वसोमम ॥ जाहमजानिगर्मधमात्वमजासिगर्भधम् ॥१॥
ॐ भूर्भुवःस्व सिद्धिबुद्धि सहित महागणाधिपतये नमः ॥ गणपतिमावाहयामि स्थापयामि ॥ इत्यावाहनम् ॥२॥

N/A

References : N/A
Last Updated : May 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP