संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ३८ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ३८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अनिरुद्ध-सहायार्थं कृष्णागमनम् Translation - भाषांतर गर्ग उवाच -तदा मृत्युंजयः क्रुद्धो भैरवं वीक्ष्य निद्रितम् ॥वृषभं प्रेरयामास कार्ष्णिजं शूरमानिनम् ॥१॥तदैव वृषभः कोपाच्छृंगाभ्यां मारयन्यदून् ॥दंतैः पश्चिमपादाभ्यां सेनायां विचचार ह ॥२॥त्वरं जघान शृङ्गेण संमुखस्थं सुनन्दनम् ॥शृङ्गेण भिन्नहृदयः पपात पंचतां गतः ॥३॥तदाऽऽजगाम संक्रुद्धोऽनिरुद्धो गजसंस्थितः ॥धनुर्धरो दंशितश्च माभैर्माभैरिति ब्रुवन् ॥४॥दृष्ट्वा तत्र हतं वीरं कृष्णपुत्रं सुनन्दनम् ॥प्राप्तो दुःखं मृधेऽत्यंतं कंपितः शोकपूरितः ॥५॥हते तस्मिन्महावीरे शोचंतं तं शिवोऽब्रवीत् ॥मा कृथास्त्वं रणे शोकमनिरुद्ध महाबल ॥६॥रणमध्ये पातनं च शूराणां कीर्तये स्मृतम् ॥तस्मात्त्वमपि संग्रामे मया युद्ध्यस्व यत्नतः ॥७॥प्रयातान् रक्षस्व प्राणान्ममाग्रे युद्धकांक्षया ॥गर्ग उवाच -इति तस्य वचः श्रुत्वा शोकं त्यक्त्वा यदूत्तमः ॥८॥निचखान पंच बाणान् शिवस्य मस्तके नृप ॥नाराचास्ते महेशस्य जटाजूटेषु निष्ठिताः ॥९॥दृश्यंते गृध्रपक्षाढ्याः शाखा इव वनस्पतेः ॥ततो रुद्रः स्वकोदंडे बाणमेकं निधाय च ॥१०॥चिच्छेद तेन सहसा तस्य चापस्य शिंजिनीम् ॥अनिरुद्धः पुनः शीघ्रं सज्यं कृत्वा धनुर्दृढम् ॥११॥उग्रचापस्य चिच्छेद शिंजिनीं सायकेन च ॥ततः श्रुत्वा तयोर्युद्धमद्भुतं रोमहर्षणम् ॥१२॥विमानस्थाश्च शक्राद्या आजग्मुः कौतुकान्विताः ॥ऊचुः परस्परं खस्था निरीक्ष्य भयविह्वलाः ॥१३॥देवा ऊचुःअमू लोकत्रयस्यापि ह्युत्पत्तिलयकारकौ ॥एतयोश्च रणं तस्माद्विफलं रणमण्डले ॥१४॥को विजेष्यति संग्रामं प्राप्स्यते कः पराजयम् ॥गर्ग उवाच -ततस्त्रिदिनपर्यंतं युद्धमासीत्तयोर्भृशम् ॥१५॥पुनः शरासनं रुद्रः सज्जं कृत्वा रुषान्वितः ॥ब्रह्मास्त्रं संदधे तत्र लोकप्रलयकारकम् ॥१६॥ब्रह्मास्त्रेण तु ब्रह्मास्त्रं भिदुरास्त्रेण पार्वतम् ॥पर्जन्यास्त्रेण चाग्नेयमनिरुद्धो जहार ह ॥१७॥तदा प्रकुपितोऽत्यंतं पिनाकी प्रज्वलन्निव ॥त्रिशिखेन त्रिशूलेन जघान कार्ष्णिनन्दनम् ॥१८॥स त्रिशूलश्च तं भित्त्वा गजं भित्त्वा विनिर्गतः ॥स्थितोऽभूच्च तयोर्मध्ये ऊर्ध्वपुंख अधोमुखः ॥१९॥गजो मृत्युं गतो युद्धेऽनिरुद्धो मूर्च्छितोऽभवत् ॥पेततुस्तौ च संलग्नौ भिन्नवक्षस्थलौ मृधे ॥२०॥हाहाकारस्तदैवासीद्रुरुदुः सर्वयादवाः ॥रुद्रस्याग्रे यथा भीता यमस्याग्रे च पापिनः ॥२१॥अनिरुद्धं निपतितं मृत्युतुल्यं विमूर्च्छितम् ॥श्रुत्वा ययौ शंकितश्च सांबः स्कंदं विहाय च ॥२२॥मूर्च्छितं यदुवीरं तु वीक्ष्य क्रोधपरिप्लुतः ॥अश्रुपूर्णमुखः सांबः शर्वं प्राह धनुर्धरः ॥२३॥कस्मात्करिष्यसे रुद्र दानवानां हि पालनम् ॥हत्वानिरुद्धं संग्रामे वीरं चैव सुनन्दनम् ॥२४॥वेदे भागवते शास्त्रे पुरा विप्रैः श्रुतं मया ॥श्रीकृष्णाख्यं परं नित्यं शिवं सेविति वैष्णवः ॥२५॥मृषा जातं हि तत्सर्वं कार्ष्णिजे पतिते सति ॥सुनन्दनः कृष्णसुतः सोऽपि युद्धे त्वया हतः ॥२६॥वृथा करिष्यसे युद्धं धिक्त्वां तस्मान्महेश्वर ॥अहं त्वां पातयिष्यामि रणे कृष्णपराङ्मुखम् ॥२७॥क्षुरप्रैः सायकैः शीघ्रं तिष्ठ तिष्ठ रणे शिव ॥एतद्वचः समाकर्ण्य प्रसन्नः शंकरोऽब्रवीत् ॥२८॥शिव उवाच -धन्यस्त्वं यादवश्रेष्ठ सत्यं वदति नो भवान् ॥मन्नाथः कृष्णचन्द्रोऽयं देवदानववंदितः ॥२९॥कुनंदने च निहते बल्वले मूर्च्छिते रणे ॥सहायार्थमहं वीर भक्तरक्षार्थमागतः ॥३०॥सत्यं कर्तुं स्ववचनं किंचित्कोपेन पूरितः ॥करोमि प्रधने युद्धं भक्तप्रियचिकीर्षया ॥३१॥इत्थं वदति भूतेशे सांबो रोषप्रपूरितः ॥तताड शीघ्रं चापेन क्षुरप्रैः सायकैर्मृडम् ॥३२॥तैर्बाणैर्निहतो रुद्रो न किंचित्कश्मलं गतः ॥यथा मतंगजः पुष्पैर्जग्राह स्वधनुः शिवः ॥३३॥तताड निशितैर्बाणैर्युद्धे जांबवतीसुतम् ॥सांबः शिवं शिवः सांबं जघ्नतुस्तौ परस्परम् ॥३४॥दृष्ट्वा युद्धं तयोर्लोकसंहारं मेनिरेऽस्मराः ॥भूतले गगने राजन्महान्कोलाहलोऽभवत् ॥३५॥भीताश्च वृष्णयस्तत्र नाथं कृष्णं स्मरंति हि ॥३६॥तदा हरिः श्रीयदुपालकश्चज्ञात्वा यदूनां च महाविपत्तिम् ॥रथेन तत्रागतवान् रिपुघ्नोयुक्तेन वै सूततुरंगमैश्च ॥३७॥श्यामः किरीटी नवकंजनेत्रोनवार्ककोटिद्युतिमादधानः ॥कौमोदकीशंखरथांगपद्म-कोदंडबाणैर्नियुतोऽसिधारी ॥३८॥श्रीवत्सचिह्नेन तु कौस्तुभेनपीताम्बरणेपि च मालयाऽऽढ्यः ॥नीलालकैः कुण्डलकङ्कणद्यै-र्विभूषितः कोटिमनोजतुल्यः ॥३९॥समुद्गलद्भिः सितफेनशीकरा-न्मुक्ताफलानीव च राजहंसकैः ॥सुग्रीवमुख्यैरतिवेगवत्तरै-र्हयैर्युतः सुन्दरसामगायनैः ॥४०॥दृष्ट्वा स्वनाथं यदवः स्वागतं हर्षविह्वलाः ॥बभूवुः सुखिनः सर्वे शीतभीता रविं यथा ॥४१॥तदा जयजयारावो यदुसैन्ये बभूव ह ॥प्रचक्रिरे पुष्पवर्षं गगनस्थाश्च देवताः ॥४२॥दृष्ट्वा सांबस्तु श्रीकृष्णं सहायार्थं समागतम् ॥पपात पादयोस्तस्य चापं त्यक्त्वा प्रहर्षतः ॥४३॥इति श्रीगर्गसंहितायां हयमेधखण्डेश्रीकृष्णागमनं नामाष्टात्रिंशोऽध्यायः ॥३८॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP