संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ४ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कृष्णकृतं पारिजातहरणम् Translation - भाषांतर गर्ग उवाच -गत्वा स्वर्गं तु शक्राय दत्वा छत्रं मणिं तथा ॥अदित्यै कुण्डले कृष्णो दत्वाभिप्रायमब्रवीत् ॥१॥आभिप्रायं हरेर्ज्ञात्वा वासवो न ददौ द्रुमम् ॥देवाञ्जित्वा तदा पारिजातं जग्राह माधवः ॥२॥सूत उवाच -इति श्रुत्वा कथां राजा यादवो विस्मयान्वितः ॥पप्रच्छ स्वगुरुं भूयः श्रद्दधानो हरेर्गुणे ॥३॥ब्रह्मञ्शक्रस्तु देवेंद्रो जानन्कृष्णं हरिं परम् ॥अपराधं तु कृतवान्स कथं ब्रूहि तत्त्वतः ॥४॥कृष्णाग्रे कथितं सत्यभामया शक्रचेष्टितम् ॥तस्मान्मे विस्तराद्युद्धमिन्द्रमाधवयोर्वद ॥५॥गर्ग उवाच -अदित्या संस्तुतः कृष्णः शक्रवाक्याच्च नन्दनम् ॥वनं गत्वा पारिजातान्संददर्श बहून्द्रुमान् ॥६॥तेषां मध्ये महावृक्षं मंजरीपुञ्जधारिणम् ॥क्षीरोदमथनाज्जातं पद्मगंधसमन्वितम् ॥७॥सुराणां सुखदं ताम्रपल्लवैः परिवेष्टितम् ॥वने विभूषणं दिव्यं वरं स्वर्णसमत्वचम् ॥८॥तं दृष्ट्वा माधवं प्राह सत्यभामा च मानिनी ॥एनं गृह्णाम्यहं कृष्ण श्रेष्ठं सर्वं वने द्रुमम् ॥९॥इत्युक्तः प्रिययोत्पाट्य पारिजातं गरुत्मति ॥लीलयाऽऽरोपयामास प्रहसञ्जगदीश्वरः ॥१०॥तदैव कुपिताः सर्वे वनपालाः समुत्थिताः ॥धनुर्बाणधराः कृष्णमूचुः प्रस्फुरिताधराः ॥११॥इन्द्रप्रियाया वृक्षश्च हृतः कस्मात्त्वया नर ॥यदृच्छया किलास्माकं तृणीकृत्य क्व यास्यसि ॥१२॥इन्द्राणीप्रीतये देवैः पुरा ह्युदधिमंथने ॥उत्पादितोऽयं न क्षेमी गृहीत्वैनं भविष्यसि ॥१३॥गिरीणां येन सर्वेषां पक्षाः पूर्वं निपातिताः ॥तं किं वृत्रहणं वीरं जित्वा वृक्षं नयिष्यसि ॥१४॥तस्माद्गच्छ महावीर पारिजातं विहाय च ॥न दास्यामो द्रुमं तुभ्यं शक्रस्यानुचरा वयम् ॥१५॥यदा दास्यति तुभ्यं वै पारिजातं पुरंदरः ॥न निषेधं करिष्यामो वनपाला वयं तदा ॥१६॥तेषां भाषितमाकर्ण्य सत्यभामा रुषान्विता ॥तूष्णींभूते सति हरावभीता प्राह तान्नृप ॥१७॥सत्योवाच -का शची पारिजातस्य कः शक्रो वा सुरेश्वरः ॥सामान्यः सर्वलोकानां यदीशोऽमृतमंथने ॥१८॥समुत्पन्नः सुरः कस्मादेको गृह्णाति वासवः ॥यथा सुधा यथैवेंदुर्यथा श्रीर्वनचारिणः ॥१९॥सामान्यः सर्वलोकस्य पारिजातस्तथा द्रुमः ॥भर्तुबाहुमहागर्वा रुणद्ध्येनं मृषा शची ॥२०॥तत्कथ्यतामलं क्षान्त्या सत्याहारप्रतिद्रुमम् ॥कथ्यतां च द्रुतं गत्वा पौलोम्यै वचनं मम ॥२१॥सत्यभामा वदत्येतदतिगर्वोद्धताक्षरम् ॥यदि त्वं दयिता भर्तुर्यदि वश्यः पतिस्तव ॥२२॥मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥जानामि ते पतिं शक्रं युष्माञ्जानामि तत्वतः ॥२३॥पारिजातं तथाप्येनं मानुषी हरयामि ते ॥गर्ग उवाच -कृष्णप्रियाया वचनं वनपाला निशम्य च ॥२४॥इन्द्राणीनिकटं गत्वा प्रोचुः सर्वं यथोदितम् ॥रक्षकाणां वचः श्रुत्वा शची प्राह रुषान्विता ॥२५॥कृष्णं निवारणार्थाय न यास्यंतं पुरंदरम् ॥शच्युवाच -मदीयं पारिजातं वै माधवेन बलीयसा ॥२६॥गृहीतं स्वप्रियार्थे वै त्वां तृणीकृत्य वज्रिणम् ॥तस्मान्मोचय वृक्षेशं पाकसूदन वृत्रहन् ॥२७॥सत्यभामावशं कृष्णं विनिर्जित्य महारणे ॥त्वया वै पूर्वमद्रीणां पक्षा वज्रेण शातिताः ॥२८॥भयं विसृज्य युद्धाय गच्छ तस्मात्सुरैर्वृतः ॥इति श्रुत्वा शचीवाक्यं शक्रो नमुचिसूदनः ॥२९॥न चकार तु युद्धाय मनो भयसमन्वितः ॥ततश्च बहुशः पत्न्या प्रेरितः कोपयुक्तया ॥३०॥तदा कोपेन श्रीकृष्णं निन्दन्प्राह मदान्वितः ॥इन्द्र उवाच -येन ते परिजातं वै गृहीतं सुन्दरानने ॥३१॥मृधे तं पातयिष्यामि वज्रेण शतपर्वणा ॥इत्युक्त्वा वासवो राजन्नारुह्यैरावतं गजम् ॥३२॥शुण्डादंडैस्त्रिभिर्युक्तं रक्तकंबलमंडितम् ॥चतुर्भिः शोभितं दन्तैर्हिमाद्रिसदृशं शुभम् ॥३३॥स्वर्णशृङ्खलया जुष्टं शुशुभे निर्जरैर्वृतः ॥तथा मरुद्गणाः सर्वे यमाग्निवरुणादयः ॥३४॥रुद्राश्च द्वादशात्मानो वसवो धनदादयः ॥विद्याधराश्च गंधर्वाः साध्याः पितृगणादयः ॥३५॥ततस्त्रिंशत्कोटिसंख्याः शक्रस्यानुचराः सुराः ॥एते समागताः क्रुद्धा योद्धुं श्रीकृष्णसंमुखे ॥३६॥आहूताः केऽपि शक्रेण सहायार्थं तु स्वात्मनः ॥तथा तु नारदेनापि केचिद्देवास्तु प्रेषिताः ॥३७॥ततः परिघनिस्त्रिंशगदाशूलपरश्वधैः ॥बभूवुस्त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ॥३८॥इति श्रीगर्गसंहितायामश्वमेधचरित्रेसुमेरौ पारिजातहरणं नाम चतुर्थोऽध्यायः ॥४॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP