संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ४४ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ४४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता रासक्रीडा Translation - भाषांतर वज्रनाभिरुवाच -अद्भुतं कृष्णचरितं मया त्वन्मुखतः श्रुतम् ॥किं चक्रुर्गोपिकास्तासां स कथं दर्शनं ददौ ॥१॥तत्सर्वं मुनिशार्दूल मह्यं श्रद्धालवे वद ॥धन्यास्ते ये हि शृण्वंति कर्णे कृष्णकथां सदा ॥२॥मुखेन कृष्णचन्द्रस्य नामानि प्रजपंति हि ॥हस्तैः श्रीकृष्णसेवां वै ये प्रकुर्वंति नित्यशः ॥३॥नित्यं कुर्वंति कृष्णस्य ध्यानं दर्शनमेव च ॥पादोदकं प्रसादं च ये प्रभुञ्जंति नित्यशः ॥४॥इतीदृशेन भावेन श्रमेण जगदीश्वरम् ॥ये भजंति मुनिश्रेष्ठ ते प्रयांति हरेः पदम् ॥५॥संसारे ये प्रभुञ्जंति भोगान्नानाविधान्मुने ॥श्रवणादीन्न कुर्वंति देहसौख्येन दुर्मदाः ॥६॥ते चांते यमदूतैश्च गृहीताश्च भयानकैः ॥पतिताः कालसूत्रे वै यावद्रविनिशाकरौ ॥७॥सूत उवाच -इत्युक्तवंतं राजानं प्रत्युवाच मुनिश्वरः ॥गद्गदस्वरया वाण्या प्रशंस्य चरितं हरेः ॥८॥गर्ग उवाच -कृष्णे चांतर्हिते राजंस्त्वरं सर्वाश्च गोपिकाः ॥आचक्षाणाश्च तं तप्ताः हरिण्यो हरिणं यथा ॥९॥अन्तर्हितं हरिं ज्ञात्वा गोप्यः सर्वाश्च पूर्ववत् ॥यूथीभूता विचिक्युर्वै सर्वतस्तं वने वने ॥१०॥पप्रच्छुर्भूरुहान्सर्वान्मिलित्वा तु परस्परम् ॥हत्वा ह्यस्मान्कटाक्षेण क्व गतो नंदनदनः ॥११॥तदस्माकं च वदत यूयं सर्वे वनेश्वराः ॥मार्तंडकन्ये त्वजिरे गोपालो गाश्च चारयन् ॥१२॥नित्यं चकार लीलां तु स गतः कुत्र नो वद ॥शतशृङ्गगिरींद्रस्त्वं श्रीनाथेन धृतः पुरा ॥१३॥वामहस्ते रक्षणार्थं वासवाद्व्रजवासिनाम् ॥न जहाति हरिस्त्वां तु स्वपुत्रं हृदयोद्भवम् ॥१४॥स गतो वद कुत्रास्ते विहाय विपिने च नः ॥हे मयूराश्च हरिणा हे गावो हे मृगाः खगाः ॥१५॥किरीटी ह्यलकी कृष्णो युष्माभिः किं विलोकितः ॥वदन्त सोऽपि कुत्रास्ते वने कस्मिन्मनोहरः ॥१६॥एतैस्तु वाक्यैः संतुष्टाः कठिनास्तीर्थवासिनः ॥उत्तरं नैव दास्यंति सर्वे ते मोहिताः किल ॥१७॥गर्ग उवाच -एवं सर्वा हि पृच्छन्त्यः कृष्णचन्द्रं वने वने ॥वदंत्यः कृष्ण कृष्णेति बभूवुस्तन्मयास्ततः ॥१८॥चक्रुः कृष्णचरित्राणि तत्र कृष्णमयाः स्त्रियः ॥यमुनावालुकायां च पदानि ददृशुर्हरेः ॥१९॥वज्रध्वजांकुशाद्यैश्च चिह्नितानि महात्मनः ॥तत्पदान्यनुसारेण पश्यन्त्यः प्रययुः स्वरम् ॥२०॥कृष्णांघ्रिरेणवो नीत्वा मूर्ध्नि धृत्वा व्रजस्त्रियः ॥पदान्यन्यानि ददृशुश्चान्यचिह्नयुतानि हि ॥२१॥निरीक्ष्याहुः प्रियासार्द्धं गतः प्रियतमो ह्यसौ ॥एवं वदंत्यः पश्यन्त्यो गोप्यस्तालवनं गताः ॥२२॥व्रजन्नग्रे व्रजेंद्रस्तु व्रजेश्वर्या व्रजे नृप ॥कोलाहलं च गोपीनां श्रुत्वा प्रत्याह स्वमिनीम् ॥ २३॥शीघ्रं गच्छ प्रिये त्वं तु कोटिचन्द्रसमप्रभे ॥आगता व्रजनार्यो हि नेतुं त्वां मां च सर्वतः ॥२४॥ततः प्रिया हरेः पूर्वं शृङ्गारं कुसुमैर्नृप ॥चकार सुंदरं दिव्यं वृन्दारण्ये च पूर्ववत् ॥२५॥नंदसूनुः प्रियायाश्च दिव्यं श्रृंगारमेव च ॥चकार बहुभिः पुष्पैर्भांडीरे च यथा पुरा ॥२६॥केशप्रसाधनाद्यैश्च स्रक्तांबूलानुलेपनैः ॥सुंदरी सुंदरेणापि बभूवात्यंतसुन्दरी ॥२७॥ततः कृष्णस्तु मुदितः पुष्पवृक्षतले नृप ॥शय्यां पुष्पमयीं कृत्वा तया रेमे रमेश्वरः ॥२८॥वृन्दावने गोवर्धने कृष्णायाः पुलिने तथा ॥नंदीश्वरे बृहत्सानौ तथा रोहितपर्वते ॥२९॥अरण्येषु द्वादशसु सर्वत्र व्रजमंडले ॥कांतया विचरन्कांतो वंशीवटतले स्थितः ॥३०॥तत्र शुश्राव गोपीनां वदन्तीनां रवं परम् ॥स्वामिन्या सह राजेंद्र श्रीगोपीजनवल्लभः ॥३१॥पुनः प्राह प्रियां प्रेम्णा गच्छ गच्छ प्रिये त्वरम् ॥कृष्णवाक्यं ततः श्रुत्वा प्राह भूत्वा च मानिनी ॥३२॥राधोवाच -न समर्था प्रचलितुं क्वचिद्गेहान्न निर्गता ॥नय मां ते मनो यत्र दुर्बलां दीनवत्सल ॥३३॥इति तद्वाक्यमाकर्ण्य रामां रामानुजस्ततः ॥स्वेन पीतांबरेणापि वीजयामास स्वेदतः ॥३४॥प्रगृह्य पाणिना प्राह सर्प राज्ञि यथासुखम् ॥इति सा हरिणा प्रोक्ता मत्वात्मानं वरं परम् ॥३५॥हित्वासौ स्त्रीजनान् रात्रौ भजते मां रहःस्थले ॥इति मत्वा तु हरये भूत्वा तूष्णीं व्रजेश्वरी ॥३६॥वस्त्रेणाननमाच्छाद्य पृष्ठं दत्वा स्थिताभवत् ॥पुनराह हरिस्तां तु प्रिये गच्छ मया सह ॥३७॥भजामि त्वामहं भद्रे वियोगार्तां तु शापतः ॥विहाय गोपीः सर्वाश्च लग्नास्त्वां तु भजाम्यहम् ॥३८॥त्वं तु मे स्कंधमारुह्य सुखं व्रज रहःस्थले ॥इत्युक्त्वा मानिनीं मानी स्कंधयानमभीप्सतीम् ॥३९॥त्यक्त्वा ह्यन्तदर्धे राजन्स्वात्मारामः स्वलीलया ॥अन्तर्हिते भगवति सहसा सा वधूर्नृप ॥४०॥अन्वतप्यत दुःखार्त्ता गतमाना रुरोद ह ॥ततस्तद्रोदनं श्रुत्वा वंशीवटतटे त्वरम् ॥४१॥आजग्मुर्गोपिकाः सर्वा ददृशुस्तां च दुःखिताम् ॥चक्रुः स्त्रियस्तदंगेषु वायुं व्यजनचामरैः ॥४२॥स्नापयित्वा तु तां प्रेम्णा काश्मीरसलिलेन च ॥सिषिचुर्मकरंदैस्तां चन्दनद्रवशीकरैः ॥४३॥पुनर्वाक्यैः समाश्वास्य गोप्यः कर्मसु कोविदाः ॥निशम्य तन्मुखाद्यानं गोविंदस्य च मानतः ॥४४॥मानिन्यो गोपिकाः सर्वा विस्मयं परमं ययुः ॥विहाय मानं ताः सर्वा आगत्य पुलिनं नृप ॥स्वरैर्जगुः कृष्णगुणाँस्तदागमनहेतवे ॥४५॥इति श्रीगर्गसंहितायां हयमेधखण्डेरासक्रीडायां चतुश्चत्वारिंशोऽध्यायः ॥४४॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP