संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ३ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कृष्णकथाकीर्तनम् Translation - भाषांतर गर्ग उवाच -जामातृवधसंतप्तजरासंधचमूवधः ॥बहुशः सेनयोर्युद्धे द्वारकादुर्गकारणम् ॥१॥यवनस्य वधं दृष्ट्वा मुचकुंदस्य संस्तुतिः ॥वरं दत्वा ततो म्लेच्छवधं कृत्वा धने ततः ॥२॥नीयमाने वने दृप्तजरासंधात्पलायनम् ॥रैवतो रेवतीं कन्यां बलदेवसमर्पणम् ॥३॥रुक्मिणीप्रियसंदेशश्रवणादखिलान्नृपान् ॥निर्जित्य निर्गमो गेहात् हृतवानंबिकागृहात् ॥४॥नृपैः सांत्वनं चैद्यस्य ततो रुक्मीसमागमः ॥युद्धापेक्षापराधाद्वै मुंडनं तस्य कृष्णतः ॥५॥रुक्मिणीदुःखशमनं रामवाक्याच्च मोक्षणम् ॥ततो विवाहो रुक्मिण्या विधिवत्स्वपुरे मुदा ॥६॥प्रद्युम्नोत्पत्तिकथनं हरणं सूतिकागृहात् ॥मायावत्योक्तवृत्तांतं शंबरस्य वधस्ततः ॥७॥पुनरागमनं गेहे संतोषो द्वारकौकसाम् ॥सूर्यात्स्यमंतकप्राप्तिर्याचनं तस्य वै हरेः ॥८॥तत्संबन्धात्प्रसेनस्य वधोऽकीर्तिर्हरेस्तथा ॥तन्मार्जनाय ऋक्षस्य गृहेशु गमनं हरेः ॥९॥युद्धे ज्ञात्वा लोकनाथं जांबवत्याः समर्पणम् ॥सत्राजिताय च मणिः प्राप्ता श्रीहरिणा बिलात् ॥१०॥विवाहः सत्यभामायाः पारिबर्हे तथा मणिः ॥रामेण सह कृष्णस्य गमनं हस्तिनापुरे ॥११॥अक्रूरकृतवर्मभ्यां शतधन्वा तु प्रेरितः ॥सत्राजितं जघानाशु सोऽपि कृष्णेन मारितः ॥१२॥रामस्तु मिथिलायां च गदाशिक्षा सुयोधने ॥अक्रूरे मणिदानं च शक्रप्रस्थे हरिर्गतः ॥१३॥कालिन्द्या संगतिः शौरेर्विवाहः स्वपुरे ततः ॥विवाहो मित्रविन्दायाः सत्यायाश्च तथैव च ॥१४॥भद्राया लक्ष्मणायाश्च विवाहो हरिणा ततः ॥पारिजातं तु सत्यायै शक्रं जित्वा ददौ हरिः ॥१५॥वज्रनाभिरुवाच -प्रियायै दत्तवान्कस्माच्छक्रं जित्वा सुरद्रुमम् ॥श्रीकृष्णस्तत्कथां सर्वां मुने मे ब्रूहि विस्तरात् ॥१६॥श्रीगर्ग उवाच -पारिजातैककुसुमे चानीते नारदात्कदा ॥दत्ते सति श्रीरुक्मिण्यै सत्या तु दुःखिताभवत् ॥१७॥तां दृष्ट्वा कुपितां प्राह क्रोधागारगतां हरिः ॥मा शोच कुरु दास्यामि पारिजातद्रुमं च ते ॥१८॥तदैव कथितं सर्वे कृष्णाग्रे भौमचेष्टितम् ॥शक्रेण श्रुत्वा भगवान्प्राह पश्यन्कृतांजलिम् ॥१९॥श्रीकृष्ण उवाच -मत्प्रियां दुःखितां पश्य रुदन्तीं वृत्रसूदन ॥१९॥पारिजातस्य वृक्षार्थे किं करिष्याम्यहं वद ॥यदास्यै पारिजातस्य वृक्षं दास्यसि त्वं हरे ॥२०॥तदा भौमं ससैन्यं च हनिष्यामि न संशयः ॥कृष्णभाषितमाकर्ण्य प्रहसन्प्राह वासवः ॥२१॥इन्द्र उवाच -पारिजातद्रुमाः सर्वे वर्तंते नन्दने च ये ॥गृहाण तान्स्वतः कृष्ण त्वं हत्वा नरकासुरम् ॥२२॥तथास्तु चोक्त्वा भगवान्सत्यभामासमन्वितः ॥गरुडस्कंधमारूढः प्राग्जोतिषपुरं ययौ ॥२३॥सत्यभामा हरिं प्राह स्वर्गमिंद्रे गते सति ॥सत्योवाचपूर्वं गृहाण शक्रात्त्वं द्रुमराजं जगत्पते ॥२४॥कार्ये भूते सति हरे न करिष्यति त्वत्प्रियम् ॥प्रियावाक्यं समाकर्ण्य प्रियः प्राह प्रियां वचः ॥२५॥श्रीकृष्ण उवाच -स पारिजातं यदि न प्रदास्यतिप्रयाच्यमानस्तु मयामरेश्वरः ॥ततः शचीव्यामुदितानुलेपनेगदां विमोक्ष्यामि पुरंदरोरसि ॥२६॥इत्युक्त्वा भगवान्कृष्णो भौमासुरपुरं गतः ॥नानादुर्गैः सप्तभिश्च वेष्टितं च महासुरैः ॥२७॥सर्वान्बिभेद दुर्गान् वै गदाचक्रशरादिभिः ॥जघान मुरुदैत्यं च तत्पुत्राञ्शस्त्रसंयुतान् ॥२८॥शस्त्रास्त्रवर्षं मुंचंतं ससैन्यं नरकं हरिः ॥क्षिप्त्वा चक्रं द्विधा चक्रे गरुडेन जघान च ॥२९॥हत्वा भौमं जगन्नाथो वररत्नानि यादवः ॥जग्राह तत्र कन्यानां समूहं वै ददर्श ह ॥३०॥दैत्यसिद्धनृपाणां च सहस्राणि च षोडश ॥शताधिकानि कन्याश्च प्रेषयामास स्वां पुरीम् ॥३१॥गृहीत्वाथ मणिं छत्रं देवमातुश्च कुण्डले ॥पारिजातद्रुमार्थे वै ययाविंद्रपुरीं हरिः ॥३२॥इति श्रीगर्गसंहितायामश्वमेधचरित्रेसुमेरौ कृष्णकथावर्णनं नाम तृतीयोऽध्यायः ॥३॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP