संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः १५ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः १५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अनिरुद्ध-युद्धसज्जा Translation - भाषांतर श्रीगर्ग उवाच -अथेन्द्रनीलस्य सुतो महाबलोह्यक्षौहिणीभिस्त्रिभिरेव संयुतः ॥यदून्विजेतुं स्वपुराद्विनिर्गतोपितुश्च वाक्याद्बहुरोषपूरितः ॥१॥तमागतं वीक्ष्य नृपस्य पुत्रंश्रीकृष्णपौत्रस्तु धनुर्गृहीत्वा ॥युद्धं प्रकर्तुं प्रययौ स एकोवृत्रं विजेतुं च यथा विडौजाः ॥२॥गत्वानिरुद्धः संग्रामे शत्रूणामुपरि त्वरम् ॥मुमोच बाणपटलान्सर्वेषां त्रासयन्मनः ॥३॥ततश्च दुद्रुवुः सर्वे नीलकेतोश्च सैनिकाः ॥रणाद्भीताः स्वशंखं च दघ्मौ प्रद्युम्ननंदनः ॥४॥पलायमानां स्वां सेनां दृष्ट्वा नीलध्वजो बली ॥चापं टंकारयञ्छीघ्रमाययौ रणमंडले ॥५॥सेनां स्वां नोदयामास पुनः सोऽपि धनुर्ज्यया ॥द्विषां मध्येऽनिरुद्धं तं दृष्ट्वा नीलध्वजो बली ॥६॥धनुष्टंकारयन्प्राप्तो ह्यक्षौहिण्यावृतो रुषा ॥विंशद्बाणैर्नीलकेतुं पंचभिः पंचभी रथान् ॥७॥अताडयद्गजांश्चैव तथा सतुरगान्नरान् ॥भूम्यां निपेतुस्ते सर्वे सांबबाणैः प्रताडिताः ॥८॥गजोपरि गजाः केचिद्रथोपरि रथास्तथा ॥हयोपरि हयाश्चैव नरोपरि नराश्च वै ॥९॥तत्क्षणेनाप्यभूद्भूमी रुधिरौघपरिप्लुता ॥पतितैश्छिन्नभिन्नैश्च द्विपाश्च रथपत्तिभिः ॥१०॥ततः प्रभग्नं स्वबलं विलोक्यनीलध्वजो भूपधनुर्गृहीत्वा ॥बाणान्विमुंचन्किल यादवानांजेतुं मनो यस्य स चागमद्वै ॥११॥स गत्वा प्रधने राजन्दशबाणै रुषान्वितः ॥चापं सांबस्य चिच्छेद प्रेम दुर्वचनैरिव ॥१२॥चतुर्भिश्चतुरो वाहान्द्वाभ्यां केतुं रथं शतैः ॥एकेन जघ्ने सूतं स इन्द्रनीलसुतो बली ॥१३॥एवं कृत्वा च विरथं सांबं वै नृपनंदनः ॥पुनः समागतां तस्य सेनां बाणैर्जघान ह ॥१४॥अथ नीलध्वजस्यापि सेना सर्वा समागता ।यादवानां बलं संख्ये जघान निशितैः शरैः ॥ १५ ॥ततः समभवद्युद्धमुभयोः सेनयोर्मृधे ॥निस्त्रिंशैः परिघैर्बाणैर्गदापरुषशक्तिभिः ॥१६॥सांबोऽन्यं रथमारुह्य सज्जं कृत्वा धनुर्दृढम् ॥तद्रथं चूर्णयामास शतबाणै रणे बली ॥१७॥स च्छिन्नधन्वा विरथो गदामुद्यम्य वेगवान् ॥अभ्यधावद्रणे क्रुद्धो सांबस्योपरि मानद ॥१८॥तदैव सांबं सहसावतीर्याथ रथाद्गदाम् ॥नीत्वा नीलध्वजस्यापि संमुखे गतवान् रुषा ॥१९॥तताड गदया सांबमागतं वीक्ष्य भूपजः ॥न चचाल प्रहारेण मालाहतगजो यथा ॥२०॥ततः सांबस्तु गदया तताड नृपनन्दनम् ॥तत्प्रहारेण पतितो मूर्छां प्राप्तो रणे तु सः ॥२१॥सैनिका दुद्रुवुस्तस्य हाहाकारं समुच्चरन् ॥ततो युद्धाय संक्रुद्ध इन्द्रनीलः समागतः ॥२२॥साकमक्षौहिणीभ्यां च विमुंचन्धनुषा शरान् ॥तमागतं विलोक्याथ मधुः कृष्णसुतो बलो ॥२३॥धानुष्को विरथं चक्र इन्द्रनीलं शिलीमुखैः ॥सेनां समागतां तस्य युयुधानोऽर्जुनप्रियः ॥२४॥शरैर्विव्याध समरे मैत्रीं दुर्वचनैरिव ॥ततश्च यादवैर्मुक्तो नृपो माहिष्मतीं ययौ ॥२५॥गत्वा पुर्यां च दुःखार्तः सस्मार स्वपतिं शिवम् ॥अथ तस्मै शिवः साक्षाद्दत्वा दर्शनमुत्तमम् ॥२६॥पप्रच्छ सर्ववृत्तांतं श्रुत्वा स तु न्यवेदयत् ॥इत्थं निशम्य वचनं प्रत्याह प्रमथेश्वरः ॥२७॥शिव उवाच -शोकं मा कुरु राजेंद्र मद्वरोऽपि मृषा न हि ॥दैवदैत्यनराः सर्वे त्वा विजेतुं न च क्षमाः ॥२८॥एते कृष्णसुता राजञ्छ्रीकृष्णस्यांशसंभवाः ॥न देवा ये महाराज न दैत्या न च मानुषाः ॥२९॥एतैर्विनिर्जितस्त्वं तु दुर्मना भव मा नृप ॥अपराधं तु कृष्णस्य कर्तुं नार्हसि भूपते ॥३०॥समागतेभ्य एतेभ्यस्तस्मात्त्वं विधिना नृप ॥शीघ्रं प्रयच्छ भद्रं ते हयमेधतुरंगमम् ॥३१॥इत्युक्त्वांतर्दधे रुद्रो नृपो ज्ञात्वा जगत्पतेः ॥माहात्म्यं च मुदा युक्तो गृहीत्वा क्रतुवाहनम् ॥३२॥नीलध्वजेन सहितो रत्नान्यादाय भूरिशः ॥स्वर्णभारशतं चैव मतंगजसहस्रकम् ॥३३॥नियुतं घोटकानां च ह्यादाय स्यंदनायुतम् ॥यत्रानिरुद्धः प्रययौ नमस्कर्तुं जनैर्वृतः ॥३४॥अनिरुद्धस्य निकटे गत्वा राजा विधानतः ॥सर्वं निवेदयामास नत्वा वचनमब्रवीत् ॥३५॥इन्द्रनील उवाच -नमः कृष्णाय रामाय प्रद्युम्नाय महात्मने ॥नमो नमोऽनिरुद्धाय सात्वतां प्रवराय च ॥३६॥आदेशो दीयतां मह्यं किं करोम्यसुरार्दन ॥अनिरुद्धस्तु तं प्राह मया सह नृपोत्तम ॥३७॥शत्रुभ्यश्च मित्रहयं पालय त्वं हि मामकम् ॥गर्ग उवाच -इति तस्य वचः श्रुत्वा तथेत्युक्त्वा नृपो नृप ॥३८॥नीलध्वजाय राज्यं तु दत्वा गंतुं मनो दधे ॥३९॥इति श्रीगर्गसंहितायां हयमेधखण्डे अनिरुद्धविजयवर्णनं नाम पंचदशोऽध्यायः ॥१५॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP