संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः १० अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः १० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता उग्रसेन-रुचिमती-संवादम् - Translation - भाषांतर श्रीगर्ग उवाच -इति ब्रुवति श्रीकृष्णे हंसस्थश्चतुराननः ॥आजगाम कुशस्थल्यामीश्वरेण समन्वितः ॥१॥तत इन्द्रः कुबेरश्च यमो वरुण एव च ॥वायुर्वायुसखाश्चैव नैर्ऋतश्च निशाकरः ॥२॥एते समाययू राजन्कृष्णदर्शनकांक्षया ॥ततश्च द्वादशादित्या वेतालाश्च मरुद्गणाः ॥३॥विश्वेदेवाश्च साध्याश्च गंधर्वाः किन्नरास्तथा ॥विद्याधराश्च मुनयः श्रीकृष्णं द्रष्टुमाययुः ॥४॥तत्रागतानां देवानामुग्रसेनेन माधवः ॥यथाविध्युपसंगम्य सर्वेषां मानमादधे ॥५॥आसनेषूपविष्टेषु सभायां निर्जरेष्वथ ॥श्लाघां चकार सर्वेषां लीलानरवपुर्हरिः ॥६॥अथ ब्रह्मा हरेः पार्श्वे स्थितः शक्रेण नोदितः ॥प्रत्युवाच जगन्नाथं बलभद्रसमन्वितम् ॥७॥ब्रह्मोवाचपौत्रस्ते बालकः कृष्ण राजन्येभ्यश्च पालनम् ॥कठिनं श्यामकर्णस्य करिष्यति कथं हरे ॥८॥मा तं प्रेषय तस्मात्त्वं रक्षणाय हयस्य वै ॥विघ्नाश्च बहवः सन्ति प्रद्युम्नं प्रेषयस्व च ॥९॥संकर्षणं वा गोविन्द ह्यथवा रक्ष त्वं हयम् ॥इति तद्वचनं श्रुत्वा निजगौ प्रहसन्हरिः ॥१०॥श्रीभगवानुवाचअनिरुद्धो हठाद्याति मन्निषेधं न मन्यते ॥तस्मात्तन्निकटे गत्वा निषेधं कुरु यत्नतः ॥११॥कृष्णस्य वाक्यमाकर्ण्य विधिश्चंद्रसमन्वितः ॥ययौ निवारणार्थायानिरुद्धं कार्ष्णिनन्दनम् ॥१२॥यदा गतौ समीपे तु सुरज्येष्ठकलानिधी ॥विग्रहे ह्यनिरुद्धस्य सद्यस्तौ लीनतां गतौ ॥१३॥बभूवुर्विस्मिताः सर्वे शिवशक्रादयः सुराः ॥यादवा मुनयश्चैव ह्युग्रसेनादयो नृपाः ॥ १४॥वज्रनाभ त्वत्पितरं संस्तुवन्ति गणाः किल ॥परिपूर्णतमं तस्मादनिरुद्धं वदंति हि ॥१५॥गर्ग उवाच -अथोग्रसेनो नृपतिः सभातला-दुत्थाय कृष्णं मनसा प्रणम्य च ॥स्वांतःपुरं सुन्दररत्नवेष्टितंजगाम राजन्क्रतुकौतुकावृतः ॥१६॥गत्वा ह्यंतपुरे राजा सुरेन्द्रसदनोपमे ॥पर्यंकस्थां रुचिमतीं शचीतुल्यां वराननाम् ॥१७॥दासीभिः सेवितां राज्ञीं वस्त्रालंकारवेष्टिताम् ॥वीजितां चामरैः शुक्लैर्ददर्श नृपसत्तमः ॥१८॥सा विलोक्यागतं तत्र स्वपतिं यादवेश्वरम् ॥उत्थाय चादरं राजन् चकार विधिना किल ॥१९॥ततः स्थित्वा स पर्यंके वृष्णीशो स्वां प्रियां पराम् ॥प्रोवाच प्रहसन् वाण्या घनशब्दगभीरया ॥२०॥हयमेधं करिष्येऽहं प्रिये कृष्णाज्ञयाऽद्य वै ॥नरो यस्य प्रतापेन लभते वाञ्छितं फलम् ॥२१॥गर्ग उवाच -इति तद्वचनं श्रुत्वा पुत्रदुःखेन दुःखिता ॥स्मरंती कृपणा पुत्रान्प्रत्युवाच नृपेश्वरम् ॥२२॥राज्ञ्युवाच -पुत्रदर्शनहीनाया राजन्मे सर्वसंपदः ॥न रोचंते सुरैः प्रार्थ्याः सुखेन त्वं क्रतुं कुरु ॥२३॥यदि यज्ञप्रतापेन पुत्रो भवति सुन्दरः ॥तदा प्रसन्नचित्ताहं भविष्यामि नृपेश्वर ॥२४॥तस्या वाक्यं समाकर्ण्य नृपः खिन्नमना ह्यभूत् ॥पुनराह प्रियां तत्र श्रद्धां श्राद्धसुरो यथा ॥२५॥राजोवाच -शृणु भद्रे त्विमामाशां पुत्राणां बहुदुःखदाम् ॥त्वक्त्वा विमुक्तिदं साक्षात्कृष्णं भज परात्परम् ॥२६॥अहं वृद्धस्तु त्वं वृद्धा कथं पुत्रो भविष्यति ॥तस्मादज्ञानजं शोकं त्यज बंधनकारणम् ॥२७॥श्रुत्वा तु यादवेंद्रस्य वाक्यं विज्ञानदं परम् ॥राजन् रुचिमती प्राह यदूनां प्रवरं पतिम् ॥२८॥रुचिमत्युवाच -राजन् यज्ञप्रतापेन प्राप्यते वाञ्छितं फलम् ॥अहं तु कामये द्रष्टुं हतपुत्रान्समागतान् ॥२९॥यदि त्वमीदृशं वाक्यं मृतानां दर्शनं कुतः ॥वदिष्यसि मदग्रे हि ततोऽन्यच्छृणु मन्मुखात् ॥३०॥कृष्णेन दत्तं तत्पुत्रं गुरवे गुरुदक्षिणाम् ॥तद्वत्स्वपुत्रान् राजेंद्र कामये द्रष्टुमागतान् ॥३१॥गर्ग उवाच -इति श्रुत्वाऽऽह्वयामास मां च कृष्णं बृहच्छ्रवाः ॥तयोः सपर्यां महतीमागताभ्यां चकार ह ॥३२॥तौ पूजयित्वाभिप्रायं ताभ्यां सर्वं न्यवेदयत् ॥उग्रसेनस्य वाक्यं वै श्रुत्वा मद्वचनाद्धरिः ॥३३॥उपशक्रो यथा शक्रं प्राह तद्वन्नृपेश्वर ॥श्रीभगवानुवाच -शृणु राजँस्तव सुताः प्रधने निहताः पुरा ॥३४॥ते सर्वे दिव्यदेहेन वर्तन्ते दिवि देववत् ॥तस्मात्वं नृपशार्दूल पुत्रशोकं विहाय च ॥३५॥अश्वमेधं क्रतुवरं कुरु धैर्येण भूपते ॥दर्शयिष्याम्यहं सर्वान् यज्ञस्यांते च ते सुतान् ॥३६॥निशम्य कृष्णवचनमुर्वीशः स्वां प्रियां मुदा ॥आश्वास्य च शुभैर्वाक्यैः सुधर्मां सुजनैर्ययौ ॥३७॥आगतं तु नृपं वीक्ष्य श्रीकृष्णेन समन्वितम् ॥दिक्पालाश्च प्रणेमुर्वै रामेशानादयः सुराः ॥३८॥उग्रसेनस्य भूपस्य वज्रनाभे तपः परम् ॥किं वर्णयामि यं सर्वे श्रीकृष्णाद्या नमंति हि ॥३९॥यादवेंद्रस्तु सर्वान् वै देवान्नत्वा विलज्जितः ॥शक्रसिंहासने दिव्ये नारुरोह विचारयन् ॥४०॥तदैव कृष्णो भगवान्गृहीत्वा पाणिना नृपम् ॥स्वभक्तं स्थापयामास तस्मिन् वै वासवासने ॥४१॥इति श्रीगर्गसंहितायां हयमेधचरित्रेराजराज्ञीसंवादे दशमोऽध्यायः ॥१०॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP