संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग १२

व्रतोद्यापन प्रयोगः - पूजा भाग १२

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


इति प्रार्थ्य । गोदानसांगतासिद्धयर्थ हिरण्यं दद्यात् ‍ ॥ देशकालौ स्मृत्वा ॥ ॐ अद्य कृतैतद्रोदानकर्मणः सांगतासिद्धयर्थमिदं हिरण्यमग्निदैवतमुकगोत्रायामुकशर्मणे ब्राह्यणाय दक्षिणात्वेन तुभ्यमहं संप्रददे । इति दत्वा । ॐ स्वस्तीतिप्रतिवचनानंतरम् ‍ । या देवी सर्वभूतानां या च विष्णुपदे स्थिता । धेनुरुपेण सा देवी मम पापं व्यपोहतु ॥१॥

इति प्रार्थयेत् ‍ ॥ अनेन गोदानेन श्रीपरमेश्वरः प्रीयताम् ‍ ॥ इति गोदानप्रयोगः ॥ अथ शय्यादानप्रयोगः ॥ तत्रादौ सारदारुम यीं दृढां दंतपत्रहेममपट्टिकाद्यैरलंकृतां हंसतूलीप्रतिच्छन्नां शुभगंडोपधादनकां प्रच्छादनपटीयुक्तां गंध धूपधिवासितां पुष्पतांबूलकुंकुमकर्पूरागुरुचंदनदीपोपानच्छत्रचरमरव्यजनासनसप्तधान्यघृतपूर्णकुंभस हितां शय्यामासाद्य तत्र स्वर्णमयीं लक्ष्मीनारायणप्रतिमां स्थापयेत् ‍ ॥ ततः स्वासने प्राङ्‍ःमुख उदड्‌मुखो वा उपविश्य । आचम्य प्राणानायम्य । गणेशादिदेवान्नत्वा । देशकाली संकीर्त्य अद्य कृतैतदमुकव्रतोद्यापनसांगतासिद्धये श्रीपरमेश्वरप्रीत्यर्थ शय्यादानं करिष्ये । तदंगत्वेन देय ब्राह्मणपूजनं लक्ष्मीनारायणपूजनं शय्यापूजनं च करिष्ये । इति संकल्प । ब्राह्मणस्य पादौ प्रक्षाल्य गंधपुष्पमालादिभिः संपूजयेत् ‍ । ततो देशकालौ स्मृत्वा । अद्य शय्यादानार्थममुकगोत्रममुकशर्माणं ब्राह्मणमेभिर्गधाक्षतपुष्पतांबूलवासोभिस्त्वामहं वृणे इति वृणुयात । ततः वृतोस्मीति प्रतिवचनानंतरं विप्रं शय्यायामुपवेश्य । ॐ सोपकरणशय्यायै नम इति शय्यां गंधादिभिः संपूज्य । ॐ नमः प्रमाण्य देव्यै शय्यायै इति नमस्कृत्य । तत्रैव ॐ लक्ष्मीनारायणाय नमः । इति सुवर्णप्रतिमायां लक्ष्मीनारायणं षोडशोपचारैः संपूज्य । नमस्कुर्यात् ‍ । ततो देशकालौ संकीर्त्य । अद्य कृतैतदमुक व्रतोद्यापनकर्मणः सांगतासिद्धिद्धारा श्रीपरमेश्वरप्रीत्यर्थमिमां शय्यां सोपस्करां लक्ष्मीनारायण प्रतिमायुतामंगिरोदैवतामकुकगोत्रायामुकशर्मणे ब्राह्मणाय सुखशयनार्थ तुभ्यमहं संप्रददे । इति सतिलाक्षतोदकं विप्रहस्ते दद्यात् ‍ । ततः ॐ स्वस्तीति प्रतिवचनानंतंरं दानप्रतिष्ठर्थ हिरण्यं जल कुशादीनि चादाय देशकालौ स्मृत्वा । अद्य कृतैतत्सोकरणशय्यादानकर्मणः प्रतिष्ठार्थमिदं हिरण्यग्रिदैवतममुकगोत्रायामुकशर्मणे ब्राह्मणाय दक्षिणात्वेन तुभ्यमहं संप्रददे । इति विप्रहस्ते दद्यात् ‍ । प्रतिग्रहीता ॐ स्वस्तीत्युक्त्वा शय्यां संस्पृशेत् ‍ । ततो दाता । ॐ यथा न कृष्णशयनं शून्यं सागरजातया । शय्या ममाप्यशून्यास्तु तथा जननिजन्मनि ॥१॥

इति प्रार्थ्यप्रणम्य विप्रं विसृजेत् ‍ ॥ इतिशय्यादानम् ‍ ॥ इतिश्रीबीकानेरराज्यान्तर्गतश्रीरत्नगढनिवासिना श्रीवसिष्ठगोत्रोद्धवश्रीरामकृष्णापौत्रेण श्रीकस्तूरीचंद्रात्मजेन पंडितगौडश्रीचतुर्थीलालशर्मणाविरचिते व्रतोद्यापनप्रकाशे सर्वव्रतोद्यापनोपयोगिपद्धतिकथनं नाम प्रथमं प्रकरण् ‍ ॥१॥

श्रीरस्तु ॥ अथ द्वितीयप्रकरणम् ‍ ॥ ॥ अथ चैत्रशुक्पलप्रतिपादारभ्य संवत्सरपर्य्यतोक्तव्रतोद्यापनानि लिख्यंते । तत्र तावत् ‍ चैत्रशुक्लप्रतिपदि आरोग्यप्रतिपद्‌व्रतोद्यापनम् ‍ ॥ विष्णुधर्मोत्तरे ॥ तत्र प्रयोगः ॥ संवत्सरावसाने पंचदश्यामुपवासं कृत्वा प्रतिपादि प्रातः स्नात्वा नित्यकर्म समाप्य । देशकालौ संकीर्त्य । ममात्मनः आयुरारोग्यादिप्राप्तिकामनया श्रीसूर्यनारायणप्रीत्यर्थम् ‍ आरोग्यप्रतिपदूवंत करिष्ये । इति संकल्प्य सुमुखश्वैकदंतेश्वेत्यादिस्मरणपूर्वकं श्रीगणेशं संपूज्य । पंचवर्णाविनिर्मिते पद्मे श्रीभास्करं सांगमावाह्य । ॐ भास्कराय नमः । इति श्वेतचंदनश्वेतपुष्पमाल्यैः कुंदुरुधूपेन घृतदीपेन च पायसाऽपूपदधिशर्करोदन घृतदुग्धादिभिश्वोपहारैर्नाफलतांबूलदक्षिणादिभिश्व षोडशोपचारैः संपूज्य । ब्राह्मणान्सतर्प्य । दिन चतुर्थभागे स्वयं सघृतमेकमेव ग्रासं भक्षयित्वा पानीयं पीत्वा अवशिष्टान्नं त्यजेत् ‍ । ततो ब्राह्मणा नुमत्या पुनः सघृतमन्नं भुंजीत पानीयपानं च कुर्यात् ‍ । एवं वर्षपर्यंतं प्रतिमासं शुक्लप्रतिपदि व्रतं कृत्वा त्रयोदशे मासे उद्यापनं कुर्यात् ‍ । तद्यथा देशकालौ संकीर्त्य ममायुरारोग्यादिप्राप्ति पूर्वकं श्रीसवितृसूर्यनारायणप्रीतये पूर्वाचरितस्यारोग्यप्रतिपदूव्रतस्योद्यापनं करिष्ये इतिसंकल्प्यगणपतिपूजनं पुण्याहवाचनमाचार्यादिवरणं च पूर्ववत्कृत्वा । सर्वतोभद्रमंडले ब्रह्मदिदेवान्संपूज्य । तत्रैव मडलमध्ये ॐ महीद्यौरित्यादिपूर्वोंक्तैर्मत्रैर्यथाविधिना ताम्रकलंश संस्थापयेत् ‍ । ततस्तदुपरि पंचवर्णवि निर्मिते पद्मे सौवर्णी सूर्यप्रतिमां प्रतिष्ठाप्य । ॐ आकृष्णेनरजसावर्तमानोनिवेशयन्नमृतंमर्त्यच । हिरण्ययेनसवितारथेनादेवोपातिभुवनानिपश्यन ॥१॥

ॐ भूर्भुवः स्वर्भगवन् ‍ सवितः सूर्य इहागच्छ इह तिष्ठ । इत्यावाह्य । मनोजूतिरिति प्रतिष्ठाय । ॐ सूर्यनारायणाय नमः । इति पुरुषसूक्तेन षोडशो पचारैः पूर्वोक्तपूजोपचारैश्च संपूजयेत् ‍ । ततः पायसादिसदन्नेन ब्राह्मणान् ‍ यथाशक्त्या संभोज्य व्रतपूर्तये आचार्याय सवत्सां धेनुं दद्यात् ‍ अन्यसर्व पूर्ववत् ‍ । इति चैत्रशुक्लप्रतिपद्यारोग्यप्रतिपह्रुतोद्याप नम् ‍ ॥ अस्यामेवोक्तं विद्याव्रतं मदनरन्ते विष्णुधर्मे ॥ तत्रप्रयोगः ॥ चैत्रशुक्लप्रतिपदि देशकालौ संकीर्त्य । ममात्मनः सांगविद्याप्राप्तिकामो ब्रह्मप्रीत्यर्थ विद्याव्रतं करिष्ये इतिसंकल्प्य पंचवर्णकै रचितेऽष्टपत्रके कमले मध्ये ॐ ब्रह्मजज्ञानं० ॐ भूर्भुवःस्वःब्रह्मणमावाह्यामि स्थापयामि ॥१।

इति ब्रह्माण्मावहयेत् ‍ । ततः पूर्वपत्रे ॐ अग्निमीळेपरोहितंयज्ञस्यदेवमृत्विजम् ‍ । होतारंरत्नधातमम ॐ भू० ऋग्वेदमावाह्यामि स्थाप० ॥२॥

दक्षिणपत्रे ॐ इषेत्वोर्जेत्वा० ॐ भूर्भुवःस्वःययुर्वेदमावाहयामि स्थापयामि ॥३॥

पश्चिमपत्रे ॐ अग्रऽआयाहिवीतये गृणानोहव्यदातये । निहोतासत्सिबर्हिषि ॐ भूर्भुवःस्वः सामवेदमावाह० ॥४॥

उत्तरपत्रे ॐ शन्नोदेवी० ॐ भुर्भुवःस्व अथर्वेदमावा० ॥५॥

आग्नेयपत्रे ॐ भू० वेदांगानि आवाहयामि स्थापयामि ॥६॥

निऋतिपत्रे ॐ भू० धर्मशास्त्राणि आवाह्यामि० ॥७॥

वायव्यपत्रे ॐ भू० अष्टादशपुराणानि आवाहयामि० ॥८॥

ऐशान्याम्‍ॐ भू० न्यायविस्तरानावाहयामि० ॥९॥ paan 45 b

एवमावाह्य । ॐ मनोजूतिरितिप्रतिष्ठाप्य । तत्तन्नाममंत्रेण षोडशोपचारैःपूजयेत् ‍ ।

ततो ब्राह्मणान् ‍ संभोज्य स्वयंमुपोषणं कुर्यात् ‍ । एवं द्वादशमासस्य शुल्कप्रतिपत्सु संवत्सर

द्वादशवत्सराणि वा कृत्वा अंते उद्यापनं कार्यम् ‍ । तत्र प्रयोगः । अंतिमव्रतदिने प्रातः

स्नात्वा नित्यकर्म समाप्य । देशकालौ स्मृत्वा ममात्मनः सांगविद्याप्राप्तिपूर्वकब्रह्मलोककामो

ब्रह्मप्रीत्यर्थमाचरिविद्याव्रतस्य उद्यापनं करिष्ये । इति संकल्प्य गणेशपूजनपुण्याहवाचनाचार्यवरणानिकृत्वा ।

सर्वतोभद्रमंडलमध्ये ताम्रकलशोपरि सौवर्ण ब्रह्माणं संस्थाप्य । ॐ ब्रह्मज्ञानं० ॐ भूर्भुवःस्वः

ब्रह्मणामावाहयामि स्थापयामि । इत्यावाह्य पुरुषसूक्तेन षोडसोपचारैः शुल्कगंधानुलेपनैर्भूषणैः पायसान्नेन

च संपूज्य । आचार्याय सवत्सां गां दत्त्वा पायसान्नेन ब्राह्मणान्भोजयित्वा स्वयमपि भुं जीत् ‍ ।

अन्यतसर्वं पूर्ववत् ‍ ॥ इति विद्याप्रतिपहतोद्यापनप्रयोगः ॥ आथाचारप्राप्तरोटकसोमवारव्रतोद्यापनम् ‍ ।

हेमाद्रौ शिवपुराणे ॥ तत्र प्रयोगः ॥ तच्च श्रावणशुल्कप्रतिपत्सोमवारयुता यदा तदा श्रावणे

प्रथमसोमवारे प्रारभ्य प्रत्यहं सार्धमासत्रयं कार्यम् ‍ ॥ तत्र देशकालौ संकीर्त्य ।

ममात्मनः सौभाग्य संपूर्णसंपत्तिप्राप्तिद्वारा श्रीसोमेश्वरप्रीत्यर्थ रोटकव्रतं करिष्ये । इति संकल्प ।

प्रत्यहं कार्तिकशुल्कचतुर्दशीपर्यत सोमेश्वरं सांबं कथाश्रवणपूर्वकं पंचामृतपुरःसरं नानापुष्पमाल्यादिभिर्बिल्वपत्रैश्व

षोडसोपचारैः संपूज्य कार्तिकशुल्कचतुर्दश्यामुपोष्य रात्रौ पंचामृतपुरःसरं नानापुष्पादिभिःसंपूज्य प्रातः

पुरुषाहारसंमितं रोटकपंचकं कृत्वा द्वौ ब्राह्मणाय एकं सोमेश्वराय चार्पयित्वा द्वौ स्वयं भुंजीत् ‍ ।

एवं पचवर्षपर्य्यतं कृत्वाऽन्ते वक्ष्यमाणोद्यापनाविधिना उद्यापनं कुर्यात् ‍ । तद्यथा देशकालो स्मृत्वा ममात्मनः

अतुलधनसौभाग्यसंपत्त्यादिवृद्धिद्वारा श्रीभवानीशंककप्रीतये पंचवर्षाचरितस्य रोटकव्रतस्य संपूणतासिद्धये तदुद्यापनं करिष्ये ।

इति संकल्प । तदंगत्वेन गणपतिपूजनं पुण्य़ाह वाचनमाचार्यादिवरणं च पूर्ववत्कुर्य्यात ॥ ततो वेद्यां लिंगतोभद्रमण्डलमध्ये

ताम्रकलशोपरि राज तं सांबं सोमेश्वर हेमरौप्यमयौ रोटकौ स्वर्णमयं बिल्वपत्रं च संस्थाप्य

पुरुषसूक्तेन नाममंत्रेण वा षोडसोपचारैः संपृज्य शालितंतडुलपिष्टेन पुरुषाहारमानतः रोटकान् ‍ निवेद्य ।

जंबीरनालिकेर्क्रमुक बीजपूरखर्जूरीद्राक्षादाडिमाऋतुकालोद्धवैनर्नानाफलैरर्घ्य दत्त्वा कर्पूरेण नीराज्य प्रदक्षिणात्रयं

दत्त्वा क्षमाप्य कथां श्रुत्वा आचार्य संपूज्य व्रतपूर्तये तस्मै सवत्सां धेनुं प्रतिमां च सांगां दत्त्वा पयासान्नेन विप्रान् ‍ भोजयेत् ‍ ।

अन्यत्सर्व पूर्ववत् ‍ । इति रोटकव्रतोद्यापनम् ‍ ॥ आश्विनशुल्कप्रतिपदि दौहित्रेण माता महश्राद्धं कार्यम् ‍ । तद्विधिस्तु मत्कृते

गौडीयश्राद्धप्रकाशे द्रष्टव्यः । अत्र प्रतिपदि एव नवरात्रारंभः कार्यः । तत्प्रकारो घटस्थापनादिप्रयोगश्व मत्कृतेऽनुष्ठानप्रकाशे ज्ञेयः ।

कार्तिकशुक्लप्रतिपदि अन्नकूटं गोवर्धनोत्सवं च कुर्यात् ‍ ॥ इति पण्डितगौडश्रीचतुर्थीलालविरचिते व्रतोद्यापनप्रकाशे प्रतिपह्रतोद्यापनानि ॥१॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP