संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः १९ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः १९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अनिरुद्धसमीपे बकासुरागमनम् Translation - भाषांतर श्रीगर्ग उवाच -अथ रुक्मावती पुत्रो महत्या सेनया वृतः ॥उपलंकां विमानेन प्रययौ धनदो यथा ॥१॥यदुभिस्तत्र गत्वा स शरैराशीविषोपमैः ॥बभंज नगरीं राजन्वनान्युपवनानि च ॥२॥क्रीडास्थानानि द्वाराणि सदनाट्टालतोलिकाः ॥गोपुराणि विमानाग्रान्निपेतुः शस्त्रवृष्टयः ॥३॥मुसलाः शक्तयश्चैव परिघाश्च शराः शिलाः ॥चण्डवायुरभूद्राजन् रजसाऽऽच्छादिता दिशः ॥४॥इत्यर्द्यमाना यदुभिर्भीषणस्य पुरी भृशम् ॥नाभ्यपद्यत कल्याणं यथा शाल्वैश्च द्वारिका ॥५॥हाहाकारस्तदैवासीन्नगर्यां नृपसत्तम ॥असुरा भीषणाद्याश्च बभूवुर्भयविह्वलाः ॥६॥बाध्यमानां च नगरीं दृष्ट्वा राक्षसपुंगवः ॥माभैष्टेत्यभयं दत्त्वा राक्षसैः सह निर्ययौ ॥७॥ततः प्रववृते युद्धं यादवानां निशाचरैः ॥तत्पुर्यां चैव लंकायां कपिभी रक्षसां यथा ॥८॥वृष्णीनां चैव बाणौघै राक्षसाश्छिन्नकंधराः ॥निपेतुस्तु समुद्रे वै वृक्षा वातहता इव ॥९॥केचित्पृथिव्यां पतिताः केचित्पुर्य्यमधोमुखाः ॥केचिदूर्ध्वमुखा राजन्केचिद्वै पंचतां गताः ॥१०॥तत्र तेषां शोणितेन दुर्नदीच भयंकरा ॥बभूव सा च दुष्पारा महावैतरणि यथा ॥११॥तत्र तेषां बलं वीक्ष्य भीषणो विस्मयं गतः ॥तिरश्चीनेन नेत्रेण दृष्ट्वा प्राह यदूनिदम् ॥१२॥भवद्भिश्च कृतं युद्धमाकाशान्निर्बलैरिव ॥अश्लाघनीयं च वृथा यूयं मानं करिष्यथ ॥१३॥युष्माकं यदि देहेषु शक्तिश्चेद्विद्यते शृणु ॥महीतले तदागत्य मया कुरुत वै रणम् ॥१४॥इत्याकर्ण्य वचः सोऽपि कार्ष्णिजः करुणामयः ॥विमानं भूतले कृत्वा प्रत्युवाच महासुरम् ॥१५॥अनिरुद्ध उवाच -सहसा त्वं मया सार्द्धं रणं कुरु महारणे ॥किं विचारेण भवति भयं त्यक्त्वा महासुर ॥१६॥इति तद्वाक्यमाकर्ण्य भीषणो भीमविक्रमः ॥धनुषा पंच नाराचांस्तस्योपरि मुमोच ह ॥१७॥अनिरुद्धो निरीक्ष्याथ स्वबाणैस्तान्द्विधाकरोत् ॥चिच्छेद च धनुस्तस्य शरेणैकेन लीलया ॥१८॥सोऽप्यन्यं धनुरादाय सज्जं कृत्वा निशाचरः ॥सर्पाकारैः शतशरैर्जघान कार्ष्णिनंदनम् ॥१९॥रथस्तु तस्य भग्नोऽभूत्सारथी पंचतां गतः ॥हया मृत्युं गताः सर्वे प्राद्युम्निर्मूर्च्छितोऽभवत् ॥२०॥तदैव वृष्णयः सर्वे स्फुरिताधरपल्लवाः ॥स्वनाथं पतितं दृष्ट्वेषून् मुञ्चन्तः समागताः ॥२१॥तानागतान्बहून्दृष्ट्वा चापं धृत्वासुरो रुषा ॥गदया पोथयामास दंष्ट्रयेव मृगान्हरिः ॥२२॥गदाप्रहारव्यथिता यादवाः पतिता भुवि ॥संभिन्नच्छिन्नसर्वाङ्गाः केचिन्निपतिता रणे ॥२३॥ततो गृहीत्वा स्वगदां गदः संकर्षणानुजः ॥ताडयामास समरे भीषणस्य च मूर्द्धनि ॥ २४॥गदाप्रहारव्यथितः स पपात महीतले ॥चालयन् वसुधां राजन् यथा वज्रहतो गिरः ॥२५॥भीषणं पतितं दृष्ट्वा मूर्च्छितं भग्नशीर्षकम् ॥असुरास्ते गदं हंतुं प्राप्ताः शस्त्रधराः किल ॥२६॥तान्सर्वान्पोथयामास गदया वज्रकल्पया ॥रामानुजो यथा राजन्नृसिंहो दंष्ट्रया गजान् ॥२७॥अथोत्थितोऽनिरुद्धस्तु ब्रुवन्धन्वी क्षणेन वै ॥भीषणो मम शत्रुर्वै क्व गतः स महा खलः ॥२८॥उत्थितं च हरेः पौत्रं दृष्ट्वा यादवपुंगवाः ॥चक्रुर्जयजयारावं देवाः सर्वे च हर्षिताः ॥२९॥ततो नारदवाक्याद्वै बको नाम निशाचरः ॥भीषणस्य पितारण्यात्क्रुद्धस्तत्राजगाम ह ॥३०॥कज्जलाद्रिसमो राजन्तालवृक्षदशोत्थितः ॥ललजिह्वश्च दुर्नेत्रस्त्रिशूली च गदाधरः ॥३१॥हस्तिनं वामहस्तेन गृहीत्वा च मुखेन वै ॥प्रभक्षन् रुधिराक्रांतः पिशाचसदृशो महान् ॥३२॥पद्भ्यां तालप्रमाणाभ्यां कंपयन्पृथिवीतलम् ॥भयप्रदश्च देवानां जनकालो व्यदृश्यत ॥३३॥तमायांतं विलोक्याथ शंकितास्तत्र यादवाः ॥प्रोचुः परस्परं सर्वे स्मृत्वा कृष्णपदांबुजम् ॥३४॥यादवा ऊचुः -कोऽयं मित्राणि गदत निकटे च समागतः ॥महाबीभत्सरूपी वै कृतांत इव निर्भयः ॥३५॥इति ब्रुवत्सु सर्वेषु आसीत्कोलाहलो महान् ॥प्रसन्नस्तं निरीक्ष्याथ बभूवुस्ते निशाचराः ॥३६॥भीषणं मूर्च्छितं दृष्ट्वा बको राक्षसपुंगवः ॥शुशोच राजन्संग्रामे हा दैवेति मुहुर्वदन् ॥३७॥ततो मूर्च्छां मुहूर्तेन विहाय भीषणो नृप ॥उत्थितस्तु ब्रुवन्वाक्यं गदः कुत्र गतो भयात् ॥३८॥स्वपुत्रमुत्थितं दृष्ट्वा पुरुषादस्तु हर्षितः ॥आलिंग्याश्वासयामास सुवाक्यैर्वाक्यकोविदः ॥३९ ॥भीषणः पितरं दृष्ट्वा सहायार्थं समागतम् ॥नमश्चक्रे महाराज भूत्वा स च प्रसन्नधीः ॥४०॥इति श्रीगर्गसंहितायां हयमेधखण्डेबकागमनं नामैकोनविंशोऽध्यायः ॥१९॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP