संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ४८ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ४८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कौरवगणकृतं अश्वग्रहणम् Translation - भाषांतर श्रीगर्ग उवाच -कृष्णां समुत्तीर्य ततः प्रपश्य-ञ्जगाम वाजी कुरुपत्तनञ्च ॥करोति राज्यं नृपचक्रवर्तीवैचित्रवीर्यो बलवान्हि यत्र ॥१॥ततो ददर्श तुरगः कौरवाणां पुरं वरम् ॥तं नानोपवनैर्युक्तं तडागैश्च सरोवरैः ॥२॥दुर्गेण गंगया युक्तं तथा परिखया नृप ॥सुवर्णरौप्यसदनैर्महाशूरजनैर्वृतम् ॥३॥सुयोधनस्य पुराद्विनिर्गतोहंतुं मृगान्वै वनगोचरान्नृप ॥ददर्श यज्ञस्य हयं सपत्रकंरथस्थितो वीरजनैर्विभूषितः ॥४॥दृष्ट्वा तुरंगमं प्रीतः स्वरथादवतीर्य च ॥मानी दुर्योधनो राजंस्त्वरं जग्राह लीलया ॥५॥कर्णभीष्मकृपद्रोणभूरिदुःशासनादिभिः ॥युक्तस्तद्भालपत्रं च वाचयामास हर्षितः ॥६॥चंद्रवंशे यदुकुल उग्रसेनो विराजते ॥इन्द्रादयः सुरगणा यस्यादेशानुवर्तिनः ॥७॥सहायो यस्य भगवाञ्छ्रीकृष्णो भक्तपालकः ॥अस्ति वै द्वारकापुर्यां तद्भक्त्या निवसन्हरिः ॥८॥तद्वाक्याद्धयमेधं स उग्रसेनो नृपेश्वरः ॥चक्रवर्ती हठाद्यज्ञं स्वयशोऽर्थे करोति हि ॥९॥मोचितस्तेन तुरगो हयानां प्रवरः शुभः ॥तद्रक्षकः कृष्णपौत्रोऽनिरुद्धो वृकदैत्यहा ॥१०॥गजाश्वरथवीराणां सेनासंघसमन्वितः ॥राजानो ये करिष्यंति राज्यं कौ शूरमानिनः ॥११॥ते गृह्णंतु यज्ञहयं स्वबलात्पत्रशोभितम् ॥तं मोचयति धर्मात्मा गृहीतं च हयं नृपैः ॥१२॥स्वबाहुबलवीर्येणानिरुद्धो लीलया हठात् ॥तस्यान्यथा च पादयोः पतित्वा यांतु धन्विनः ॥१३॥गर्ग उवाच -तत्पत्रं वाचयित्वैवं कौरवास्ते तु शत्रवः ॥ऊचुः परस्परं क्रुद्धा मानिनो रक्तलोचनाः ॥१४॥कौरवा ऊचुःअहो किं लिखितं धृष्टैर्भालपत्रे हयस्य च ॥न संति किं हि राजानो यादवानां च संमुखे ॥१५॥राजसूये पुरास्माभिर्यादवा ये विनिर्जिताः ॥हयमेधं करिष्यंति पुनस्ते गतबुद्धयः ॥१६॥तस्मात्सर्वान्विजेष्यामो न दास्यामस्तुरंगमम् ॥पश्चाद्वयं करिष्यामो हयमेधं क्रतूत्तमम् ॥१७॥क उग्रसेनः कः कृष्णो हयरक्षाकरस्तु कः ॥यादवैः सहिता ह्येते किं करिष्यंति पौरुषम् ॥१८॥कृष्णाद्या यादवाः सर्वे विहाय मथुरां पुरीम् ॥गताः समुद्रं शरणं युद्धं त्यक्त्वा भयाच्च नः ॥१९॥राज्यं दत्तं पुरा ह्येषामस्माभिश्च कृपान्वितैः ॥कृतघ्नास्ते च मन्यंते स्वात्मानं चक्रवर्तिनम् ॥२०॥पांडवानां च सम्मानाद्यादवा न हि मारिताः ॥निष्कासिताश्च तेऽस्माभिः पांडवाः शत्रवः किल ॥२१॥यदूनद्य विनिर्जित्य संग्रामे च पलायितान् ॥दर्शयामश्चाहुकाय सहसा चक्रवर्तिताम् ॥२२॥एवं श्रीकृष्णविमुखा वाचः सर्वे वदंति हि ॥तृप्तास्ते कौरवा राजञ्छ्रिया राजविभूतिभिः ॥२३॥ततश्च जगृहुः सर्वे नानाशस्त्राणि वेगतः ॥हयं प्रवेशयामासुः पुरे तत्र तु संस्थिताः ॥२४॥गते च तुरगे दूरं सांबः कृष्णेन नोदितः ॥त्वरं कृष्णां समुत्तीर्य गंभीरां मार्गदायिनीम् ॥२५॥अक्षौहिणीभिर्दशभिः पृष्ठतो दंशितो रुषा ॥हस्तिनापुरमक्रूरयुयुधानादिभिर्ययौ ॥२६॥एवं ते यादवाः सर्वे हस्तिनापुरसन्निधौ ॥आयाता हयहर्तॄंश्च कौरवान्ददृशुः स्थितान् ॥२७॥ऊचुस्ते वीक्ष्य बलिनो लोकद्वयजिगीषवः ॥तान्सर्वांश्च तृणीकृत्य यादवाः कृष्णदेवताः ॥२८॥अहो बबंध कश्चाश्वं कस्य हृष्टः कृतांतराट् ॥प्राप्स्यते कस्तु संग्रामे नाराचैः परमां व्यथाम् ॥२९॥अहो वै किं न जानंति वृष्णीन्द्रं चक्रवर्तिनम् ॥उग्रसेनं राजराजं देवदानववंदितम् ॥३०॥राजसूयस्य कर्त्तारमद्वितीयं नृपेश्वरम् ॥नृपाः स्वात्मविनाशाय गृह्णंति तुरगं ततः ॥३१॥हेमांगदश्चेंद्रनीलो बको भीषण एव च ॥बल्वलश्च नृपाः सर्वे रणेऽस्माभिर्विनिर्जिताः ॥३२॥इति श्रुत्वा कौरवास्ते क्रोधप्रस्फुरिताधराः ॥प्रत्यूचुस्तान्हि पश्यंतस्तिरश्चीनैश्च चक्षुभिः ॥३३॥कौरवानुगा ऊचुः -गृहीतस्तुरगोऽस्माभिर्यूयं किं नु करिष्यथ ॥युष्मान्सर्वान्नयिष्यामः सायकैर्यमसादनम् ॥३४॥उग्रसेनः कतिदिनै राज्यं लब्ध्वा तु कृष्णतः ॥मानं करोति तं बद्ध्वा राज्यं कुर्मो वयं किल ॥३५॥अनिरुद्धस्तु कुत्रास्ते ह्यस्माकं च भयाद्गतः ॥वदतैनं शरैर्युद्धे पूजयामो न संशयः ॥३६॥गर्ग उवाच -इति तेषां वचः श्रुत्वा यादवाः क्रोधमूर्च्छिताः ॥चिक्षिपुः सायकांश्चापैः कौरवाणां मुखेषु च ॥ ३७॥केचिद्बभूवुर्बाणैश्च छिन्नजिह्वाश्च कौरवाः ॥भग्नदंताश्छिन्नमुखा वमंतो रुधिरं बहु ॥३८॥दुर्योधनं छिन्नमुखा निहतास्ते ययुर्द्रुतम् ॥पृष्टास्ते कथयामासुर्यादवैः प्रकृतं च तत् ॥ ३९॥इति श्रीगर्गसंहितायां हयमेधखण्डेकौरवैः श्यामकर्णग्रहणं नामाष्टचत्वारिंशोऽध्यायः ॥४८॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP