संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ३

व्रतोद्यापन प्रयोगः - पूजा भाग ३

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही, म्हणून उद्यापनांच्या प्रयोगांचा संग्रह. व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते.


ॐ रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम् ॥ आसनं च मया दत्तं गृहाण गणनायक ॥ ॐ भूर्भुवःस्वः सिद्धिबुद्धिसहितमहागणाधिपतये नमः आसनं समर्पयामि ॥३॥
इत्यासनम् ॥ ॐ भू० महागणाधिपतये नमः पाद्यं समर्पयामि इति पाद्यम् ॥४॥
(एवं सर्वत्र ज्ञेयम) ॐ ताम्रपात्रे स्थितं तोयं गंधपुष्पफलान्वितम् ॥ सहिरण्यं ददाम्यर्घे गृहाण गणगायक ॥ इत्यर्घम् ॥५॥
सर्वतीर्घसमायुक्तं सुगंधि निर्मलं जलम् ॥ आचमनार्थ मया दत्तं गृहाण परमेश्वर ॥ इत्याचमनम् ॥६॥
कावेरी नर्मदा वेणी तुंगभद्रा सरस्वती ॥ गंगा च यमुनाऽऽसांवाः स्नानार्थ प्रतिगृह्यताम् ॥ इतिस्नानम् ॥७॥
पयोदधि घृतं चैव मधु च शर्करायुतम् ॥ पंचामृतं स्नानार्थें प्रतिगृह्यताम् ॥ इति पंचा मृतस्त्रानम् ॥८॥
पुनः शुद्धोदकस्त्रानं समर्पयामि ॥ ॐ सर्वभूषाधिके सौम्ये लोक लज्जानिवारणे ॥ मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम् ॥ इतिवस्त्रयुग्मम् ॥९॥
ॐ नवभि स्तंतुभिर्युक्तं त्रिगुणं देवतामयम् ॥ उपवीतं मया दत्तं गृहाण परमेश्वर ॥ इतियज्ञोपवीतम् ॥१०॥
पुनराचमनं च ॥ ॐ श्रीखण्डं चंदनं दिव्यं केशरादिसमन्वितम् ॥ विलेपनं सुरश्रेष्ठ चंदनं प्रतिगृह्यताम् ॥ इति चंदनम् ॥११॥
ॐ अक्षताश्व सुरश्रेष्ठ कुंकुमाक्ताः शशोभिताः ॥ मया निवेदिता भक्त्या गृहाणा परमेश्वर ॥ इत्यक्षतान् ॥१२॥
ॐ सुमाल्यानि सुगंधीनि मालत्यादीनि वै प्रभो ॥ मयाहतानि पूजार्थं पुष्पाणिप्रतिगृह्यताम् ॥ इति पुष्पाणि ॥१३॥
ॐ दूर्वाकुरान्सुहरितानमृतान्मङुलप्रदान् ॥ आनीतांस्तव पूजार्थ गृहाण गणनायक ॥ इतिदूर्वांकुरान् ॥१४॥
ॐ वनस्पतिसोद्धूतो गंधाढ्यो गंध उत्तमः ॥ आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम् ॥ इतिधूपम् ॥१५॥
ॐ साज्यं च वर्त्तिसंयुक्तं वह्रिना योजितं मया ॥ दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥ इति दीपम् ॥१६॥
ॐ शर्कराघृतसं युक्तं मधुरं स्वादु चोत्तमम् ॥ उपहारसमायुक्तं नैवेद्यं प्रतिगृह्यताम् ॥ इति नैवेद्यम् ॥१७॥
ॐ शीतलं निर्मलं तोयं कर्पूरेण समन्वितम् ॥ आचभ्यतां सुरश्रेष्ठ मया दत्तं हि भक्तितः ॥ इत्याचमनीयम् ॥१८॥
ॐ इदं फलं मया देव स्थापितं पुरतस्तव ॥ तेन मे सफलाऽऽवाप्तिर्भवेज्जन्मनिजन्मनि ॥ इति ऋतुफलम् ॥१९॥
ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम ॥ कर्पूरैलासमायुक्तं तांबूलं प्रतिगुह्यताम् ॥ इति तांबूलम् ॥२०॥
ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ॥ अनन्तपुण्यफलदमतः शांति प्रयच्छ मे ॥ इति दक्षिणाम् ॥२१॥
ॐ कदली गर्भसंभूतं कर्पूरं च प्रदीपितम् ॥ आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥ इति नीराजनम् ॥२२॥
ॐ नानासुगंध पुष्पाणि यथाकालोद्धवानि च ॥ पुष्पांजलिं मया दत्तं गृहाण गणगायक ॥ इति पुष्पांजलिम् ॥२३॥
ॐ यानिकानि च पापानि ज्ञाताज्ञातकृतानि च ॥ तानि सर्वाणि नश्यंति प्रदक्षिणपदे पदे ॥ इति प्रदक्षिणात्रयम् ॥२४॥

अथ विशेषार्घः ॥ रक्षरक्ष गणाध्यक्ष रक्ष त्रैलोक्य रक्षक ॥ भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥१॥
द्वैमातुरुकृपासिंधो षाण्मातुराग्रज प्रभो वरद त्वं वरं देहि वांछितं वांछितार्थद ॥२॥
गृहाणार्घ्यमिदं देव सर्वदेवनमस्कृत ॥ अनेन सफलार्घ्येण फलदोस्तु सदा मम ॥३॥
ॐ सिद्धिबुद्धिसहितमहागणपतये नमः विशेषार्घ समर्पयामि ॥ इति विशेषार्घः ॥

अथ प्रार्थना ॥ विघ्रेश्वराय वरदाय सुरप्रियाय लंबोदराय सकलाय जगद्धिताय ॥ नागाननाय श्रृतियज्ञविभूषिताय गौरीसुताय गणनाथ नमोनमस्ते ॥१॥
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ॥ विद्याधराय विकटाय च वा मनाय भक्तप्रसन्नवरदाय नमोनमस्ते ॥२॥
इति प्रार्थना ॥

अनया पूजया सिद्धिबुद्धि सहित श्रीमहागणपतिः सांगः सपरिवार्ह प्रीयताम् ॥ इति गणपतिपूजनम् ॥ अथ स्वस्ति पुण्याहवाचनम् ॥ तत्रादौ कलशस्थापनम् ॥ महीद्यौरिति भूमिं स्पष्ट्रा ॥ ॐ महीद्यौः पृथिवी च न इमं यज्ञम्मिमिक्षताम् ॥ पिपृतान्नोभरीमभिः ॥१॥
ओषधयः समितियवान्क्षिप्त्वा ॥ ॐ ओषधयः समवदन्त सोमेन सह राज्ञा ॥ यस्मै कृणोति ब्राह्मणस्तर्ठःराजन्पारयामसि ॥२॥
आजिघ्रेतिकलशं स्थापयेत् ॐ आजिघ्रकलशम्मह्यात्वा व्विशन्त्विन्दवः ॥ पुन रुर्जानिवर्तस्वसानः सहस्त्रन्धुक्ष्वोरुधारापयस्वतीपुनर्म्माव्विशताद्रयिः ॥३॥
व्वरुणस्योत्तंभ नमिति जलं पूरयेत् ॥ ॐ व्वरुणस्योत्तम्मनमसिव्वरुणस्यस्कंभसर्ज्जनीस्थो व्वरुणस्यऽऋतसदन्न्यसि ॥ व्वरुणस्यऽऋतसदनमसिव्वरुणस्यऽऋतसदनमासीद ॥४॥
त्वांगंधर्वा इति गंधं प्रक्षिपेत् ॥ ॐ त्वांगन्धर्वाऽअखनस्त्वामिंद्रस्त्वां बृहस्पतिः ॥ त्वामोषधेसोमोराजा विद्वान्यक्ष्मा दमुच्यत ॥५॥
याऽओषधीरिति सर्वौषधीः ॥ ॐ याऽओषधीः पूर्वाजातादेवेभ्यस्त्रियुगम्पुरा ॥ मनैनुबभ्रूणामहर्ठशतन्धामानिसतच ॥६॥
काण्डात्काण्डादिति दूर्वाः ॥ ॐ काण्डात्काण्डा त्प्ररोहन्तीपुरुषः परुषस्परि ॥ एवानोदूर्वेप्रतनुसहस्त्रेणशतेनच ॥७॥
अश्वत्थेवेति पंचपल्लवान् ॥ ॐ अश्वत्थेवोनिषदनम्पर्णेवोव्वतिष्कृता ॥ गोभाजऽइत्किलासथयत्सनवथपूरुषम् ॥८॥
स्योनापृथिवीतिसप्तमृदः ॥ ॐ स्योनापृथिविनोभवानृक्षरानिवेशनी ॥ यच्छानः शर्म्मसप्रथाः ॥९॥
याः फलिनीरितिपूगीफलम् ॥ ॐ याः फलिनीर्याऽअफलाऽअपुष्पायाश्वपुष्पिणीः ॥ बृहस्पतिप्रसूता स्तानोमुञ्चन्त्वर्ठहसः ॥१०॥
परिवाजपतिरिति पंचरत्नानि ॥ ॐ परिवाजपतिः कविरग्निर्हव्यान्यक्रमीत् ॥ दधद्दूत्नानिदाशुषे ॥११॥
हिरण्यगर्भेति हिरण्यम् ॥ ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकऽआसीत ॥ सदाधारपृथिवींद्यामुतेमाङ्‌कस्मै देवाय हविषा विधेम ॥१२॥
युवासुवासा इति रक्तवस्त्रेण वेष्टयेत् ॥ ॐ युवासुवासाः परिवीतऽआगात्सऽउश्रेयान्भवतिजाय मानः ॥ तंधीरासः कवयऽउन्नयन्तिसाध्योमनसादेवयन्तः ॥१३॥
पूर्णादर्वीति पूर्णपात्रमुपरि न्यसेत् ॥ ॐ पूर्णदर्विपरापतसुपूर्णापुनरापत ॥ वस्नेव्वविक्रिणावहा‍इषमूर्ज्जर्ठः शतक्रतो ॥१४॥
तत्त्वायामीति वरुणमावाह्य ॥ ॐ तत्त्वायामि ब्रह्मणाव्वन्दमानस्तदाशास्तेयजमानोहविर्भिः ॥ अहेडमानोवरुणेहबोध्यरुशर्ठसमानऽआयुः प्रमोषीः ॥१५॥
ॐ वरुणं सांगं सपरिवारमावा हयामि । ॐ भूर्भुवः स्वः अपापतिवरुणाय नमः इति गंधादिभिः संपूजयेत् । ततः ॐ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ॥ आयांतु यजमानस्य दुरितक्षयकारकाः ॥ इति तीर्थान्यावाह्य ॥

कलशस्य मुखे विष्णुरित्यादिना ॥ कलशाभिमंत्रणं कृत्वा ॥ देवदानवसंवादे इति प्रार्थ्य। ॐ पाशपाणे नमस्तुभ्यं पद्मिनीजीवनायक ॥ पुण्याहवाचनं यावत्तावत्त्वं सन्निधौभव ॥१॥
इति वरुणं प्रणमेत् ॥ इति कलशस्थापनम् ॥

N/A

References : N/A
Last Updated : May 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP