संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ३९ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ३९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता असुरैः सह युद्धे अनिरुद्धविजयम् Translation - भाषांतर गर्ग उवाच -कृष्णं दृष्ट्वा हरस्तत्र भीतः शंकितमानसः ॥त्यक्त्वा चापत्रिशूलादीन्भक्त्या श्रीनाथमब्रवीत् ॥१॥शंकर उवाच -ॐ अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ॥भूतदयां विस्तारय तारय संसारसागरतः ॥२॥दिव्यधुनीमकरंदे परिमलपरिभोगसच्चिदानंदे ॥श्रीपतिपदारविंदे भवभयखेदच्छिदे वंदे ॥३॥सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् ॥सामुद्रो हि तरंगः क्वचन समुद्रो न तारंगः ॥४॥उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ॥दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥५॥मत्स्यादिभिरवतारैरवतारवताऽवता वसुधाम् ॥परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम् ॥६॥दामोदर गुणमंदिर सुन्दरवदनारविंद गोविन्द ॥भवजलधिमथनमंदर परमं दरमपनय त्वं मे ॥७॥नारायण करुणामय शरणं करवाणि तावकौ चरणौ ॥इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥८॥इति स्तुतः शंकरेण प्रीतः संकर्षणानुजः ॥पप्रच्छ सर्वाभिप्रायं नमन्तं चन्द्रशेखरम् ॥९॥श्रीकृष्ण उवाच -किं कृतस्तेऽपराधो वै मत्पुत्रेण कुबुद्धिना ॥यतस्त्वया हतः संख्येऽनिरुद्धो मूर्च्छितः कृतः ॥१०॥हतं यदुबलं कस्मात्कस्मात्त्वं चागतो रणे ॥कस्माद्युद्धं च कृतवांस्तन्मे व्याख्यातुमर्हसि ॥११॥इत्थं श्रीकृष्णवचनं निशम्य प्रमथेश्वरः ॥उवाच लज्जितो भूत्वा विचार्य मधुसूदनम् ॥१२॥शंकर उवाच -देवदेव जगन्नाथ राधिकेश जगन्मय ॥पाहि पाहि कृपाकारिन्निस्त्रपं मां कृतागसम् ॥१३॥त्वं न जानासि किं देव कथयिष्यामि किं त्वहम् ॥भक्तस्य पालनं कर्तुं मायया तव मोहितः ॥१४॥अहमागतवान्देव त्वं सर्वं क्षंतुमर्हसि ॥शास्ताहं सर्वलोकस्य मानादिति मया हरे ॥१५॥मारिताः संगरे शूरा वृष्णयः कृष्णदेवताः ॥तस्मात्संतः स्वयं त्यक्त्वा परमैश्वर्यमीप्सितम् ॥१६॥ध्यायंते सततं कृष्णपादाब्जं ते निरापदम् ॥सुखं दुःखं नृणां तावद्यावत्कृष्णे न मानसम् ॥१७॥कृष्णे मनसि सञ्जाते भेत्ति खड्गो दुरत्ययः ॥नराणां कर्मवृक्षाणां मूलच्छेदं करोति यः ॥१८॥मद्भक्तिबलदर्पिष्ठा मत्प्रभुं त्वां यदूत्तमम् ॥न मन्यंते च ते सर्वे यास्यंति निरयं ध्रुवम् ॥१९॥इत्युक्त्वा शंकरस्तूष्णीं भूत्वा कृष्णस्य पादयोः ॥पपात दंडवद्भक्त्या ह्यश्रुपूर्णाकुलेक्षणः ॥२०॥उत्थाप्याश्वास्य तं रुद्रं पार्श्वतस्तत्प्रदर्शनात् ॥मिलित्वा भगवान्कृष्ण आलुलोक सुधार्द्रदृक् ॥२१॥आह कृष्णः सुराः सर्वे कुर्वंति भक्तपालनम् ॥त्वया जुगुप्सितं कर्म किं कृतं भक्तपालने ॥२२॥ममासि हृदये त्वं तु भवतो हृदये ह्यहम् ॥आवयोरंतरं नास्ति मूढाः पश्यंति दुर्द्धियः ॥२३॥त्वां नमंति च मद्भक्तास्त्वद्भक्ता मां सदाशिव ॥ये न मन्यंति मद्वाक्यं यास्यंति नरकं च ते ॥२४॥इत्युक्त्वा भगवान्कृष्णो हतं पुत्रं सुनन्दनम् ॥दृष्ट्या पीयूषवर्षिण्या जीवयामास संयुगे ॥२५॥तत्पश्चादनिरुद्धस्य हृदयाच्छूलमेव च ॥शनैः शनैः समाकृष्य जीवयामास तं हरिः ॥२६॥तत्पश्चाद्यादवान्सर्वान्निहतान्संयुगे भृशम् ॥अजीवयत्सुधादृष्ट्या कृष्णस्तु प्रभुरीश्वरः ॥२७॥तावत्सदुंदुभिरवं पुष्पवृष्टिं दिवौकसः ॥उत्साहलक्षणां चक्रुः प्रसाद्य गरुडध्वजम् ॥२८॥प्रभुं त्रैलोक्यनेतारं कृष्णं दृष्ट्वा यदूत्तमाः ॥उत्थाय संभ्रमाच्चक्रुर्जयारावं मुदान्विताः ॥२९॥अथोत्थितो बल्वलस्तु महादेवन रक्षितः ॥क्व गतश्चानिरुद्धो वै ब्रुवन्वाक्यं रुषान्वितः ॥३०॥ततः शर्वेण दैत्यस्तु बोधितो वचनैः शुभैः ॥ज्ञात्वा कृष्णस्य माहात्म्यं मुदितोऽभून्महामनाः ॥३१॥ततः प्रणम्य गोविंदं स्तुत्वा दैत्यस्तु बल्वलः ॥तुरगं प्रददौ राजन्बहुद्रव्येण संयुतम् ॥३२॥ततो यज्ञहयं नीत्वा पुत्रपौत्रसमन्वितः ॥सेतुमार्गेण कृष्णस्तु प्रययौ पश्चिमां दिशम् ॥३३॥कृष्णे गते भगवति राज्ये संस्थाप्य बल्वलम् ॥कैलासं प्रययौ रुद्रः सगणस्तु सभैरवः ॥३४॥एतत्कृष्णचरित्रं तु ये शृण्वन्ति गृहे जनाः ॥तेषां सहायं भगवान्करिष्यति सदा हरिः ॥३५॥इति श्रीगर्गसंहितायां हयमेधखण्डेऽनिरुद्धविजयवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥३९॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP