संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ५

व्रतोद्यापन प्रयोगः - पूजा भाग ५

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही, म्हणून उद्यापनांच्या प्रयोगांचा संग्रह. व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते.


अथ मातृकापूजन ॥
(पीठे अक्षतपुंजेषु वा गौर्यादि मातृका निवेश्याः) तद्यथा । ॐ गणेशाय नमः गणेशमावाहयामि ॥१॥

ॐ गौर्यै नमः गौरीमावा ह्यामि ॥१॥
ॐ पद्मायै नमः पद्मामाहयामि ॥२॥
ॐ शच्यै नमः शचीमावाहयामि ॥३॥
ॐ मेधायै नमः मेधा० ॥४॥
ॐ सावित्र्यै नमः सावित्रीम्०॥५॥
ॐ विजयायै नमः विजयाम्०॥६॥
ॐ जयायै नमः जया०॥७॥
ॐ देवसेनायै नमः देवसेना०॥८॥
ॐ स्वधायै नमः स्वधा०॥९॥
ॐ स्वाहायै नमः स्वाहा० ॥१०॥
ॐ मातृभ्योनमः मातृरावाहयामि ॥११॥
ॐ लोकमातृभ्यो नमः लोकमातृरावाहयामि ॥१२॥
ॐ ह्रष्टयै नमः ह्रष्टि० ॥१३॥
ॐ पुष्टयै नः पुष्टिमावा०॥१४॥
ॐ तुष्ट्यै नमः तुष्टिमावाह० ॥१५॥
ॐ कुलदेवतायै नमः कुलदेवतामावाहयामि ॥१६॥
इत्यावाह्य ।

ॐ मनोजूतिर्जुषतामाज्यस्यबृहस्पतिर्यज्ञमिमन्तनी त्वरिष्टंयज्ञर्ठसमिमंदधातु ॥ विश्वेदेवासऽएहमादयन्तामो ३ म्प्रतिष्ठ ॥१॥
इतिप्रतिष्ठाप्य । ॐ गौर्य्या दिषोडशमातृकाभ्यो नमः । इतिनाममंत्रेणषोडशोपचारैः संपूजयेत् ॥ ततः कुड्ये आवाहितमातृणा मुपरि घृतेन कुंकुमाक्तेन दक्षिणोत्तराः सप्त पंच तिस्त्रो वा धारा दयात् ॥ ॐ व्वसोः पवित्रमसिशत धारं वसोः पवित्रमासिसहस्त्रधारं देवस्त्वा पुनातु ॥ व्वसोः पवित्रेण शतधारेण सुष्वाकामधुक्षः ॥१॥

अथ घृतमातृकानामानि ॥
श्रीश्व लक्ष्मीर्धृतिर्मेधा पुष्टिःश्रद्धा सरस्वती ॥ मांगल्येषु प्रपूज्यंते सप्तैता घृतमातरः ॥१॥
ॐ श्रियै नमः श्रियमावाहयामि ॥१॥
ॐ लक्ष्म्यै नमः लक्ष्मीमा वाह्यामि ॥२॥
ॐ धृत्यै नमः धृतिमावा० ॥३॥
ॐ मेधायै नमः मेधामा०॥४॥
ॐ पुष्टयै नमः पुष्टिमावा०॥५॥
ॐ श्रद्धायै नमः श्रद्धामा०॥६॥
ॐ सरस्वत्यै नमः सरस्वतीमावाहयामि ॥७॥

इत्यावाह्य ॥ ॐ घृतमातृकाभ्यो नमः । इति षोडशोपचारैः संपूजयेत् ॥

अथायुष्यम् ॥ ॐ आयुष्यंवर्चस्यर्ठरायस्पोषमौद्धिदम् ॥ इदर्ठहिरण्यम्वर्चस्वज्जैत्रायाविशतादुमाम् ॥१॥
नतद्रक्षार्ठः सि न पिशाजास्तरन्तिदेवानामोजः प्रथमर्ठःह्येतत् ॥ योबिभर्तिदाक्षायणर्ठः हिरण्यर्ठः सदेवेषुरुणुतेदीर्घमायुः समनुष्येकृणुतेदीर्घमायुः ॥२॥
यदाबध्नंदाक्षायणाहिरण्यर्ठःशतानीकायसुमनस्यामानाः ॥ तन्मऽआबघ्नामिशतशारदायायुष्माञ्जदष्टिर्यथासम् ॥३॥
इतिमातृकापूजनम् ॥ततो नांदीश्राद्धं कुर्यात् ॥(तत्प्रयोगस्तु मत्कृतशांतिप्रकाशादिषु द्रष्टव्यः ) ॥ अथाचार्यादिवरणमू ॥ यजमानः आचार्यस्य जान्वालभ्य । देशकालौ संकीर्त्यामुकगोत्रोऽमुकशर्माहमकुमव्रतोद्या पनकर्मणि विहितकर्मकर्तुममुकगोत्रममुकशर्माणं ब्राह्मणमे भिर्गधाक्षततांबूलद्रिकावासोभिराचार्यत्वेनत्वामहं वृणे । इति वृत्वा वृतोस्मीति प्रतिवचनानंतरं गंधादिभिः संपूज्य । आचार्यस्तु यथा स्वर्गे शक्रदीनां बृहस्पतिः ॥ तथा त्वं मप यज्ञेस्मिन्नाचार्यो भव सुव्रत ॥१॥
इति प्रार्थयेत् ॥

ततो ब्रह्मवरणम् ॥ देशकालौ संकीर्त्य० अमुकगोत्रोऽमुकशर्माअमुकव्रतोपनकर्मणि विहितकर्मकर्तुमकुकगोत्रममुकशर्मांण ब्राह्मणमेभिर्गधाक्षततांबूलमुद्रिकावासोभिर्ब्रह्यत्वेन त्वामहंवृणे । वृतोस्मीति प्रतिवचनानंतरं गंधपुष्पैः संपूज्य ॥ यथा चतुर्मुखो ब्रह्या सर्वलोकपितामहः । तथा त्वं मम यज्ञेस्मिन्ब्रह्मा भव द्विजोत्तम ॥१॥
इतिप्रार्थयेत् ॥

तथ ऋत्विजश्वतुरो द्वौ वा वृणुयात् । देशकालौ संकीर्त्य अमुकव्रतोद्यापनकर्मणि विहितकर्मकर्तुममुकगोत्रममुकशर्मांण ब्राह्मणमेभिर्गंधाक्षततांबूलमुद्रिकावासोभिऋत्विक्तेन त्वामह्म वृणे ॥ वृतोस्मीति प्रतिवचनानंतरं गन्ध पुष्पा दिभिः संपूज्य ॥ भगवन्सर्वकर्मज्ञ सर्वधर्मभृतांवर ॥ वितते मम यज्ञेस्मिन्नृत्विक्त्वं भव सुव्रत ॥ इति प्रार्थयेत् ॥ ततो यथाचारं सर्वेषां मधुपर्कपूजां कृत्वा ॥ अस्य यागस्य निष्पत्तौ भवंतोभ्यर्थि तामया ॥ सुप्रसन्नैश्व कर्तव्यं कर्मेदं विधिपूर्वकम् ॥ इति प्रार्थयेत् ॥ इत्याचार्यादिवरणप्रयोगः ॥ अथाचार्यकर्म आचम्य । प्राणानायम्य । देशकालौ स्मृत्वा । अस्मिन्नमुकव्रतोद्यापनकर्मणि यजमानेन वृतोहमाचार्यकर्म करिष्ये । इति संकल्प शरीरशुद्धयर्थ सहस्त्रशीर्षेति पुरुषसूक्तन्यासं कुर्यात् षोडशंर्च वा जपेत् ॥ तत आचार्यों गौरसर्षपलाजान् गृहीत्वा दिग्रक्षणं कुर्यात् ॥ तत्र मंत्राः ॥ ॐरक्षोहणम्वल गहनम्व्वैष्णवीमिदहन्तम्बलगमुत्किररामि यम्मे निष्टयोयममात्यो निचखानेदमहन्तम्व्व लगमुत्किरामियम्मेसमानोयम समानो निचखानेदमहन्तम्व्वलगमुत्किरामियम्मेसबन्धुर्य्यमसबंधुर्निच खानेदमहन्तम्व्वलगमुत्किरामियम्मेसजातोयमसजातो निचखानोत्कृत्याङि‌करामि ॥१॥
रक्षोहणोवो व्वलगहनःप्रोक्षामिवैष्णवान्रक्षोहणोवोव्वलगहनोवनयामि वैष्णवान्रक्षोहणो वोव्वगहनो वस्तृणा मिवैष्णवान्रक्षोहरणौवांव्वलगहनाऽउपदधामि व्वैष्णवीरक्षोहणौवांव्वलगदनौपर्यूहामि वैष्णवीवैष्ण वमसिवैष्णवास्थ ॥२॥
रक्षसाम्भागोसिनिरस्तर्ठरक्षऽइदमहर्ठरक्षोभितिष्टामीदमहर्ठरक्षोवबाधऽइदमहर्ठःरक्षोधमन्तमोनयामि । घृतेनद्यावापृथिवीप्रोर्णुवाथांव्वायोव्वेस्तोकानामग्रिराज्यस्यव्वे तुस्वाहा स्वाहाकृतेऽऊर्ध्वनभसंमारुतङुच्छतम् ॥३॥
रक्षोहा व्विश्वचर्षणिरभियोनियमोहते द्रोणे सधस्धमासदत् ॥४॥
अपसर्पन्तु ये भूता ये भूता भूमिसंस्थिताः ॥ ये भूता विघ्नकर्तारस्ते नश्यंतु शिवाज्ञया ॥५॥
अपक्रामन्तु भूतानि पिशाचाः सर्वता दिशम् ॥ सर्वेषामवरोधेन शुभकर्म समारभे ॥६॥
यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः ॥ स्थानं त्यक्त्वा तु तत्संर्व यत्रस्थं तत्र गच्छतु ॥७॥

इति मंत्रैरीशानादिप्रदक्षिणक्रमेण सर्वदिक्षु विकीर्य । ॐ देवा आयांतु यातुधाना अपयांतु विष्णो देव यजनं रक्षस्वेति रक्षां कुर्यात् ॥ उदकस्पर्शः ॥ ततो यथाविधिना पंचगव्यं कृत्वा ॥ ॐ आपोहिष्ठा मयोभुवरिति त्रिभिर्मंत्रैः कर्मभूमिं संभारांश्व प्रोक्ष्य भूमिपूजनं कुर्यात् ॥ॐ भूरसिभूमिरस्य दितिरसि व्विश्वधाया व्विश्वस्य भुवननस्य धर्त्री ॥ पृथिवीं यच्छमृथिवींदृर्ठहपृथिवीम्माहिर्ठसीः ॥१॥

ॐ भूर्भुवः स्वः पृथिवीकूर्मा नंतदेवताभ्यो नमः । इति गन्धादिभिः संपूज्याकृतांजलिः ॐ स्वस्तिनऽइन्द्रोवृद्धश्रवाःस्वस्तिनःपूषाव्विश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्योऽअरिष्टनेमिःस्वस्तिनोबृहस्पतिर्द्धातु ॥१॥
इति मंत्रं पठेत् ॥

अथाग्निस्थापनम् ॥ तद्यथा-हस्तमात्रपरिमिते चतुरंगुलोच्छ्रिते तुषकेशशर्करा दिरहिते चतुरस्त्रे वा वर्तुले स्थंडिले भूमिं कुशैः परिसमुह्य तान्कुशानैशान्यां परित्यज्य गोमयदकेनोप लिप्य स्त्रुवमूलेनप्रागग्रप्रादेशमात्रामुत्तरोत्तरक्रमेण त्रिरुल्लिख्य उल्लेखनक्रमेणैवाऽनामिकांगुष्ठाभ्यां मृद मृद्धृत्य जलेनाभ्युक्ष्य ततः कांस्यपात्रस्थं वह्रिं द्वितीयकांस्यपात्रेणापिहितमुपसमाधाय आनीतमग्निंस्थंडिलस्ताग्रेय्यां निधाय ॐ हुंफट्‌ इति मंत्रेण क्रव्यादांशं नैऋत्यां दिशि किंचित्परित्यज्य । तत ॐ अग्रिं दूतंपुरोदधेहव्यवाहमुपब्रुवे देवां २ऽआसादयादिह ॥१॥
इति मंत्रेणात्माभिमुखं स्थापयेत् ॥

ततः आनीताग्रेयपात्रयोः साक्षतोदकं निषिदय । अग्निमुखं कृत्वा ध्यायेत ॥ ॐ चत्वारिश्रृङात्र योऽअस्यपादाद्वेशीर्षे सप्तहस्तासोऽअस्य । त्रिधाबधो वृषभोरोरवीतिमहोदेवोमर्त्या२ऽआविवेश ॥१॥

अग्रे वैश्वानर शांडिल्यगोत्र शांडिल्यासितदेवलेतिप्रवराचित भूमिमाथ वरुणापितः मेषध्वजप्राङ्‌मुख मम संमुखो भव इत्यग्रिं प्रतिष्ठाप्य ॐ अग्निपुरुषाय नमः । इतिमंत्रेण वायव्यकोने बहि अग्निं षोडशोपचारैः संपूज्य प्रार्थयेत् । अग्निं प्रज्वलितं वंदे जातवेदं हुताशनम् ॥ हिरण्यवर्ण मनलं समृद्धं विश्वतोमुखम् ॥ इत्याग्रिस्थापनम् ॥ अथ नवग्रहपूजनम् ॥ (यद्यपि व्रतोद्यापनग्रंथेषु ग्रहपूजनं नोक्तं तथापि शिष्टाचाराल्लिख्यते) तत्रादौ ग्रहमंडलमध्ये वर्तुले मण्डले रक्तपुष्पाक्षतैः प्राङ्‌मुखं सूर्यमावाहयेत् ॥ ॐ आकृष्णेनरजसावर्तमानोनिवेशयन्नमृतम्मर्त्यञ्च ॥ हिरण्ययेनसवितारथे नादेवोयातिभुवनानिपश्यन् ॥ ॐ भूर्भुवःस्वः कलिंगदेशोद्धवकाश्यपसगोत्र रक्तवर्ण भोसूर्य इहागच्छ इहतिष्ठ । ॐ सूर्यायनमःसूर्यमावाहयामि । इति सूर्य स्थापयेत् ॥१॥
आग्नेय्यां दिशि चतुरस्तेऽध चन्द्रांकारे वा मंडले शुल्कपुष्पाक्षतैः सोमं० ॐ इमंदेवाऽअसपत्नर्ठःसुवध्वंमहतेक्षत्रायमहतेज्यैष्ठयाय महतेजानराज्यायेंद्रस्येन्द्रियाय ॥ इमममुष्यपुत्रममुष्यैपुत्रमस्यैव्विशऽएषयोमीराजासोमोऽस्माकं ब्राह्मणानार्ठः राजा ॥ ॐ भूर्भुवःस्वर्यमुनातीरदेशोद्धव आत्रेयसगोत्र शुक्लवर्ण भो सोम इहागच्छ इहतिष्ठ । ॐ सोमाय सोममावाहयामि ॥२॥
दक्षिणस्यां दिशि त्रिकोण मण्डले दक्षिणमुखं रक्तपुष्पाक्षतैर्भौमं० । ॐ अग्निमूर्द्धदिवःककुत्पतिःपृथिव्याऽअयम् ॥ अपा रेता सजित्वति ॥ ॐ भू० अवंतिदेशोद्धव भारद्वाजसगोत्र रक्तवर्ण भो भौम इहा०। ॐ भौमायनमः ॥३॥
ईशान्यां दिशि बाणाकारमण्डले उदङ्‌मुखं पीतपुष्पाक्षतैर्बुधं०। ॐ उदृध्यस्वाग्ने प्रतिजागृहीत्वमिष्टापूर्तेसर्ठःसृजेथामयञ्च ॥ अस्मिन्त्सस्थेऽअध्युत्तरस्मिन्विश्वे  देवायजमानश्वसी दत ॥ ॐ भू० मगधदेशोद्धव आत्रेयसगोत्र पीतवर्ण भो बुध इहा० । ॐ बुधाय नमः ॥४॥
उत्तरस्या दिशि चतुरस्ते मंडले पीतपुष्पाक्षतैर्बृहस्पतिम् ॥ ॐ बृहस्पतेऽअतियदर्योऽअर्हाद्युभातिक्रतुमज्जनेषु ॥ यद्दीदयच्छवसऽऋतप्रजाततदस्मासुद्रविणधेहिचित्रम् ॥ ॐ भू० सिंधुदेशोद्धव आंगिरसगोत्र पीत वर्ण भो बृहस्पते इहा० । ॐ बृहस्पतये नमः ॥५॥
पूर्वस्यां दिशि पंचकोणमंडले प्राङ्‌मुखं शुक्ल पुष्पाक्षतैःशुक्रं० ॥ ॐ अन्नात्परिस्त्रुतोरसम्ब्रह्मणाव्यपिबत् क्षत्रम्पयःसोमम्प्रजापतिः ॥ ऋतेनसत्य मिन्द्रियंविपार्ठशुक्रमंधसऽइन्द्रयमिदम्पयोमृतंमधु ॥ ॐ भू० भोजकटदेशोद्धव भार्गसगोत्र शुक्लवर्ण भो शुक्र इहा०। ॐ शुक्राय नम्ह ॥६॥
पश्चिमायां दिशि धनुषाकारमंडले प्रत्यङ्‌मुखं कृष्णापुष्पाक्षतैःशनैश्वरम्० । ॐ शन्नोदेवीरभिष्टयः आपोभवन्तुपीतये शँय्योरभिस्त्रवतुनः ॥ ॐ भू० सौराष्ट्रदेशोद्धव काश्यपसगोत्र कृष्णवर्ण भो शनैश्वर इहा० ॥ ॐ शनैश्वराय नमः ॥७॥
नैऋत्यां दिशि शूर्पाकारमंडले दक्षिणाभिमुखं कृष्णपुष्पाक्षतै राहुम्०॥ ॐ कयानश्वित्रऽआभुवदूतीसदा वृधः सखा ॥ कयासचिष्ठयावृता ॥ ॐ भू० राठिणापूरोद्धव पैटिनसगोत्र कृष्णवर्ण भो राहो दहा०। ॐ राहवे नमः ॥८॥
वायव्यां दिशि ध्वजाकारमंडले दक्षिणाभिसुखं धूम्रपुष्पाक्षतैः केतुम् ॥ ॐ केतुङ्‌कृण्वन्नकेतवेपेशोमर्य्याऽअपेशसे ॥ समुषाद्धिरजायथाः ॥ ॐ भूर्भुवःस्वःअंतर्वेदिसमुद्धव ज्ॐइनिसगोत्र धूम्रवर्ण भो केतो इहागच्छ इह तिष्ठ औ केतवे नमः केतुमावाहया मि ॥९॥
इति सूर्यादिनवग्रहस्थापनम् ॥

N/A

References : N/A
Last Updated : May 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP