संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ४

व्रतोद्यापन प्रयोगः - पूजा भाग ४

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही, म्हणून उद्यापनांच्या प्रयोगांचा संग्रह. व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते.


अवनिकृततजानुमंडलः कमलमुकुलसदृशमंजलिं शिरस्याधायानंतर दक्षिणेन पाणिना स्वर्णपूर्णकलशं धारयित्वा दीर्घानागानद्योगिरयस्त्रीणि विष्णुपदानि च ॥ ॐ त्रीणि पदाविचक्रमेव्विष्णुर्गोपाऽअदाभ्यः ॥ अतोधर्माणिधारयन् ॥१॥
तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमयुरस्त्विति भवंतो ब्रुवंतु ॥ इति यजमानः ॥

पुण्यं पुण्याहं दीर्घमायुरस्त्विति द्विजाः ॥ ( एवं सर्वत्र यजमानोत्तरं ब्राह्मणाः प्रतिवचनं दद्युः ) ब्राह्मणानां हस्ते सुप्रेक्षितमस्तु । ॐ शिवा आपः संतु इतिजलं दद्यात् । संतु शिवा आपः । इति प्रतिवचनम् ॥ ॐ सौमनस्यमस्तु इति पुष्पम् ॥ अस्तु सौमनस्यम् ॥ ॐ अक्षतं चारिष्टं चास्तु इत्यक्षतान् । अस्त्वक्षतमरिष्टं च । ॐ गंधाः पांतु । इति गंधम् । सौमंगल्यं चास्तु । ॐ अक्षताः पांतु । आयुष्यमस्तु ॥ ॐ पुष्पाणि पांतु ॥ सोश्रियमस्तु ॥ ॐ तांबूलानि पांतु ऐश्वर्यमस्तु । ॐ दक्षिणाः पांतु बहुधनमस्तु ॥ पुनरत्राः पांतु स्वर्चितमस्तु इति विप्रा ब्रूयुः ततो यजमानः  आचार्यादीन्प्रणम्य श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं चायुष्य्म चास्त्विति भवंतो ब्रुवंतु ॥ इति वदेत् । ते च श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं चायुष्यं चास्त्वित्युक्ता दीर्घमायुः शांतिः पुष्टि स्तुष्टिश्वस्त्विति यजमानं मूर्धन्यभिषिंचेयुः ॥ यं कृत्वा सर्ववेदयज्ञ क्रियाकर्णकर्मारंभाः शोभनाः प्रवर्तते तमहर्मोकारादिं कृत्वा ऋग्ययुःसामाशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्धिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये । ॐ वाच्यताम् । ततो ब्राह्मणानां हस्तेष्वक्षतान्दद्यात्ते चाशिषो दद्युः ॥ ॐ भद्रङ्‌कर्णेभिःश्रृणुयामदेवाभद्दुम्पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङैस्तुष्टुवा सस्तनूभिर्व्यशेमहिदेवहितयं दायुः ॥१॥
देवानांभद्दूसुमतिऋजूयतान्देवानां रातिरभिनोनिवर्तताम् ॥ देवाना संख्यमुपसे दिमाव्वयन्देवानऽआयुःप्प्रतिरन्तुजीवसे ॥२॥
नतद्दूक्षा सिनपिशाचास्तरन्तिदेवानामोजः प्रथमजर्ठह्येतत् ॥ योबिभर्तिदाक्षायणठः हिरण्यर्ठः सदेवेषुकृणुतेदीर्घमायुः  समनुष्येषुकृणुतेदीर्घ मायुः ॥३॥
दीर्घायूस्तऽओषधेरवनितायस्मैचत्वारवनाम्यहम् ॥ अथोत्वन्दीर्घोयुर्भूत्वाशतवल्शा व्विरोहतात् ॥४॥
द्रविणोदाद्रविणसस्तुरस्यद्रविणोदाः सरनरस्यप्रियंसत् ॥ द्रविणोदावीरव तीमिशन्नोद्रविणोदारासतेदीर्घमायुः ॥५॥
सवितापश्वात्तात्सविता० ॥६॥
नवोनवोभवति जायमानो० ॥७॥
उच्चादिविदक्षिणावन्तो ॥८॥
इत्याशीर्वादः ॥

व्रतजपनियम तपस्स्वाध्यायक्रतुदयादमदानविशिष्टानां सर्वेषां ब्राह्मणानां मनः समाधीयताम् ॥ इति यजमानः ॥
समाहितमनसः स्म इति द्विजः ॥ प्रसीदंतु भवंतः इति यजमानो ब्रूयात् ॥ प्रसन्नाःस्मः इति द्विजा ब्रूयुः ॥ ततो यजमानो ब्रूयात् ॥ ॐ शांतिरस्तू ॥ (अस्त्विति द्विजाः प्रतिवचनं सर्वत्र दद्युः ) ॐ पुष्टिरस्तु । ॐ तुष्टिरस्तु । ॐ वृद्धिरस्तु । ॐ अविघ्रमस्तु । आयुष्यमस्तु । ॐ आरोग्यमस्तु । ॐ शिवं कर्मास्तु । ॐ कर्मसमृद्धिरस्तु । ॐ वेदसमृद्धिरस्तु । ॐ शास्त्रसमृद्धिरस्तु ॥ ॐ धनधान्यसमृद्धिरस्तु । ॐ पुत्रपौत्रसमृद्धिरस्तु । ॐ इष्टसम्पदस्तु । ॐ अरिष्टनिरसनमस्तु । ॐ यत्पापं यद्रोगं नः अशुभम् । अकल्याणं तद्दूरे प्रतिअहतमस्तु  । ॐ यच्छ्रेयस्तदस्तु । ॐ उत्तरे कर्मणि निर्विघ्रमस्तु । ॐ उतरोत्तर महरहरभिवृद्धिरस्तु ॥ ॐ उत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यंताम् ॥ ॐ तिथिकरण मुहूर्तनक्षत्रलग्रसंपदस्तु ॥ अथोदकसेकः ॥ (पात्रद्वयमग्रेधृत्वाप्रथमे) ॐ तिथिकरणमुहूर्त नक्षत्रग्रहलग्राधिदेवताः प्रीयंताम् ॥ ॐ तिथिकरणे समुहूर्ते सनक्षत्रे सग्रहे साधिदेवते प्रीयेताम् ॥ ॐ दुर्गापांचाल्यौ प्रियेताम् ॥ ॐ अग्निपुरोगा विश्वेदेवाः प्रींयताम् ॥ ॐ इंद्रपुरोगा मत्रद्धणाः प्रीयंताम् । ॐ माहेश्वरीपुरोगा उमामातरः प्रीयंताम् ॥ ॐ अरुंधतीपुरोगा एकपत्न्यः प्रीयंताम् ॥ ॐ विष्णु पुरोगाः सर्वे देवाः प्रीयंताम् ॥ ॐ ब्रह्मपुरोगाः सर्वे वेदाः प्रीयंताम् ॥ ॐ ब्रह्म च ब्राह्मणाश्व प्रीयंताम् ॥ ॐ श्रीसरस्वत्यौ प्रीयेताम् ॥ ॐ श्रद्धामेधे प्रीयेताम् ॥ ॐ भगवती कात्यायनी प्रीयताम् ॥ ॐ भगवती माहेश्वरी प्रीयताम् ॥ भगवती ऋद्धिकरी प्रीतयाम् ॥ ॐ भगवती सिद्धिकरी प्रीयताम् ॥ ॐ भगवती पुष्टिकरी प्रीयताम् ॥ ॐ भगवती तुष्टिकरी प्रीयताम् ॥ ॐ भगवंतौ विघ्रविना यकौ प्रीयेताम् ॥ ॐ सर्वाः कुलदेवताह प्रीयेताम् ॥ ॐ सर्वा ग्रामदेवताः प्रीयंताम् ॥ द्वितीये ॐ हत्राश्व ब्रह्मद्विषः । ॐ हताश्व परिपंथिनः । ॐ हताश्व विघ्रकर्तरः । ॐ शत्रवः पराभवं यांतु । ॐ शाम्युंत घोराणि ॥ ॐ शाम्यंतु पापानि । ॐ शाम्यंत्वीतयः ॥(पुनः प्रथमे) ॐ शुभानि वर्द्धताम् । शिवा आपः संतु ॥ ॐ शिवा ऋतवः संतु । ॐ शिवा ओषधयः संतु । ॐ शिवा नद्यः संतु । ॐ शिवा गिरयः संतु । ॐ शिवा अतिथयः संतु । ॐ शिवा आग्रयः संतु । ॐ शिवा आहुतयः संतु । ॐ अहोरात्रे शिवेस्याताम् ॥ ॐ निकामेनिकामेनः पर्ज्जन्योव्वर्षतुफलवत्योनऽओषधयः पच्यंतांयोगक्षेमोनः कल्पताम् ॥१॥

ॐ शुकांगारकबुधबृहस्पतिशनैश्वरराहुकेतुसोमसहिता आदित्य पुरोगाः सर्वेग्रहाः प्रीयंताम् । ॐ भगवान्नारायणः प्रीयताम् । ॐ भगवान् पर्जन्यः प्रीयताम् । ॐ भगवान् स्वामीमहासेनः प्रीयताम् ॥ ॐ पुण्याहकालान् वाचयिष्ये । इति यजमानः ॥ ॐ वाच्यतामिति प्रतिवचनम् । ब्राह्यं पुण्यं महद्यच्च सृष्टयुत्पादनकारकम् ॥ वेदवृक्षोद्धव नित्यं तत्पुण्याहं ब्रुवंतु नः ॥१॥

भो ब्राह्मणाः मया क्रियमाणस्यामुकव्रतोद्यापनाख्यकर्मणः पुण्याहं भवंतो ब्रुवंतु । ॐ पुण्याहम् ३ एवं त्रिः प्रतिवचनं पठित्वा । ॐ पुनंतु मा देवगजनाः पुनंतु मनसा धियः ॥ पुनंतु विश्वाभूतानि जातवेदः पुनीहिमा ॥१॥
पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम् ॥ ऋषिभिः सिद्धगंधर्वैस्तत्कल्याणं ब्रुवंतुनः ॥२॥
भो ब्राह्मणाः मया क्रियमाणस्यामुकव्रतो द्यापनकर्पणः कल्याणं भवंतो ब्रुवंतु ॥ ॐ कल्याणम्  ॥३॥

ॐ यथेमाँव्वाचङ्‌कल्याणीमावदानि जनेभ्यः ब्रह्मराजन्याभ्या शूद्राचार्याचस्वायचारणायच ॥ प्प्रियोदेवानांदक्षिणायैदातुरिहभूयासमयम्मेकामः समृध्यतामुपपमादोनमतु ॥१॥
सागरस्य यथा वृद्धिर्महालक्ष्यादिभिः कृता ॥ संपूर्णा सुप्रभावा च तां च ऋद्धिं ब्रुवंतु नः ॥२॥
भो ब्राह्मणाः मया क्रियमाणस्याऽमुकव्रतोद्या पनकर्मणः ऋद्धिं भवंतो ब्रुवंतु ॐ ऋध्यताम् ॥३॥

ॐ सत्रस्यऽऋद्धिरस्यगन्मज्योतिममृताऽअभूम् ॥ दिवस्पृथिव्याऽअध्यारुहामाविदामाविदामदेवान्त्स्वर्ज्योतिः ॥१॥
स्वस्तिस्तुयाविनाशाख्य पुण्यकल्याणवृद्धिदा ॥ विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवंतु नः ॥२॥
भो ब्राह्मणाः मया क्रियमाणस्यामुकव्रतोद्यापनकर्मणः स्वस्तिं भवंतो ब्रुवंतु ॥ ॐ स्वस्ति ३। ॐ स्वस्तिनऽइन्द्रो वृद्ध श्रवाः स्वस्तिनः पूषाविष्ववेदाः ॥ स्वस्तिनस्तार्क्ष्योऽअरिष्टनेमिः स्वस्तिनोबृहस्पतिर्दधातु ॥३॥

समुद्रमथनाज्जाता जगदानंदकारिका ॥ हरिप्रिया च मांगल्या तां श्रियं च ब्रुवंतु नः १। भो ब्राह्मणाः मया क्रियमाणस्यामुकव्रतोद्यापनकर्मणः श्रीरस्त्विति भवंतो ब्रुवंतु ॥ ॐ अस्तु श्रीः ३। ॐ श्रीश्वते लक्ष्मीश्वपन्त्यावहोरात्रेपार्श्वेनक्षत्राणिरुपमाश्विनौ व्यात्तम् ॥ इष्णन्निषाणामुम्मऽइषाणसर्वलोकम्मऽइषाण ॥१॥
अस्मिन्पुण्याहवाचने न्यूनातिरिक्तो यो विधिः स उपविष्टब्राह्मणानां वचनात् श्रीमहागणपतिप्रसादाच्च सर्वः परिपूर्णोऽस्तु । ॐ अस्तु परिपूर्ण इति विप्राः (अथाभिषेकः) । एकस्मिन्पात्रे कलशोदकं गृहीत्वा । अविधुराश्वत्वारो ब्राह्मणा कूर्वामपल्लवैर्यजमानस भिषिंचेयुः ॥ तत्रःमंत्रा ॥ ॐ पयः पृथिव्यां० ॥१॥
पंचनद्यः०॥२॥
वरुणस्योत्तं०॥३॥
पुनंतुमा०॥४॥
स्य त्वा सवितुः प्प्रसवेश्विनोर्बाहुश्वाम्पूष्णोहस्ताभ्याम् ॥ सरस्वत्यैव्वाचोयन्तुर्यत्रियेदधामिबृहस्पतेष्टासाम्राज्येनाभिषिञ्चाभ्यसौ ॥५॥
देवस्य त्वा सवितुः प्प्रसवेश्वनोर्बाहुबुभ्याम्पूष्णोहस्ताभ्यां सरस्वत्यैव्वाचोयन्तुर्यन्त्रेणाग्रेः साम्राज्येनाभिषिञ्चामि ॥६॥
देवस्य त्वा० अश्विनौभैषज्येन ॥ तेजसा ब्रह्मव्वर्च्चसायाभिषिञ्चामि सरस्वत्यैभैषज्येनवीर्यायान्नाद्यायाभिषिञ्चामीन्द्रस्येन्दियेण ॥ बलायश्रियैयशसेभिषिंचामि ॥७॥
विश्वानिदेव० ॥८॥
धामच्छदग्रिरिन्द्रो ब्रह्मदेवी बृहस्प पंतिः ॥ सचेतसोविश्वेदेवायज्ञम्प्रावन्तुनः शुभे ॥९॥
त्वँयविष्ठदाशुषोनृँ: पाहि श्रृणुधीगिरः ॥ रक्षातोकमुतत्मना ॥१०॥
अन्नपतेन्नस्यनोधेह्यनमीवस्यशुष्मिणः ॥ प्रप्प्रदातारन्तारिषऽऊर्ज्जन्नो धेहिद्विपदेशंचतुष्पदे ॥११॥
ॐ द्यौः शांतिरन्त ० ॥१२॥
यतोयतः समीयतः समीहसे०॥१३॥
अमृताभिषेकोस्तु शांतिः शांतिः शांतिः सुशांतिर्भवतु ॥ अनेन पुण्याहवाचनेन अमुकदेवता प्रीयताम् ॥ इति पुण्याहवाचनम् ॥

N/A

References : N/A
Last Updated : May 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP