संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ५१ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ५१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यादवगणानां कौन्तलपुरगमनम् Translation - भाषांतर गर्ग उवाच -अथ कृष्णस्तु भगवान्यादवानां च पालनम् ॥कृत्वा मिलित्वा प्रययौ रथेनापि कुशस्थलीम् ॥१॥कृष्णे गतेऽनिरुद्धस्तु हयं संपूज्य यत्नतः ॥बंधनान्मोचयामास विजयार्थे नृपेश्वर ॥२॥मुक्तस्तुरंगः प्रययौ देशान्देशान्विलोकयन् ॥पृष्ठतस्तस्य राजेंद्र त्वरं जग्मुश्च वृष्णयः ॥३॥दुर्योधनं जितं श्रुत्वा भूपास्तु तं तुरंगमम् ॥प्राप्तं न जगृहू राष्ट्रे कृष्णस्य बलिनो भयात् ॥४॥अथाव्रजत्तुरंगोऽयं शृण्वन्पश्यन्नितस्ततः ॥संप्राप्तोऽभूद्द्वैतवने यत्र राजा युधिष्ठिरः ॥५॥भ्रातृभिर्भार्यया सार्द्धं वनवासं करोति हि ॥तस्मिन्वने भीमसेनो वनद्वीपगणैः सह ॥६॥नित्यं करोति क्रीडां वै बालः क्रीडनकैरिव ॥ददर्श तुरगं तत्र तं वनं गह्वरं महत् ॥७॥न्यग्रोधाश्वत्थबिल्वैश्च खर्जूरपनसैस्तथा ॥बकुलैः सप्तपर्णैश्च तिंदुकैस्तिलकैरपि ॥८॥शालैस्तालैस्तमालैश्च बदरीलोध्रपाटलैः ॥बब्बूरशाल्मलीवेणूपलाशादिभीरन्वितम् ॥९॥आगतं घोटकं दृष्ट्वा दुर्जरे निर्जने वने ॥वराहमृगशार्दूलवृकसर्पगणैर्युते ॥१०॥झिल्लीझंकारसंयुक्ते गृध्रचिल्लादिभिर्युते ॥वृते तथा भुजंगैश्च वल्मीकादर्द्धनिःसृतैः ॥११॥शृगालमर्कमहिषगवयादिभिरन्विते ॥नीलगोगजभल्लूकमार्जारैर्वनमानुषैः ॥ १२॥युक्ते भयंकरे राजन्भीमो भीमपराक्रमः ॥अश्वं जग्राह केशेषु सपत्रं नृप लीलया ॥१३॥केनोत्सृष्टं वदन्वाक्यं स्वाश्रमं प्रययौ शनैः ॥तदैव चानिरुद्धाद्या आजग्मुः सर्वयादवाः ॥१४॥पश्यंतो यज्ञगन्धर्वमरण्ये नृप कृच्छ्रतः ॥दृष्ट्वा गृहीतं तुरगमूचुस्ते तु परस्परम् ॥१५॥अहो वनचरो ह्येष दृश्यते भीमसेनवत् ॥बृहद्बाहुर्महापुष्टो महोच्चो रक्तलोचनः ॥१६॥महागौरः कृच्छ्रधरो धूलिलिप्तो गदाधरः ॥इत्थं ब्रुवंतस्ते सर्वे पुनरूचुश्च तं जनम् ॥१७॥कस्त्वं श्रीराजराजन्यहयं नीत्वा क्व यास्यसि ॥तस्मान्मोचय शीघ्रं त्वां न चेद्धन्मो शिलीमुखैः ॥१८॥इति तद्वाक्यमाकर्ण्य हयं बद्ध्वा च गह्वरे ॥जगाम स्वगदां गुर्वीं भारायुतसमन्विताम् ॥१९॥तया जघान संग्रामे यादवान्भीमविक्रमः ॥निपेतुर्वृष्णयस्तत्र भीमेन निहताश्च ये ॥२०॥अनिरुद्धस्ततः क्रुद्धो दृष्ट्वा तस्य पराक्रमम् ॥सहस्रवारणान्मत्तान्नोदयामास शत्रवे ॥२१॥ततः सदिग्गजैः सोऽपि भूभृच्छिखरसन्निभैः ॥पातितो धरणीपृष्ठे विषाणैरवपीड्यते ॥२२॥ततो भीमः समुत्थाय क्रोधत्प्रस्फुरिताधरः ॥मत्तान्गजाञ्जघानाथ गदया वज्रकल्पया ॥२३॥कांश्चिच्चिक्षेप गगने काँश्चिद्भूमौ व्यपोथयत् ॥काँश्चिन्ममर्द पादाभ्यां गजान्काँश्चिद्गजेषु च ॥२४॥ततश्च दुद्रुवुः सर्वे वारणा भयविह्वला: ॥तदाऽऽजगाम संक्रुद्धो गदस्तत्र गदाधरः ॥२५॥गत्वा तत्सन्निधौ सोऽपि ज्ञात्वा भीमं तु शंकितः ॥उवाच नत्वा हे वीर कस्त्वं वद ममाग्रतः ॥२६॥सोऽब्रवीद्भीमसेनोऽहं जित्वा द्यूतेन हे गद ॥दुर्योधनेन रिपुणा पुरान्निष्कासिता वयम् ॥२७॥अत्रस्थानाद्योजने तु भ्रातृभिश्च युधिष्ठिरः ॥करोति वनवासं वै ह्यहो दैवस्य मायया ॥२८॥वने वर्षा गताश्चाष्टौ चत्वारस्त्ववशेषिताः ॥वर्षमात्रं करिष्यामोऽज्ञातवासं वयं पुनः ॥२९॥अर्जुनस्तु गतः स्वर्गमाहूतो वासवेन च ॥अहं न जाने तु कदाऽऽगमिष्यति महीतले ॥३०॥गद त्वं तु यदूनां च कुशलं कथयस्व नः ॥तुरगः कस्य भूपस्य किमर्थं यूयमागताः ॥३१॥इत्युक्त्वा मीमसेनस्तु रुरोदाश्रुपरिप्लुतः ॥दुर्योधनकृतान्क्लेशान्संस्मरन्दुःखपूरितः ॥३२॥इति श्रुत्वा स तद्वाक्यं तं समाश्वास्य दुःखितः ॥भीमाय कथयामास वार्तां सर्वां च विस्तरात् ॥३३॥श्रुत्वा भीमस्तु मुदितोऽनिरुद्धाद्यैर्यदूत्तमैः ॥समन्वितस्तु प्रययौ धर्मपुत्रस्य सन्निधौ ॥३४॥आगतान्यादवाञ्छ्रुत्वाजातशत्रुः प्रहर्षितः ॥आनेतुं निर्ययौ राजन्नकुलाद्यैः समन्वितः ॥३५॥नेमुस्तं यादवाः सर्वे सोऽपि दत्वा वराशिषम् ॥निवासयामास मुदा सर्वान्द्वैतवने नृप ॥३६॥आगतेभ्यश्च सर्वेभ्यो यथायोग्यं यथारुचि ॥प्रददौ भोजनं राजा स्थाल्या भास्करदत्तया ॥३७॥उषित्वा रजनीमेकां प्रभाते कार्ष्णिनंदनः ॥क्रतोर्निमंत्रणं दत्त्वा पाडवेभ्यः परंतप ॥३८॥यादवैः सहितः शीघ्रं मोचयित्वा तुरंगमम् ॥ययौ सारस्वतान्देशान् तुरगस्य च पृष्ठतः ॥३९॥अशूराँश्च बहून्देशांस्त्यक्त्वा तुरगराट् ततः ॥स्वेच्छया विचरन् राजन् ययौ कौंतलकं पुरम् ॥४०॥तस्मिन्पुरे महाराज चन्द्रहासश्च वैष्णवः ॥पालितो यः कुलिन्देन केरलाधिपतेः सुतः ॥४१॥कृष्णदेवप्रसादेन राज्यं तत्र करोति हि ॥कथास्तस्यापि भक्तस्य राजञ्जैमिनिभारते ॥४२॥अर्जुनाग्रे विस्तराद्वै नारदेन तु वर्णिताः ॥तस्मिन्पुरे नराः सर्वे कृष्णभक्ता वसंति हि ॥४३॥ब्रह्मण्याः पुण्यकर्त्तारः परदारपराङ्मुखाः ॥स्वदारनिरताः सर्वे कृष्णपूजनतत्पराः ॥४४॥गोविंदगाथां शृण्वंति पुराणानि तथैव च ॥जपंति तत्र नामानि राधामाधवयोर्मुदा ॥४५॥तुलसीमालिकाभिश्च ह्यूर्ध्वपुंड्रधरा द्विजाः ॥गोपीचन्दनकाश्मीरैर्हरिमंदिरचर्चिताः ॥ ४६॥श्यामबिंदुधराः सर्वे श्रीधराः केचिदेव हि ॥तिलकैर्द्वादशैर्युक्ताश्चाष्टमुद्राधराः पराः ॥४७॥गृहस्थाः शीतलां मुद्रां गोपीचन्दसंयुताम् ॥नित्यं विप्रादयो वर्णाः प्रभाते धारयन्ति हि ॥४८॥अग्निसंस्कारणार्थं तु विरक्ताः केचिदेव हि ॥तप्तमुद्रां धारयंति केचित्संन्यासिनस्तथा ॥४९॥तस्मिन्पुरे हयः पश्यन्प्राप्तोऽभूद्राजमंदिरे ॥यत्र राजति राजा तु चन्द्रहासश्च चन्द्रवत् ॥५०॥इति श्रीगर्गसंहितायां हयमेधखण्डेकौंतलपुरगमनं नामैकपंचाशत्तमोऽध्यायः ॥५१॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP