संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः १ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः १ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता गर्ग-वज्रनाभसंवादम् Translation - भाषांतर मंगलाचरणम्नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१॥नमः श्रीकृष्णचंद्राय नमः संकर्षणाय च ॥नमः प्रद्युम्नदेवायानिरुद्धाय नमो नमः ॥२॥श्रीगर्ग उवाच -सभायामागतं वीक्ष्य रोमहर्षणनन्दनम् ॥शौनकः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥१॥शौनक उवाच -त्वन्मुखात्सर्वशास्त्राणि पुराणानि महामते ॥नानाहरिचरित्राणि श्रुतानि विमलानि वै ॥२॥पुरा गर्गेण कथिता ममाग्रे गर्गसंहिता ॥राधामाधवयोर्यस्यां महिमा बहु वर्णितः ॥३॥अद्याहं श्रोतुमिच्छामि त्वत्तः कृष्णकथां पुनः ॥सर्वदुःखहरां सौते कथयस्व विचार्य च ॥४॥श्रीगर्ग उवाच -अष्टाशीतिसहस्रैश्च मुनिभी रौमहर्षणिः ॥पृष्टः प्रोवाच कृष्णस्य स्मरन्पादांबुजं हरेः ॥५॥सौतिरुवाचअहो शौनक धन्योऽसि यस्य ते मतिरीदृशी ॥कृष्णचंद्रपदद्वन्द्वमकरंदस्पृहावती ॥६॥संगमं वैष्णवानां च देवाः श्रेष्ठं वदंति हि ॥पापक्षयकरी यस्माच्छ्रीकृष्णस्य कथा भवेत् ॥७॥अनंतं कृष्णचंद्रस्य चरितं कल्मषापहम् ॥किंचिज्जानाति ब्रह्मा च तथा किंचिदुमापतिः ॥८॥मशको मादृशः कोऽपि वासुदेवकथार्णवे ॥मोहिता न वदिष्यन्ति यत्र ब्रह्मादयः सुराः ॥९॥श्रीगर्गो यादवेंद्रस्य ह्युग्रसेनस्य भूपतेः ॥अश्वमेधं क्रतुवरं दृष्ट्वा प्रत्याह चैकदा ॥१०॥धन्यो राजा यादवेंद्रो यश्चकार क्रतूत्तमम् ॥श्रीकृष्णस्याज्ञया पुर्यां तेनाहं विस्मयं गतः ॥११॥मया वै संहितायां च कथाः कृष्णस्य वर्णिताः ॥परिपूर्णतमस्यापि यथा दृष्टा यथा श्रुताः ॥१२॥तस्यां वै वाजिमेधस्य कथा न कथिता मया ॥अद्याहं कथयिष्यामि हयमेधकथां पुनः ॥१३॥यस्याः श्रवणमात्रेण नराणां हि कलौ युगे ॥भुक्तिं मुक्तिं च भगवाञ्छीघ्रमेव प्रयच्छति ॥१४॥इत्युक्त्वा श्रीमुनिर्गर्गः कृष्णभक्त्या च शौनक ॥उग्रसेनस्य यज्ञस्य चरित्रं स ह्यचीक्लृपत् ॥१५॥हयमेधचरित्रस्य सुमेरुर्नाम सुन्दरम् ॥धृत्वा गर्गस्तु भगवान्कृतकृत्योऽभवन्मुने ॥१६॥कृत्वा कथामष्टदिनेन श्रीमुनि-र्यदोर्गुरुर्बुद्धिमतां वरः परः ॥अथाययौ वै मथुरां हरेः पुरींव्रजं नृपेंद्रं च निरीक्षितुं खलु ॥१७॥अंबरादागतं तत्र गर्गं ज्ञानवतां वरम् ॥वीक्ष्योत्थाय नमश्चक्रे वज्रनाभो द्विजैः सह ॥१८॥स्वर्णसिंहासनं दत्त्वावनिज्य तत्पदाम्बुजे ॥अर्चयित्वा पुष्पस्रग्भिर्मिष्टान्नं च न्यवेदयत् ॥१९॥तत्पादसलिलं नीत्वा शीर्षे धृत्वा कृतांजलिः ॥भूत्वा श्रीवज्रनाभस्तु श्यामः पंकजलोचनः ॥२०॥पुष्टदेहो बृहद्बाहुर्वीरः षोडशवार्षिकः ॥इति होवाच स्वगुरुं शतसिंहसमोद्भटः ॥२१॥वज्रनाभ उवाच -नमस्तुभ्यं स्वागतं ते ब्रह्मन्किं करवाम ते ॥मन्ये त्वां भगवद्रूप ब्रह्मर्षीणां वरं परम् ॥ २२॥गुरुर्विधिर्गुरू रुद्रो गुरुरेव बृहस्पतिः ॥गुरुर्नारायणः साक्षात्तस्मै श्रीगुरवे नमः ॥२३॥नराणां च मुनिश्रेष्ठ दर्शनं तव दुर्लभम् ॥अस्माकं नितरां देव विषयासक्तचेतसाम् ॥२४॥गर्गाचार्य कुलाचार्य तेजस्विन् योगभास्कर ॥त्वद्दर्शनादपि वयं पाविताः सकुटुंबकाः ॥२५॥श्रुत्वा यदूनामृषभस्य वाक्यंमुनींद्रवर्यस्तु महान्महात्मा ॥स्मरन्हरेः श्रीचरणारविंदंमुदा नृपेंद्रं निजगाद सद्यः ॥२६॥युवराज महाराज यदुवंशशिरोमणे ॥त्वया साधु कृतं सर्वं पालिता पृथिवीजनाः ॥२७॥स्थापितश्च त्वया वत्स धर्मो वै पृथिवीतले ॥विष्णुरातश्च ते मित्रं नृपाश्चान्ये वशाः स्मृताः ॥२८॥धन्यस्त्वं राजशार्दूल धन्या ते मथुरा पुरी ॥धन्याश्च ते प्रजाः सर्वा धन्या वै व्रजभूश्च ते ॥२९॥भुंक्ष्व भोगान्भजन्कृष्णं बलं प्रद्युम्नमेव च ॥अनिरुद्धं च निःशंको भूत्वा राज्यं कुरु प्रभो ॥३०॥सूत उवाच -इति वाक्यं समाकर्ण्य गर्गस्य नृपसत्तमः ॥संकर्षणं च श्रीकृष्णं पितरं च पितामहम् ॥३१॥विरहेण स्मरन् राजा चाश्रुपूर्णमुखोऽभवत् ॥तं नृपं दुःखितं दृष्ट्वा स्थितं भूमावधोमुखम् ॥३२॥गर्गस्तु विस्मितः प्राह दुःखं प्रशमयन्निव ॥गर्ग उवाच -कस्माद्रोदिषि राजेंद्र भयं किं ते मयि स्थिते ॥३३॥कारणं स्वस्य दुःखस्य वद सर्वं ममाग्रतः ॥इति तद्वचनं श्रुत्वा राजा न प्राह दुःखितः ॥३४॥पुनः पृष्टश्च गुरुणा प्राह गद्गदया गिरा ॥राजोवाचमां त्यक्त्वा यादवाः सर्वे कृष्णसंकर्षणादयः ॥३५॥गता देव परं लोकं तेनाहं दुःखितोऽभवम् ॥स्वाम्यमात्यसुहृद्राष्ट्र-कोशदुर्गबलानि च ॥एकाकिनश्च मे ब्रह्मन्नेते प्रीतिकरा न हि ॥३७॥मया चरित्रं कृष्णस्य न दृष्टं न श्रुतं वद ॥दृष्टो यादवसंहारः तस्माद्दुःखं न याति मे ॥३७॥चतुर्व्यूहेन हरिणा या पुरी शोभिता पुरा ॥सापि मग्ना समुद्रे तु कृष्णो भक्तेः परं गतः ॥३८॥कस्य हेतोः किमर्थं च जीवामि शिष्यवत्सल ॥अद्य यास्यामि गहनं राज्यं कर्तुं न मे मनः ॥३९॥सूत उवाच -ततो मुनीनामृषभो महात्माश्रुत्वा गिरं यादवसत्तमस्य ॥संश्लाघ्य दुःखं शमयन् हि तुष्टोगर्गोऽब्रवीद्भूपतिवज्रनाभम् ॥४०॥गर्ग उवाच -वृष्णिप्रवर मद्वाक्यं शृणु शोकविनाशनम् ॥सर्वपापहरं पुण्यं सावधानतया शुभम् ॥४१॥यो राजते कुशस्थल्यां कृष्णचन्द्रो हरिः पुरा ॥विराजते स सर्वत्र भक्त्या तं पश्य भूपते ॥४२॥अद्य ते कथयिष्यामि भुक्तिमुक्तिप्रदां कथाम् ॥शृणु त्वं वसुधानाथ श्रीकृष्णबलयोः परम् ॥४३॥सूत उवाच -इत्युक्त्वा भगवान्गर्गो वज्राय स्वां च संहिताम् ॥कथयामास विप्रेंद्र पुण्यां नवदिनैः किल ॥४४॥इति श्रीगर्गसंहितायामश्वमेधचरित्रेसुमेरौ गर्गवज्रनाभसंवादे प्रथमोऽध्यायः ॥१॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP