संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः|
अध्यायः ५६

अश्वमेधखण्डः - अध्यायः ५६

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


गर्ग उवाच॥
उग्रसेनस्य यज्ञे वै हयमेधे महात्मनः॥
तस्यासन्परिचर्यायां बांधवा प्रेमबंधनाः ॥१॥
ततश्चकार यदुराण् ना- नाकर्मसुबांधवान् ॥
भीमं महानसाध्यक्षं धर्मं धर्मस्य पालने ॥२॥
शुश्रूषणे सतां जिष्णुं नकुलं द्रव्यसाधने॥
पूजने सहदेवं च धनाध्यक्षं सुयोधनम् ॥३॥
दाने च दानिनं कर्णं द्रौपदीं परिवेषणे ॥
रक्षायां कृष्णपुत्रान्वै ह्यष्टादशमहारथान् ॥४॥
युयुधानं विकर्णं च हृदीकं विदुरं तथा ॥
अक्रूरमुद्धवं चैव नानाकर्मसु भूपतिः ॥५॥
कृत्वा प्रत्याह श्रीकृष्णं देव्त्वं किं करिष्यसि ॥
श्रुत्वा कृष्ण उवाचाथ बाह्मणानां करोम्यहम् ॥६॥
पादप्रक्षालनं राजन्निंद्रप्रस्थे कृतं मया ॥
इति श्रुत्वा च ब्रह्माद्या जहसुर्भूजनास्तथा ॥७॥
गर्ग उवाच॥
इत्युक्त्वा भगवान्साक्षादृषीणां च तपस्विनाम् ॥
पादप्रक्षालनं कृत्वा स्थापयामास तान्नृप ॥८॥
आसनेषूपविष्टास्ते वासांसि परिधाय च ॥
तिलकैर्द्वादशैर्युक्ता दिव्याभरणभूषिताः ॥९॥
नानामतानां मालाभिर्युक्ताः कर्पूरवीटकान् ॥
भुक्त्वा ते रेजिरे यज्ञे देवा इव महीसुराः ॥१०॥
ततोर्थिनो भिक्षवश्च विरक्ताश्च बुभुक्षिताः ॥
कुर्वंति याचनां सर्वे दूरदेशात्समागताः ॥११॥
ददस्वान्नं ददस्वान्नं ददस्वान्नं नरेश्वर ॥
उपानहश्च पात्राणि वस्त्राणि कंबलानि च ॥१२॥
उग्रसेनस्य यज्ञे वै मुनि- वृंदैर्नृपैर्वृते ॥
तेषां तां करुणां वाचं निशम्य यदुसत्तमः ॥१३॥
सुवर्णं रजतं चैव वस्त्राणि भाजनानि च ॥
गजाश्वरथगोछत्र शिबिकादीनि हर्षितः ॥१४॥
येषांयेषां प्रियं यद्वै तेभ्यस्तेभ्यो ददौ नृपः ॥
उग्रसेनः कृतस्नानः क्रतुकर्मणि दीक्षितः ॥१५॥
असिपत्रव्रतधरो रुचिमत्या बभौ ततः ॥
विप्रा विंशतिसाहस्रा वेदशास्त्रविशारदाः ॥१६॥
व्यासगर्गादयश्चैव कारयंति क्रतूत्तमम् ॥
हस्तिशुण्डासमाधारा ह्यग्निकुंडे पपात ह ॥१७॥
घृतस्य च नृपश्रेष्ठ मुनिभिर्ब्रह्मवादिभिः ॥
तद्यज्ञे कृष्णकृपया ह्यनलो जीर्णतां ययौ ॥१८॥
ततः प्रोवाच वह्निस्तु सर्वेषां शृण्वतां नृपम् ॥
प्रसन्नोहं प्रसन्नोहं पशुं मम प्र- यच्छ वै ॥१९॥
निशम्य चाग्नेर्वचनं सभायां श्रीयादवेन्द्रो मुनिभिः समं च ॥
बद्धं तुरंगं तपनीय यूपे हिरण्यदाम्ना च तमाह भूपः ॥२०॥
उग्रसेन उवाच॥
अग्नेर्वाक्यं शृणु हय शुद्धं त्वां च पशुं क्रतोः ॥
भक्षयिष्यति वह्निस्तु घृतैस्तृप्तोपि चाध्वरे ॥२१॥
नृपस्य वचनं श्रुत्वा श्याम- कर्णस्तुरंगमः ॥
कृष्णं विलोकयन्प्रीतो कंपयामास स्वाननम् ॥२२॥
ततो हयमतं ज्ञात्वा वेदव्यासः समं मया ॥
मण्डपे मुनिभिर्युक्ते श्रीकृष्णाद्यैर्नृ- पैर्वृते ॥२३॥
ब्राह्मणैः क्षत्रियै वैश्यैः शूद्रैर्यज्ञदिदृक्षुभिः ॥
स्त्रीभिर्युते प्रलंबघ्नं प्राह द्वैपायनो मुनिः ॥२४॥
व्यास उवाच॥
उत्तिष्ट बलभद्र त्वं करवालं प्रगृह्य च॥
छिंधिकं वाजिनश्चाग्नेः प्रीतये ह्यधुना त्वरम् ॥२५॥
निहते तुरगे राम हवने च कृते सति ॥
यज्ञावतारः कृष्णस्तु प्रसन्नो भवति क्रतौ ॥२६॥
गर्ग उवाच॥
एवं व्यासवचः श्रुत्वा बलः खड्गेन सत्वरम् ॥
शिरो हयस्य चिच्छेद तच्छिरो गगनं ययौ ॥२७॥
गत्वार्द्धं नृपशार्दूल लीनं तद्रविमंडले ॥
देव दैत्य नराः सर्वे तद्दृष्ट्वा विस्मयं गताः ॥२८॥
हयस्य हृदये शूलं निजघान हसन्हरिः ॥
मकरंदसमाधारा राजँस्तत्र विनिर्गता ॥२९॥
ततश्च निर्गता ज्योतिस्तुरगस्य कलेवरात्॥
पश्यतां चैव सर्वेषां विवेश मधुसूदने ॥३०॥
पश्चाद्भूत्वा च कर्पूर शरीरं पतितं पशोः॥
गात्रा च्युतायथा राजन्विभूतिः शंकरस्य च ॥३१॥
दृष्ट्वा च कर्पूरसमूहमद्भुतं सभां सुगंधेन वृतां च द्वारकाम् ॥
व्यासादयस्ते मुनयः प्रहर्षिता ऊचुर्नृपं वै क्रतुकर्मणिस्थितम् ॥३२॥
दिष्ट्या ते नृपशार्दूल सफलोभूत्क्रतूत्तमः ॥
कर्पूरेणापि हवनं करिष्यामश्च त्वं कुरु। ॥३३॥
इत्युक्त्वा ऋत्विजः सर्वे यज्ञकुंडे च तत्क्षणात् ॥
घनसारं हि जुहुवुः पूर्वं यज्ञेश्वराय च ॥३४॥
यत्र यज्ञेश्वरः कृष्णश्चतुर्व्यूहधरः परः ॥
रेजे पुत्रैश्च पौत्रैश्च तत्र किं दुर्लभं नृप ॥३५॥
तस्मिन्यज्ञे महेन्द्राय वचः प्रकथितं मया ॥
गृहाण शक्र यज्ञेस्मिन्कर्पूरस्याहुतिं विभो ॥३६॥
एहि राज्ञार्पितां चैनां कलावग्रे हि दुर्लभाम् ॥
इति श्रुत्वा च वचनं शक्रः प्रोवाच सस्मितम् ॥३७॥
पुनर्गृह्णामि मुनयो धर्मराजक्रतूत्तमे ॥
कुलक्षये गजपुरे प्रदत्तामाहुतिं द्विजैः ॥३८॥
इति श्रुत्वा हरेर्वाक्यं सत्यं मत्वा मुनीश्वराः ॥
सर्वान्देवान्नृपश्रेष्ठ ह्यध्वरे चाहुतिं ददुः ॥३९॥
अग्नये स्वाहेति मन्त्रैश्च सर्वानेवाहुतीर्ददुः ॥४०॥
कर्पूरहवनेनापि प्रीतं विश्वं चराचरम् ॥
उग्रसेनस्तु राजा वै निर्ऋणोभून्महाध्वरे ॥४१॥
उग्रसेनो द्विजोत्तमैः॥
कृष्णाद्यैर्यादवैर्भूपैस्तीर्थे पिण्डारके करोत् ॥४२॥
भार्यया सहितः स्नात्वा वेदोक्तविधिना नृपः ॥
धृत्वा क्षौमांबरं रेजे यज्ञो दक्षिणया यथा ॥४३॥
देवदुंदुभयो नेदुर्नरदुंदुभयस्तदा॥
उग्रसेनोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥४४॥
कारयित्वा स्वधापानं प्रा- शयित्वा यथाक्रमम्॥
सर्वेभ्यश्च पुरोडाशं दत्त्वा शेषमथासृजत् ॥४५॥
उग्रसेनं च वादित्रैस्तुष्टुवुर्वंदिनो मुदा ॥
ततो नीराजनं चकुर्देवक्या- द्याश्च योषितः ॥४६॥
अलंकाराश्च रत्नानि वस्त्राणि विविधानि च ॥
नीराजनांते प्रददौ ताभ्यः प्रीतो नृपेश्वरः ॥४७॥
इति श्रीमद्गर्गसंहितायामश्वमेधखण्डे यज्ञपूर्तौ नृपस्याभिषेकोनाम षदपंचाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : May 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP