संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ४९ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ४९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यादव-कौरव युद्धम् Translation - भाषांतर दुर्योधनः स्ववीराणां भीष्मद्रोणकृपादिभिः ॥दृष्ट्वा मुखानि भग्नानि कोपं कृत्वेदमब्रवीत् ॥१॥अहो वै यादवास्तुच्छा आगता मृत्युसंमुखे ॥किं न जानंति ते मूढा धृतराष्ट्रबलं महत् ॥२॥इत्युक्त्वा प्रेषयामासुः स्वां सेनां चतुरंगिणीम् ॥गजाश्वरथवीरैश्च युक्तां युद्धे च यादवान् ॥३॥सा चचाल महासेना कंपयंती महीतलम् ॥अक्षौहिणीभिर्दशभिस्त्रासयंती बलाद्रिपून् ॥४॥आयांतीं तां ततो दृष्ट्वा सांबो जांबवतीसुतः ॥स्वां सेनां नोदयामास हर्षाद्वीरैर्विभूषितः ॥५॥ततश्च कौरवाः सर्वे रक्षणार्थं तु स्वात्मनः ॥क्रौंचव्यूहं विनिर्माय तत्र सर्वे हि संस्थिताः ॥६॥आसीत्तस्य मुखे भीष्मो ग्रीवायां द्रोण एव च ॥पक्षयोः कर्णशकुनी तस्य पुच्छे सुयोधनः ॥७॥मध्ये तस्य महासेना चतुरंगबलैर्युता ॥कृतं हि ददृशुर्व्यूहं क्रौञ्चं वै शत्रुदुर्जयम् ॥८॥क्रौंचव्यूहं तत्र दृष्ट्वा यदवो युद्धशंकिताः ॥ऊचुर्हे सांब त्वमपि कुरु व्यूहं प्रयत्नतः ॥९॥इति तेषां वचः श्रुत्वा सांबः संग्रामकोविदः ॥न चकार रणे व्यूहं कौरवानगणय्य च ॥ १०॥युद्धं कर्तुं प्रचलिते ते द्वे सेने यदा नृप ॥तदा मुहूर्तपर्यंतं चकंपे वसुधा भृशम् ॥११॥जघ्नुर्भेर्य्यश्च शंखाश्च ह्युभयोः सेनयोस्तदा ॥टंकाराश्चैव चापानां श्रूयंते तत्र तत्र ह ॥१२॥गर्जन्ति दन्तिनस्तत्र हया हेषंति तत्र ह ॥शब्दं शूराः प्रकुर्वंति नंदंति रथनेमयः ॥१३॥सैन्यपादरजोभिश्च ह्यंधकारोऽभवद्रणे ॥मलिनं गगनं भूत्वा सूर्यस्तत्र न दृश्यते ॥१४॥उभयोः सेनयोर्युद्धं ततः समभवद्भृशम् ॥बाणैर्गदाभिः परिघैः शतघ्नीभिश्च शक्तिभिः ॥१५॥परस्परं ते युयुधुराहवे निशितैः शरैः ॥गजा गजै रथा रथैर्हया हयैर्नरा नरैः ॥१६॥शरांधकारे संजाते सांबो बाणैर्धनुर्द्धरः ॥रणे भीष्मेण युयुधेऽक्रूरः कर्णेन तत्र च ॥ १७॥युयुधानः शकुनिना द्रोणाचार्येण सारणः ॥दुर्योधनेन संग्रामे सात्यकिः शीघ्रमेव च ॥१८॥बली दुःशासनेनापि कृतवर्मा तु भूरिणा ॥एवं परस्परं ह्यासीत्संग्रामो भयकारकः ॥१९॥ततः सांबस्तु संक्रुद्धः सज्जं कृत्वा धनुर्दृढम् ॥टंकारयामास तदा शूराणां कम्पयन्हृदि ॥२०॥श्रीकृष्णं प्रथमं नत्वा मुमुचे सायकान्दश ॥तानागताञ्छरान्भीष्मश्चिच्छेद स्वशरैरपि ॥२१॥रणे सांबः पुनस्तस्य कवचे सायकान्दश ॥निचखान स्वर्णमयान्नादं कृत्वा तु सिंहवत् ॥२२॥चतुर्भिः सायकैस्तस्य निजघ्ने चतुरो हयान् ॥चिच्छेद बाणैर्दशभिस्तत्कोदंडं गुणान्वितम् ॥२३॥स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥उत्थाय भीष्मः सहसा गदां जग्राह रोषतः ॥ २४॥सांबः प्राह त्वया सार्द्धं कथं युद्धं करोम्यहम् ॥पदातिना रथं चान्यं तुभ्यं दास्यामि संयुगे ॥२५॥सशस्त्रं स्यंदनं युद्धे त्वं गृहाण कुरूद्वह ॥जय मां निस्त्रपं मूढं वृद्धस्त्वं पुज्य एव च ॥२६॥स उवाच ततः साम्बं क्रोधात्प्रस्फुरिताधरः ॥दंतान्दतैर्लिहन्नोष्ठं जिह्वया रक्तलोचनः ॥२७॥।त्वद्दत्ते स्यंदने स्थित्वा यदा युद्धं करोम्यहम् ॥तदा भवति मेऽकिर्तिः पापं निरयमेव च ॥२८॥प्रतिग्रहपरा विप्रा दातारश्च वयं स्मृताः ॥दत्तं राज्यं यदुभ्यश्च पुरास्माभिः कृपालुभिः ॥२९॥श्रुत्वा तद्वचनं सांबः प्रत्युवाच रुषान्वितः ॥भयाद्राज्यं प्रदास्यंति राजानो मंडलेश्वराः ॥३०॥निरीक्ष्य भूमौ शास्तारं संस्थितं चक्रवर्तिनम् ॥इत्येवं वाक्यमाकर्ण्य भीष्मः शूरशिरोमणिः ॥ ३१॥जघान गदया गुर्व्या सांबवक्षस्थले नृप ॥गदाप्रहारव्यथितः सांबः संमूर्च्छितोऽभवत् ॥३२॥सारथिस्तं रथे कृत्वापोवाह शंकितो रणात् ॥कोलाहलस्तदैवासीद्यदुसैन्ये नृपेश्वर ॥ ३३॥भीष्मोऽन्यं रथमारुह्य दंशितः सशरासनः ॥ययौ सुयोधनं शीघ्रं यादवान्मारयन्पथि ॥३४॥संग्रामे तत्र राजेन्द्र सात्यकिश्च सुयोधनम् ॥चक्रे बाणैश्च विरथं गृधपक्षैः स्फुरत्प्रभैः ॥३५॥विरथोऽपि रथं चान्यं स समारुह्य वेगतः ॥तं शत्रुं विरथं चक्रे शरैराशीविषोपमैः ॥३६॥स चान्यं रथमारुह्य सात्यकिः शीघ्रविक्रमः ॥बाणेनैकेन तद्यानं चिक्षेप नृप योजनम् ॥३७॥रथः पपात भूमध्ये ससूतः सतुरंगमः ॥अंगारवद्विशीर्णोऽभून्मूर्च्छितोऽभूत्सुयोधनः ॥३८॥तदा द्रोणस्तु संक्रुद्धो बाणेनाग्निमयेन च ॥जघान सात्यकिं युद्धे स्वशत्रुं तु विहाय वै ॥३९॥रथस्तु तस्य दग्धोऽभूत्सतुरंगः ससारथिः ॥अभवन्मूर्च्छितः सोऽपि दग्धांगो बाणज्वालया ॥४०॥कृतवर्मा ततः क्रुद्धो भूरिं जित्वा रणांगणे ॥आजगाम नदन् राजन्द्रोणोपरि रुषान्वितः ॥४१॥स गत्वा प्रधने रोषाद्द्रोणाचार्यं शरैरपि ॥चक्रे पदातिनं वीरो निःशस्त्रं छिन्नकंचुकम् ॥४२॥ततः कर्णस्तु संक्रुद्धस्त्यक्त्वाक्रूरं रणांगणे ॥तताड कृतवर्माणं शक्त्या शक्तीव तारकम् ॥४३॥सा शक्तिस्तत्तनुं भित्वा विवेश धरणीतले ॥निर्भिन्नहृदयो भूत्वा कृतवर्मा पपात ह ॥४४॥युयुधानस्ततः कोपान्निर्जित्य शकुनिं मृधे ॥कर्णस्योपरि राजेन्द्र ह्याजगाम रथेन च ॥४५॥गत्वा शरासनेनापि मुमुचे सायकान्दश ॥वीक्ष्य तानागतान्कर्णो निजघान स्वसायकैः ॥४६॥संघृष्टास्तत्र संग्रामे तयोर्बाणाः परस्परम् ॥विस्फुलिंगान्क्षरंतस्ते भ्रमन्तेऽलातचक्रवत् ॥४७॥युयुधानस्ततः कोपात्कर्णस्य जगतीपते ॥जघान कवचे बाणान्काकपक्षयुताञ्छितान् ॥४८॥ते शराः कर्णकवचे न लग्नाः पतिता भुवि ॥राजन्पापस्य कर्तारो न स्वर्गे निरये यथा ॥४९॥ततः प्रहस्य कर्णस्तु युयुधानं च विस्मितम् ॥चकार विरथं युद्धे शरैर्नानास्त्रयोजितैः ॥५०॥दुःशासनं बलिं चैव कृत्वा युद्धे विमूर्च्छितम् ॥आययौ संयुगे कर्णं रथेनानलवर्चसा ॥५१॥आगतं बलिनं दृष्ट्वा कर्णो भास्करनंदनः ॥पवनास्त्रेण बाणेन तं चिक्षेप सवाहनम् ॥५२॥पपात योजने सोऽपि सांबस्तत्रागमत्पुनः ॥अंधकारं शरैः कुर्वन्कौरवान्मारयन् रुषा ॥५३॥इति श्रीगर्गसंहितायां हयमेधखण्डेयदुकुरुसंग्रामवर्णनं नामैकोनपंचाशत्तमोऽध्यायः ॥४९॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP