संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ६

व्रतोद्यापन प्रयोगः - पूजा भाग ६

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही, म्हणून उद्यापनांच्या प्रयोगांचा संग्रह. व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते.


अथाधिदेवतादिस्थपानम् ॥
सूर्यस्य दक्षिणापार्श्वे । ॐ त्र्यंबकंयजामहेसु गंधिम्पुष्टिवर्द्धनम् ॥ उर्ब्बारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात् ॥ ॐ भूर्भुवः स्वः ईश्वर इहा०। ॐ ईश्वराय नमः ॥१॥
सोमदक्षिणपार्श्वे । ॐ श्रीश्वतेलक्ष्मीश्व० ॥ ॐ भू० उभे इहा० उमायै नमः॥२॥
भौमदक्षिणपार्श्वे । ॐ यदक्रन्दःप्रथमञ्जायमानऽउद्यन्तसमुद्रादुतवापुरीषात् ॥ श्येनस्यपक्षाहरिणस्यबाहूऽउपस्तुत्यम्महिजानन्तेऽअर्वन् ॥ ॐ भू० स्कंदाय नमः ॥३॥
बुधदक्षिणापार्श्वे ॐ विष्णोरराटमसिव्विष्णोःश्रप्त्रेस्थोव्विष्णोस्यूरसिव्विष्णोःर्ध्रुवोसि ॥ वैष्णवमसिव्विष्णवेत्वा ॥ ॐ भू० विष्णो इहा० विष्णवे नमः ॥४॥
गुरुदक्षिणापार्श्वे । ब्रह्मयज्ञानम्प्रमथ्मम्पुर स्ताद्विसीमतः सुरुचोव्वेनआवःसबुध्न्याऽउपमाऽअस्याविष्ठाःसतश्वयोनिमसतश्वव्विवः ॥ ॐ भू० ब्रह्मन्निहा० औ ब्रह्मणेनम्ह ॥५॥
शुक्रदक्षिणपार्श्वे ॐ सजोषाऽइन्द्र सगणो मरुद्धिः सोमम्पिब व्रुत्रहा शूरव्विद्वान् ॥ जहिशत्रुर्ठःरपमृधोनुदस्वाथाभयङ्‌कृणुहिव्विश्वतोनः  । ॐ भू० इंद्र इहा० ॐ इंद्राय नमः ॥६॥  
शनिदक्षिणपार्श्वे ॐ यमायत्वाङिरस्वतेपितृतेस्वाहा स्वाहाघर्मायस्वहाघर्मः पित्रे । ॐ भू० यम इहा० ॐ यमायनमः ॥७॥
रोहोर्दक्षिणपार्श्वे । ॐ कार्षिरसिसमुद्रस्यत्वाक्षित्याऽउन्नयामिसमापोऽअद्धिरग्मतसमोषधीभिरोषधीः । ॐ भू० काल इहा० ॐ कालायनमः ॥८॥
केतुदक्षिणपार्श्वे ॐ चित्राव्वसो स्वस्तितेपारमशीय । ॐ भू० चित्रगुप्त इहा० ॐ चित्रगुप्ताय नमः ॥९॥
इत्यधिदेवताः ॥

अथप्रत्यधिदेवतास्थापनम् ॥ सूर्यस्य वामपार्श्वे । ॐ अग्निंदूतंपुरोदधेह व्व्यवाहमुपब्रुवे देवां २ ऽआसादयादिह । ॐ भू० ॐ अग्रे इहा० अग्रये नमः ॥१॥
सोम वामपार्श्वे । ॐ आपोहिष्टामयोभुवस्तानऽउर्ज्जेदधातन । महेरणयचक्षसे । ॐ भू० आप इहागच्छत इहतिष्ठतः । ॐ अद्धयोनमः ॥२॥
भौमवामपार्श्वे । ॐ स्योनापृथिविनोभवानृक्षरानिवेशनी । यच्छानः शर्म्मसप्रथाः । ॐ भू० पृथिवि इहा० ॐ पृथिव्यै नमः ॥३॥
बुधवामपार्श्वे । ॐ इदं म्विष्णुर्विचकमे त्रेधानिदधेपदम् ॥ समूढमस्यपार्ठसुरेस्वाहा । ॐ भू० विष्णो इहा० । ॐ विष्णवे नमः ॥४॥
गुरुवामपार्श्वे । ॐ त्रातारमिन्द्रमवितारमिद्रर्ठ० हवेहवेसुहवर्ठ० शूरमिन्द्रम् ॥ ह्रयामि शक्रम्पुरुहूतामिन्द्रर्ठ० स्वस्तिनोमघवाधात्विन्द्रः ॥ ॐ भू० इन्द्र इहा० ॐ इन्द्रायनमः ॥५॥
शुक्रवामपार्श्वे । ॐ अदित्यैरास्त्रासीन्द्राण्याऽउष्णीष पूषासिधर्मायदीष्व । ॐ भू० इंद्राणि इहा० ॐ इन्द्राण्यै नमः ॥६॥
शनिवामपार्श्वे । ॐ प्रजापतेनत्ववतान्ययोविश्वारुपाणिपरिताबभूव । यत्कामास्तेजुहुमस्तन्नोऽअस्तुव्वयर्ठ० स्यामपतयोरयीणाम् ॥ ॐ भू० प्रजापते इहा० ॐ प्रजापतये नमः ॥७॥
राहुवामपार्श्वे ॐ नमोस्तुसर्पेभ्योयेकेचपृथिवीमनु । येऽअन्तरिक्षेयेदिवितेभ्यः सर्पेभ्यो नमः । ॐ भू० सर्पा इहा० ॐ सर्पभ्यो नमः ॥८॥
केतुवामपार्श्वे । ॐ ब्रह्म यज्ञानं ० ॐ भूर्भुवः स्वः ब्रह्मन्निहा० ॐ ब्राह्मणे नमः ॥९॥
इति प्रत्यधिदेवताः ॥

अथ पंचलोकपालस्थापनम् ॥ राहोरुत्त रतः । ॐ गणानान्त्वा ० ॐ भू० गणपते इहा० ॐ गणपतये नमः ॥१॥
शनेरुत्तरतः । ॐ अंबेअंबिकेंबालिकेनमनयतिकश्वन ॥ ससस्त्यश्वकः सुभद्रिकांकाम्पीलवासिनीम् ॥ ॐ भू० दुर्गे इहा० ॐ दुर्गायै नमः ॥२॥
रवेरुत्तरथ ॐ आनोनियुद्धिःशतिनीभिरध्वरर्ठ० सहस्त्रिणीभिरुपयाहियज्ञम् वायोऽअस्मिन्स=त्सवनेमादयस्वयूयम्पातःस्वस्तिभिःसदानः । ॐ भू० वायो इअहा० । ॐ वायवेनमः ॥३॥
राहोर्दक्षिणे ॥ ॐ घृतंघृतपावानः पिबतव्वसाम्बसापानः पिबतान्तरिक्षस्यहविरसिस्वाहादिशः प्रदिशाअदिशीविदिशउद्दिशोदिग्भ्यः स्वाहा । ॐ भू० आकाश इहा० ॐ आकाशाय नमः ॥४॥
केतोर्दक्षिणे ॥ ॐ यावाङ्‌कशामधुमत्यश्विनासूनृतावतीतया यज्ञम्मिमिक्षताम् ॥ ॐ भू० अश्विनौ इहागच्छतम् इह तिष्ठतम् ॥ ॐ अशिव्भ्यां नमः ॥५॥
अथ प्रागदितः पीठसमंता द्दिक्पालानावाहयेत् ॥ पूर्वे ॥ ॐ त्रातारमिन्द्रमवितार मिन्द्रर्ठः हवेहवेसुहवर्ठःशूरमिद्रम् ॥ ह्रया मिशक्रम्पुरुहूतमिन्द्रर्ठ स्वस्तिनोमघवाधात्विन्द्रः ॥ ॐ भू० इंद्र इहा० ॐ इद्राय नमः ॥१॥
आग्नेय्याम् ॥ ॐ त्वन्नोऽनेतवायुभिर्मघोनोरक्षतनश्ववन्द्य ॥ त्रातातोकस्यतनयेगवामस्यानिमेषर्ठरक्ष माणस्तव व्रते ॥ ॐ भू० अग्ने इहा० ॐ अग्रये नमः ॥२॥
दक्षिणे ॥ ॐ यमायत्वांगिरस्वतेपितृम तेस्वाहा स्वाहाघर्माय स्वाहा घर्मःपित्रे ॥ ॐ भू० यम इहा० ॐ यमाय नमः ॥३॥
नैऋत्याम् ॥ॐ असुन्वन्तमयजमानामिच्छस्तेनस्येत्यामन्विहितस्करस्य ॥ अन्यमस्मदिच्छसातइत्यानमोदेविनि ऋतेतुभ्यमस्तु ॥ ॐ निऋते इहा ० निऋतये नमः ॥४॥
पश्चिमे ॥ ॐ तत्तवायामिब्रह्मणाव्वन्दमा नस्तदाशास्तेयजमानोहविर्भिः ॥ अर्हडमानोव्वरुणेहबोध्युरुशर्ठःसमानऽआयुःप्रमोषीः ॥ ॐ भू० वरुण इहा० ॐ वरुणाय नमः ॥५॥
अथ प्रागदितः पीठसमंता द्दिक्पालानावाहयेत् ॥ पूर्वे ॥ ॐ त्रातारमिन्द्रमवितार मिन्द्रर्ठः हवेहवेसुहवर्ठःशूरमिन्द्रम् ॥ ह्रया मिशक्रम्पुरुहूतमिन्द्रर्ठः स्वस्तिनोमघवाधात्विन्द्रः ॥ ॐ भू० इंद्र इहा० ॐ इंद्राय नमः ॥१॥
आग्नेय्याम् ॥ ॐ त्वन्नोऽग्नेतववायुभिर्मघोनोरक्षतनश्ववन्द्य ॥ त्रातातोकस्यतनयेगवमस्यनिमेषर्ठःरक्षमाणस्तव व्रते ॥ ॐ भू० अग्ने इहा० अग्रये नमः ॥२॥
दक्षिणे ॥ ॐ यमायत्वांगिरस्वतेपितृम तेस्वाहा स्वाहाघर्माय स्वाहा घर्मःपित्रे ॥ ॐ भू० यम इहा० ॐ यमाय नमः ॥३॥
नैऋत्याम् ॥ ॐ असुन्वन्तमयजमानामिच्छनस्येत्यामन्विहिततस्करस्य ॥ अन्यमस्मदिच्छसातइत्यानमोदेविनि ऋतेतुभ्यमस्तु ॥ ॐ निऋते इहा० निऋतये नमः ॥४॥
पश्चिमे ॥ ॐ तत्त्वायामिब्रह्मणाव्वन्दमा नस्तदाशास्तेयजमानोहविर्भिः ॥ अहेडमानोव्वरुणेहबोध्युरुशर्ठसमानऽआयुःप्रमोषीः ॥ ॐ भू० वरुण इहा० ॐ वरुणाय नमः ॥५॥
वायव्याम् ॐ आनोनियुद्धिः शतिनीभिरध्वरर्ठः सहस्त्रिणीभि रुपयाहियज्ञम् ॥ वायोऽअस्मिन्त्सवनेमादयस्वयूयंपातस्वस्तिभिः सदानः ॥ ॐ भू० वायो इहा० ॐ वायवे नमः ॥६॥
उत्तरे ॥ ॐ वयर्ठः सोमव्रतेतवमनस्तनूषुबिभ्रतः ॥ प्रजावन्तःसचेमहि ॥ ॐ भू० कुबेर इहा कुबेराय नमः ॥७॥
ईशान्याम् ॥ ॐ तमीशानञ्चगतस्तस्थुषस्पतिन्धिय ञ्जिन्वमवसेहूमहेव्वयम् ॥ पूषाणोयथाव्वेदसामदृधे रक्षितापायुरदब्धः स्वस्तये । ॐ भू० ईश्वर इहा० ईश्वराय नमः ॥८॥
पूर्वेशानयोर्मध्ये ऊर्ध्वायाम् ॥ ॐ अस्मेरुद्रामेहनापर्व्वतासोवृत्रहत्येभरहूतौसजोषाः ॥ यःशर्ठःसतेस्तुवतेधायिपज्रडंद्रज्येष्ठाऽअस्माँ२ऽअवन्तुदेवाह ॥ ॐ भू० ब्रह्मन्निहा ॐ ब्रह्मणे नमः ॥९॥
निऋतिपश्वियोर्मध्ये अधस्थायाम् ॐ स्योनापृथिविनोभवानृक्ष रानिरेषनी ॥ यच्छानः शर्मसप्रथाः ॐ भू० अनंत इहा० ॐ अमंताय नमः ॥१०॥

एवं क्रतुसंरक्षक देवतास्थापोनं कृत्वा ॐ मनोजूतिर्जुषतामाज्यस्यबृहस्पतिर्य्यज्ञमिमन्तनोत्वरिष्टंयज्ञर्ठसमिमंदधातु ॥ विश्वेदेवासऽइहमादयंतामो ३ प्रतिष्ठ ॥१॥
ॐ आदित्यदिग्रहमंडलदेवताभ्यो नमः सुप्रतिष्ठिता वरदा भवत् । इति प्रतिष्ठाप्य । देशकालौ स्मृत्वा । इह सकलशांतिपूर्वकं सकलदुरितोपशमनद्वारा पंचलोकपालानां दशदिक्पालानां च पूजनं करिष्ये । इति संकल्मयेत् ॥ ततः ॐ ग्रहाऽऊर्ज्जाहुतोव्व्यन्तोव्विमायमतिंतेषाव्विशिप्प्रियाणाम्व्वोहमिषमूर्ज्जर्ठसमग्रभमुपयाम् गृही तोसीन्द्रा यत्वाजुष्टङुह्राम्येषतेषोनिरिन्द्रायत्वाजुष्ठतमम् ॥१॥
ॐ भूर्भुवः स्वः सूर्यादिग्रहे भ्यो नमः ॥ ॐ रुद्राद्यधिदेवताभ्योः नम ॥ ॐ अग्र्यादिप्रत्यधिदेवताभ्यो नमः ॥ ॐ विनायकादि पंचकोकपालेभ्यो नमः । ॐ इंद्रादिदशदिग्पालेभ्यो नमः इति नाममंत्रैः प्रत्येकं तत्तद्वर्णयुक्तगंध पुष्पधूपदीप(वक्ष्यप्राण) नैवेद्यतांबूलदक्षिणादिभिः संपूजयेत् । नैवेद्यं तु वेदीसमीपे भूमौ दद्यात् । तद्यथा । सूर्याय गुडौदनम् । सोमाय घृतपायसम् ॥ भौमाय मसूरान्नम् ॥ बुधाय क्षीरोदनम् ॥ गुरुवे दध्योदनम् । शुक्राय घृतौदनम् । शनैश्वराय तिलपिष्टम् ॥ राहवे तिलमाषान्नम् । केतवे चित्रौदनम् । अन्येभ्यः पायसं च सर्वेभ्यो वा पायसं समर्प्य क्षमापयेत् ॥ अनया पूजया आदित्यादिग्र हमंडलदेवताः प्रीयंतामिति पठेत् ॥ ततस्तदीशान्यां ग्रहसंबधिरुद्रकलशम् । ॐ महीद्यौरित्यादिमंत्रैः पूर्व वत्संस्थाप्य तत्र तत्त्वामीतिवरुणमावाह्य संपूज्य कलशस्य मुखेविष्णुरित्यभिमंत्र्य । देवदानव संवादे० इत्यादिप्रार्थयेत् । ततस्तदुपरि ॥ ॐ असंख्यतासहस्त्रणियेरुद्राऽअधिभूम्याम् । तेषार्ठसहस्त्र योजनेवधन्वानितन्मसि ॐ भूर्भुवः स्वः रुद्रा इहागच्छतेहतिष्ठत । ॐ रुद्रेभ्योनमः ॥ इति षोडशो पचारैः पूजयेत् ॥ इति नवग्रहमंडलपूजनम् ॥ अथसर्वव्रतोद्यापनोपयोगि सर्वतोभद्रमण्डलदेवावतापू जापद्धतिह ॥ आचम्य प्रानानायम्य देशकालौस्मृत्वा ॥ अमुकव्रतोद्यापनकर्मणि एतत्सर्वतोभद्रमण्डले वेदमंत्रैर्ब्रह्मादिदेवतावाहनं प्रतिष्ठा पूजनं च करिष्ये ॥ इति संकल्पं कृत्वा पुष्पाक्षतानादाय । मध्ये ब्रह्मणमावाहयेत् ॥ तत्रमंत्र्ह ॐ ब्रह्म यज्ञान प्रथमम्पुरस्ताद्विसीमतःसुरुच्व्वेनऽआवः ॥ सबुध्न्याऽउपमाऽअस्य विष्ठाःसतश्वयोनिमसतश्वव्विवः ॥ ॐ भूर्भुवःस्वर्ब्रह्म न्निहागच्छ इह तिष्ठ । ॐ ब्रह्मणे नमः ॥१॥
उत्तरे सोमम् । ॐ वयर्ठः सोमव्रतेतवमनस्तनूषुबिश्वतःप्रजावन्तः सचेमहि ॥ ॐ भू० सोम इहा० । ॐ सोमाय नमः ॥२॥
ऐशान्यामीशानम् । ॐ तमीशानंजगतस्तस्थुपस्पतिन्वियञ्जिन्वम सेहूमहेव्वयम् ॥ पूषानो यथावेद सामसदूवृधेरक्षितापायुरदब्धः स्वस्तये ॥ ॐ भू० ईशान इहा० । ॐ ईशानाय नमः ॥३॥
पूर्वस्यां दिशि इंद्रम् । ॐ त्रातारमिन्द्रवितारमिन्द्रर्ठहवेहवेसुहवर्ठशूरमिन्द्रम् ॥ ह्यामिशक्रम्पुरुहूतमिन्द्रर्ठ० स्वस्तिनोमघवाधात्विंन्द्र्ह ॥ ॐ भू० इद्रं इहा० । ॐ इंद्राय नमः ॥४॥
आग्नेय्यामग्निम् । ॐ त्वन्नोऽअग्नेव्वरुणस्यविद्वान्देवस्यहेडोऽअवयासिसीष्ठाः ॥ यजिष्ठोवह्रितमः शोशुचानोव्विश्वद्वेषा र्ठःसिप्रमुमुग्ध्यस्मत् ॥ ॐ भू० अग्ने इहा। ॐ अग्नये नमः ॥५॥
दक्षिणे यमम् । ॐ सुगन्नः पंथाम्प्रदिशन्नऽएहिज्योतिष्मध्येह्यजरन्नऽआयुः अपैतुमृत्युरमृतमंऽआगाद्वैवस्वतोनोऽअभयंकृणोतु ॥ ॐभूः० यम इहा०। ॐ यमाय नमः ॥६॥
नैऋत्यांनिऋतिम् ॥ ॐ असुन्न्बन्तमयजमानमिच्छस्तेन स्येत्यामन्विहितस्करस्य ॥ अन्न्यमस्मदिचसातऽइत्यानमोदेविनैऋतेतुभ्यमस्तु ॥ ॐ भू० निऋते इहा० । ॐ निऋतये नमः ॥७॥
प्रश्विमे वरुणम् ॥ ॐ तत्त्वायामिब्रह्मणाव्वंदमानस्तदाशास्तेय जनामोहविर्भिः ॥ अहेडमानोव्वरुणेहबोध्युरुशर्ठः समानऽआयुः प्रमोषीः ॥ ॐ भू०वरुण इहा०। ॐ वरुणाहि नमः ॥८॥
वायव्यां वायुम् । ॐ आनोनियुद्धिःशतिनीभिरध्वरर्ठः सहस्त्रिणीभिरुपया हियज्ञम् ॥ व्वायोऽस्मिन्त्सवनेमादयस्वयूयम्पातस्वस्तिभिः सदानः ॥ ॐ भू० वायो इहा० । ॐ वायवे नमः ॥९॥
वायुसोमयोर्मध्ये अष्टवसून् ॥ ॐ व्वसोः पवित्रमसिशतधारंवसोः पवित्र मसिसह्स्त्रधारम् ॥ देवस्त्वसवितापुनातुव्वसोः पवित्रेणशतधारेणसुप्वाकामधुक्षः ॥ ॐ भू० अष्टौ वसव इहागच्छंतु इह तिष्ठंतु । ॐ वसुभ्यो नमः ॥१०॥
सोमेशानयोर्मध्ये एकादशरुद्रान् ॥ ॐ नमस्तेरुद्रमन्यवऽउतोतऽइषवे नमः ॥ बाहुभ्यामुतते नमः॥ ॐ भू० एकादशरुद्रा इहा० । ॐ रुद्रेभ्यो नमः ॥११॥
ईशानपूर्वयार्मध्ये द्वादशादित्यान् ॥ ॐ अदितिघौरदितिरन्तरिक्षमदितिर्म्मा तासापितासपुत्रः ॥ विश्वेदेवाऽअदितिः पञ्चजनाऽअदितिर्ज्जामदितिर्ज्जनित्वम् ॥ ॐ भू० द्वादिशादि त्या इहा० । ॐ आदित्येभ्यो नमः ॥१२॥
इंद्राग्र्योर्भध्येऽश्विनौ । ॐ अश्विनातेजसाचक्षुः प्राणेन सरस्वतीवीर्यम् ॥ वाचेन्द्रोबलेन्द्रायदधुरिन्द्रियम् ॥ ॐ भू० अश्विनौ इहागच्छतमिहतिष्ठतम् ॥ ॐ अश्विभ्यां नमः ॥१३॥
अग्रियमयोर्मध्ये विश्वेदेवान्सपितृन ॥ ॐ विश्वेदेवास ऽआगतश्रुणुतामऽइमर्ठः हवम् ॥ एदंबर्हिर्निषीदत ॥ ॐ भू० विश्वेदेवा इहा० ॐ विश्वेभ्यो देवेभ्यो नमः ॥१४॥
तत्रैव । ॐ आयन्तुनःपितरः सोम्यासोग्निष्वात्ताः पथिभिर्देवयानैः ॥ अस्मिन्यज्ञे स्वधयामदन्तोधिब्रुवन्तुतेवन्त्वस्मान् ॥ ॐ भू० पितर इहा० । ॐ पितृभ्यो नमः ॥१५॥
यमनि ऋत्योर्मध्ये यक्षान् ॥ ॐ  अभित्यंदेवर्ठः सवितारमोण्योः कृविक्रतुमर्च्चामिसत्यसर्ठ० रत्नधा मभिप्रियम्मतिङ्कविम् ॥ ऊर्ध्वायस्यामतिर्भाऽदिधुतत्सवीमनिहिरण्यपाणिरमिमीतसुक्रतः कृपा स्वः ॥ प्रजाभ्यस्त्वाप्रस्त्वानुप्प्राणन्तुप्रजास्त्वामनुप्राणिहि । ॐ भूः० यक्षा इहा०। ॐ यक्षेभ्यो नमः ॥१६॥
निऋतिवरुणयोर्मध्ये भूतनागान् ॥ ॐ भूतायत्वानारातयेस्वरभिविख्येषंदृर्ठ० हन्तान्दुर्य्याः पृथिव्यामुर्व्वन्तरिक्षमन्न्वेमिपृथिव्यास्त्वानाभौसादयाम्यदित्याऽउपस्त्थेग्रेह व्यर्ठःरक्ष ॥ ॐ भू० भूतानि इहा० । ॐ भूतेभ्यो नमः ॥१७॥
तत्रैव सर्पान् । ॐ नमोस्तुसर्वेभ्योयेके चपृथिवीमनु । येऽअन्तरिक्षेयेदिवितेभ्यः सर्प्येभ्यो नमः । ॐ भू० सर्पा इहा०। ॐ सर्पेभ्यो नमः ॥१९८॥
वरुणवाय्वोर्मध्ये गन्धर्वाप्सरसः । ॐ गन्धर्वस्त्वाविश्वावसुः परिदधातु व्विश्वस्यारिष्ट्यैयजमान स्यपरिधिरस्यग्रिरिडऽईडितः ॥ इंद्रस्यबाहुरसिदक्षिणोव्विश्वस्यारिष्टयै यजमानस्यपरिधिर स्याग्रिरिडऽईडितः ॥ मित्राव्वरुणौत्वोत्तरतः परिधत्तां ध्रुवेणधर्म्मणा व्विश्वस्यरिष्ट्यैयजमानस्य पारिधिरस्यग्निरिडऽईडितः ॥ ॐ भू० गंधर्वा इहा० । ॐ गंधर्वेभ्यो नमः ॥१९॥
तत्रैवाप्सरसः । ॐ अयम्पुरोहरिकेशः सूर्य्यरश्मिस्तस्यरथगृत्सश्वर थौजाश्वसेनानिग्रामण्यौ ॥ पुंजिकस्त्थला चक्रतुस्थला चाप्सरसौ दंक्ष्णवः पश्वोहेतिः पौरुषेयोवधः प्रहेतिस्तेभ्योनमोऽअस्तुतेनोवन्तुतेनोमृडयन्तुतेयंद्विष्मोयश्वनोद्वेष्टितमेषाञ्जम्भेदध्मः । ॐ भू० अप्सरस इहागच्छत इह तिष्ठत । ॐ अप्सरोभ्यो नमः ॥२०॥
ब्रह्मसोमयोर्मध्ये० स्कंदं नंदीश्वरं शूल्म महाकालं च । ॐ यदक्रन्दः प्रथम ञ्जायमानऽउद्यत्सुमुद्रादुतवापुरीषात् ॥ श्येनस्यपक्षाहरिणस्यबाहूऽउपस्तुत्यं महिजातंतेऽअर्व्वन् ॥ ॐ भू० स्कंद इहा० ॐ स्कंदाय नमः ॥२१॥
तदुत्तरे० । ॐ आशुःशिशानोव्वृषभोनभीमोघनाघनः क्षोभणश्वर्षणीनाम् । संक्रेंदनोमिषऽएकव्वीरः शतर्ठः सेनाऽअजयत्साकमिन्द्र्ह ॥ ॐ भू० नंदीश्वर इहा० । ॐ नंदीश्वराय नमः ॥२२॥
तत्रैव । ॐ कार्षिरसिसमुद्रस्यत्वाक्षित्याऽउन्नयामिसमपोऽपद्धिरग्मतसमोषधीः ॥ ॐ भू० शूलमहाकालौ इहागच्छतमिह तिष्ठतम् । ॐ शूलमहाकालाभ्यां नमः ॥२३॥
ब्रह्मेशानयोर्मध्ये दक्षादिप्रजापतीन् । ॐ प्रजापतेनत्वदेतान्न्यन्न्योव्विश्वारुपाणिपरिताबभूव ॥ यत्कामास्तेजहुमस्तन्नोऽअस्तुव्वयर्ठ० स्यामपतयोरयीणाम् ॥ ॐ भू० प्रजापतय इह गच्छंतु इह तिष्ठंतु । ॐ प्रजापतिभ्यो नमः ॥२४॥
ब्रह्रेंद्रयोर्मध्ये दुर्गाम् । ॐ अम्बेऽअम्बिकेअम्बालि केनमानयतिकश्वन ॥ ससस्त्यश्वकः सुभद्रिकांकाम्पीलवासिनीम् ॥ ॐ भू० दुर्गे इहा० । ॐ दुर्गायै नमः ॥२५॥
दुर्गापूर्वे विष्णुम् । ॐ इदम्विष्णुर्विचक्रमेत्रेधानिदधेपदम् ॥ समूढमस्यपा सुरे स्वाहा ॥ ॐ भू० विष्णो इहा० ॐ विष्णवे नमः ॥२६॥
ब्रह्मग्न्योर्मध्ये पितृन् । ॐ उदीर तामवरऽउत्परासऽन्मध्यमाः पितरः सोम्यासः ॥ असुंयऽईयुरवृकाऽऋतज्ञआस्तेनोवंतुपितरोहवेषु ॥ ॐ भू० पितर इहा०। ॐ पितृभ्यो नमः ॥२७॥
ब्रह्मयमयोर्मध्ये मृत्युरोगान् । ॐ पं मृत्योऽअ नुपरेहिपंथायस्ते अन्यइतरोदेवानात् ॥ चक्षुष्मणेश्रृण्वतेते ब्रवीमिमानः प्रजा रीरिषोमोतवीरान् ॥ ॐ भू० मृत्युरोगी इहा० ॐ मृत्युरोगेभ्यो नमः ॥२८॥
ब्रह्मनिऋत्योर्मध्ये गण्पतिम् । ॐ गणानात्वा० ॐ भू० गणपते इहा० । ॐ गणपतये नमः ॥२९॥
ब्रह्मवरुणयोर्मध्ये अपः । ॐ अपोऽअद्यान्वचारिषर्ठः रसेनसमसृक्ष्महि ॥ पयस्वानग्रऽआगमेन्तम्मासर्ठःसृजवर्च्चसाप्रजयाचधनेनच ॥ ॐ भू० आप इहा० । ॐ अदूभ्यो नमः ॥३०॥
ब्रह्मवायुमध्ये मरुतः ॥ ॐ बृहदिन्द्रायगाय तमरुतोवृत्रहंतमम् ॥ येनज्योतिरजनन्नृतावृधोदेवंदेवयजागृवि ॥ ॐ भू० मरुत इहा० । ॐ मरुद्‌भ्यो नमः ॥३१॥
ब्राह्मणः पादमूले पृथिवीम् । ॐ महीद्यौ पृथिवीवचनऽइमंयज्ञम्मिमिक्षताम् ॥ पिपृतान्नोभरीमभिः ॥ ॐ भू० पृथिवी इहा०। ॐ पृथिव्यै नमः ॥३२॥
तत्रैव गङादि सरितः । ॐ इमम्मे गंगेयमुनेसरस्वतिशुतुद्रिस्तोमंस्त्ततापरुष्णिया ॥ या ऽअसिक्रियाम रुद्दृधे वितस्तयार्जीकीयेश्रृणुह्यसुषोमया ॥ ॐ भू० गंगादिसप्तसरित इहा० । ॐ गंगादिसरिद्धयो नमः ॥३३॥
तत्रैव सप्तसागरान् ॥ ॐ आपोमौषधीर्हिर्ठसिधाम्रो धाम्रोराजँस्ततोव्वरुणनो मुञ्च ॥ यदाहुरघ्न्याऽइति व्वरुणोतिशपामहेत तोव्वरुणनोमुञ्च । ॐ भू० सप्तसागरेभ्यो नमः ॥३४॥
तदुपरि मेरुं नाममंत्रेणावाहयेत । ॐ भूर्भुवः० मेरो इहा० ॐ मेरवे नमः ॥३५॥
ततोमण्डलाद्धहिः सोमादिसन्निधौ क्रमेण आयुधानि स्थापयेत्  । उत्तरे गदामावाह्यामि स्थापयामि ॐ भूर्भुवःस्वः गदे इहा०। ॐ गदायै नमः ॥३६॥
ईशान्याम् । त्रिशूलमा० । ॐ त्रिशूलाय नमः ॥३७॥
पूर्वे वज्रमावा० ॐ वज्रायः नमः ॥३८॥
आग्नेय्याम् । शक्तिमा० ॐ शक्तये नमः ॥३९॥
दक्षिणस्याम् । दंडमा० ॐ दंडाय नमः ॥४०॥
नैऋत्यां खङुमां० ॐ खङायनमः ॥४१॥
पश्चिमे । पाशमावा० ॐ पाशाय नमः ॥४२॥
वायव्याम् ॥ अंकुशमा० ॐ अंकुशाय नमः ॥४३॥
तद्वाह्ये । उत्तरे ॐ गौतमाय नमः ॥४४॥
ईशान्याम् । ॐ भारद्वाजाय नमः ॥४५॥
पूर्वे । ॐ विश्वामित्राय नमः ॥४६॥
आग्नेय्याम् । ॐ कश्यपाय नमः ॥४७॥
दक्षिणे । ॐ जमदग्नये । नमः ॥४८॥
नैऋत्याम् । ॐ वशिष्ठाय नमः ॥४९॥
पश्चिमे । ॐ अत्रये नमः ॥५०॥
वायव्याम् । ॐ अरुंधत्यै नमः ॥५१॥
तद्वाह्ये । पूर्वादिक्रमेण पूर्वे ॐ ऐन्द्रयै नमः ॥५२॥
आग्नेय्याम् । ॐ कौमार्य्यै नमः ॥५३॥
दक्षिणस्याम् । ॐ ब्राह्यै नमः ॥५४॥
नैऋत्याम् । ॐ बाराह्यै नमः ॥५५॥
पश्विमायाम् । ॐ चामुण्डायै नमः ॥५६॥
वायव्याम् । ॐ वैष्णघ्यै नमः ॥५७॥
उत्तरस्याम् ॥ ॐ माहेश्वर्य्यै नमः ॥५८॥
ईशान्याम् । ॐ वैनायक्यै नमः ॥५९॥
इत्यावाह्य ।

N/A

References : N/A
Last Updated : May 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP