संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः १४ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः १४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अनिरुद्धस्य दिग्विजययात्रा Translation - भाषांतर गर्ग उवाच -अथ तन्मिलनार्थं वै उग्रसेनाज्ञया नृप ॥वसुदेवः कामपालः श्रीकृष्णः कार्ष्णिरेव च ॥१॥अन्येऽपि यादवा राजन् रथैः सर्वे विनिर्ययुः ॥गत्वानिरुद्धं ददृशुः सेनया तु परीवृतम् ॥२॥प्रद्युम्नाय राजसूये या नीतिः कथिता पुरा ॥तां सर्वामनिरुद्धाय कथयामास माधवः ॥३॥इति श्रुत्वा च कृष्णस्य शासनं सर्वयादवाः ॥शिरसा जगृहू राजन्ननिरुद्धादयो मुदा ॥४॥अथ गर्गं मुनींश्चैव वसुदेवं हलायुधम् ॥श्रीकृष्णचन्द्रं कार्ष्णिं च प्राद्युम्निः प्रणनाम ह ॥५॥वसुदेवरामकृष्णप्रद्युम्नाद्याः शुभाशिषम् अनिरुद्धाय दत्वा च प्रविष्टास्ते पुरीं रथैः ॥६॥अथानिरुद्धस्य हयो देशे देशे गतो नृप ॥न केऽपि जगृहुस्तं वै भयात्कृष्णस्य भूमिपाः ॥७॥यत्र यत्र गतो वाजी तत्र तत्र ससैनिकः ॥कार्ष्णिजः पृष्ठतस्तस्य जेतुं शत्रून्गतः किल ॥८॥इत्थं विलोकयन्राज्याननिरुद्धतुरंगमः ॥राजितां नर्मदातीरे ययौ माहिष्मतीं पुरीम् ॥९॥चातुर्वर्ण्यसमाकीर्णामश्मदुर्गेण मंडिताम् ॥सदनैर्गगनस्पर्शैर्महेशस्यालयैर्वृताम् ॥१०॥इन्द्रनीलेन राज्ञापि पालितां पञ्चयोजनम् ॥शालैस्तालैस्तमालैश्च वटैर्बिल्वैश्च पिप्पलैः ॥११॥तडागैश्चैव वापीभिर्घुष्टां पक्षिगणैस्तथा ॥ईदृशीं नगरीमश्वो ददर्शोपवने गतः ॥१२॥इंद्रनीलस्य तनयो नाम्ना नीलध्वजो बली ॥पुर्याः सहस्रवीरैश्च मृगयार्थी विनिर्गतः ॥१३॥ततो ददर्श तुरगं सपत्रं नृपनंदनः ॥प्रफुल्लिते चोपवने कदंबस्य तले स्थितम् ॥१४॥चरंतं चामरैर्युक्तं सौरभेयीपयःप्रभम् ॥स्त्रीणां कुंकुमहस्तैश्च मुक्ताहारैरलंकृतम् ॥१५॥हयं दृष्ट्वा राजसुता स्ववाहादवतीर्य च ॥केशेषु तं निजग्राह हर्षेण नृप लीलया ॥१६॥तत्पत्रं वाचयामास यादवेंद्रेण यत्कृतम् ॥द्वारकाधिपती राजा सर्वशूरशिरोमणिः ॥१७॥नान्योऽस्ति तत्समःकोऽपि चक्रवर्तीबृहच्छ्रवाः ॥विमोचितस्तुरगराट् तेनासौ पत्रसंयुतः ॥१८॥पाल्यमानोऽनिरुद्धेन गृह्णंतु सबला नृपाः ॥तस्यान्यथा प्रपदयोः पतित्वा यांतु क्षत्रियाः ॥१९॥इत्यभिप्रायमालोक्य कोपेनाह नृपात्मजः ॥अनिरुद्धो धनुर्द्धारी धन्विनो न वयं स्मृताः ॥२०॥मत्पितरि स्थिते मह्यां कस्तु गर्वं समाचरेत् ॥श्रीगर्ग उवाच -इत्युक्त्वा स हयं नीत्वा प्रययौ नृपसन्निधौ ॥२१॥कथयामास वृत्तांतं पितुरग्रे हयस्य च ॥श्रुत्वा पुत्रस्य वचनमिंद्रनीलो महीश्वरः ॥२२॥शिवभक्तो महामानी पुत्रं प्राह महाबलः ॥इंद्रनील उवाच -समर्थेन पुरा दत्तं राजसूये क्रतूत्तमे ॥२३॥प्रद्युम्नाय बलिं किंचित्कुमंत्रिवचनान्मया ॥अद्यानिरुद्धस्तु हयं पालयन्पुनरागतः ॥२४॥अहो दैवबलं येन किन्न भूयाद्विपर्य्ययः ॥गता वृद्धिं द्वारकायामल्पकालेन वृष्णयः ॥२५॥तस्मात्सर्वान्विजेष्यामि कार्ष्णिजप्रमुखान्यदून् ॥श्यामकर्णं न दास्यामि तस्मै मानवृताय च ॥२६॥पालयिष्यति मां युद्धे भक्त्या संतोषितः शिवः ॥इत्युक्त्वा सेनया युक्तो वीरो माहिष्मतीपतिः ॥२७॥स्वर्णदाम्ना हयं बद्ध्वा युद्धं कर्तुं मनो दधे ॥ततोऽनिरुद्धः संप्राप्तो तुरगं च विलोकयन् ॥२८॥अक्षौहिणीशतयुतो नर्मदायास्तटे नृप ॥सांबो मधुबृहद्बाहुश्चित्रभानुर्वृकोऽरुणः ॥२९॥संग्रामजित्सुमित्रश्च दीप्तिमान्भानुरेव च ॥वेदबाहुः पुष्करश्च श्रुतदेवः सुनंदनः ॥३०॥विरूपश्चित्रबाहुश्च न्यग्रोधश्च कविस्तथा ॥एते समाययू राजन्ननिरुद्धसहायिनः ॥३१॥गदश्च सारणोऽक्रूरः कृतवर्मा हि चोद्धवः ॥युयुधानो सात्यकिश्च शूरा एते च वृष्णयः ॥३२॥सहायमनिरुद्धस्य कर्तुं सर्वे समागताः ॥स्थित्वा ते नर्मदतीरे भोजवृष्ण्यंधकादयः ॥३३॥श्यामकर्णमपश्यंतस्त्वब्रुवन् विस्मयान्विताः ॥केन नीताः सपत्राश्च उग्रसेनस्य भूपतेः ॥३४॥तस्मान्मित्राणि सोऽप्यत्र श्यामकर्णो न दृश्यते ॥राजसूये पुरा यस्मै नरदैत्यसुरादयः ॥३५॥नवखंडाधिपाश्चैव निर्जितश्च बलिं ददुः ॥यस्य वै शासनं चंडं तिरस्कृत्य कुधीर्नृपः ॥३६॥तुरगं हतवान्मानात्स स्तेनो दंडमर्हति ॥सर्वेषामिति वाक्यं तु श्रुत्वा दृष्ट्वा पुरीं पुरः ॥३७॥उद्धवं मंत्रिणां श्रेष्ठं प्राह रुक्मवतीसुतः ॥अनिरुद्ध उवाच -नगरीयं नदितीरे कस्य भूपस्य राजते ॥३८॥तुरंगमो गतोऽस्त्यस्यामिति मन्ये त्वहं किल ॥इति तद्वाक्यमाकर्ण्य प्राह कृष्णसखो मुदा ॥३९॥उद्धव उवाच -इंद्रनीलस्य नगरी नाम्ना माहिष्मती शुभा ॥महेशपूजनरता वर्णा यस्यां वसंति हि ॥४०॥नृपेणानेन वृष्णीश नर्मदायास्तटे पुरा ॥द्वादशवर्षपर्यंतं पूजितो नर्मदेश्वरः ॥४१॥ततः शिवः प्रसन्नोऽभूदुपचारैश्च षोडशैः ॥तस्मै स्वदर्शनं दत्त्वा वरार्थं तमनोदयत् ॥४२॥महेशस्य वचः श्रुत्वा नृपो माहिष्मतीपतिः ॥भूत्वा कृतांजली रुद्रं प्राह गद्गदया गिरा ॥४३॥ईशान त्वां नमस्येऽहं नर्मदेशं जगद्गुरुम् ॥पुरुषाणां सकामानां कामरूपसुरद्रुमम् ॥४४॥त्वत्तः प्रदातुः कांक्षेऽहं वरमेतन्महेश्वर ॥देवदैत्यनरेभ्यस्त्वं रक्ष मां सर्वदा भयात् ॥४५॥इति तद्वाक्यमाकर्ण्य कृत्तिवासा मुदान्वितः ॥तथास्तु चोक्त्वा राजेंद्र ततश्चांतरधीयत ॥४६॥तस्मादेष नृपः शूरो हयं तुभ्यं न दास्यति ॥विना युद्धेन रुद्रस्य वरात्कंदर्पनंदन ॥४७॥इत्थमौपगवेर्वाक्यमनिरुद्धो निशम्य च ॥बली धैर्येण प्रत्याह यादवानां च शृण्वताम् ॥४८॥नृपस्यैतस्य रुद्रस्तु सहायस्ते ह्युदाहृतः ॥तथा कृष्णस्तु भगवाञ्छृणु मंत्रिन्ममोपरि ॥४९॥इत्युक्त्वा यादवैः सार्द्धं वीरो रुक्मवतीसुतः ॥हयस्य मोचनार्थं वै नृपं जेतुं मनो दधे ॥५०॥ततः परिघनिस्त्रिंशगदाचापपरश्वधैः ॥बभूवुर्यादवाः सज्जाः प्राद्युम्नौ दंशिते स्थिते ॥५१॥इति श्रीगर्गसंहितायां हयमेधखण्डेअनिरुद्धप्रयाणं नाम चतुर्दशोऽध्यायः ॥१४॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP