संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ७ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता उग्रसेनस्य अश्वमेधयज्ञोद्योगम् Translation - भाषांतर गर्ग उवाच -देवर्षिश्चैकदा राजन्दृष्ट्वा रामं च केशवम् ॥स्ववीणां वादयन्कृष्णगाथां गायन्समाययौ ॥१॥ब्रह्मलोकात्सर्वलोकान्पश्यन्भास्करसन्निभः ॥साकं तुंबरुणा पिंगजटाभारेण शोभितः ॥२॥किंचिच्छ्यामो मृगाक्षश्च काश्मीरतिलकैर्वृतः ॥पीतेन धौतवस्त्रेण तथा पीतांबरेण च ॥रंगवल्लीमालया च व्रजस्त्रीचंदनेन च ॥वृद्धः पंचदशाब्दैश्च मंडितः शुशुभे बहु ॥४॥दृष्ट्वा तमागतं राजा शक्रसिंहासने स्थितः ॥सुधर्मायां स चोत्थाय नत्वा सिंहासनं ददौ ॥५॥तदंघ्री चावनिज्याथ कृत्वा पूजनमुत्तमम् ॥तज्जलं मस्तके धृत्वा चोग्रसेनस्तमब्रवीत् ॥६॥उग्रसेन उवाच -अद्य मे सफलं जन्म सफलं सदनं च मे ॥अद्यमे सफलश्चात्मा देवर्षे तव दर्शनात् ॥७॥नमस्तस्मै भगवते नारदाय महात्मने ॥कामक्रोधविहीनाय ऋषीणां प्रवराय च ॥८॥किमर्थमागतोऽसि त्वमाज्ञां कुरु ममोपरि ॥निशम्य वचनं तस्य ऋषिर्निर्जरदर्शनः ॥९॥उवाच नृपशार्दूलं मनसा नोदितो हरेः ॥नारद उवाच -यादवेंद्र महाराज धन्यस्त्वं पृथिवीपते ॥१०॥त्वद्भक्त्या कौ निवसति बलेन सह केशवः ॥राजसूयः क्रतुवरः पुरा मद्वचनात्त्वया ॥११॥कृतः श्रीकृष्णकृपया द्वारकायां सुखेन च ॥येन त्रिलोके ते कीर्तिर्नृप विस्तारिता भुवि ॥१२॥राजसूयाश्वमेधौ च कठिनौ मंडलेश्वरैः ॥हरिभक्तस्य राजेन्द्र सुलभौ चक्रवर्तिनः ॥१३॥द्वयोर्मध्ये कृतश्चैको राजसूयस्त्वया नृप ॥तथा युधिष्ठिरेणापि कृतः कृष्णाज्ञया ततः ॥१४॥द्वापरांते भारते तु हयमेधः क्रतूत्तमः ॥न कृतः केन राज्ञापि मुक्तिदस्त्वघनाशनः ॥१५॥द्विजहा विश्वहा गोघ्नो वाजिमेधेन शुद्ध्यति ॥तस्माद्वरं च यज्ञानां हयमेधं वदंति हि ॥१६॥निष्कारणं नृपश्रेष्ठ वाजिमेधं करोति यः ॥व्रजेत्सुपर्णकेतोः स सदनं सिद्धदुर्लभम् ॥१७॥इति देवर्षिवचनमुग्रसेनो निशम्य च ॥हयमेधं यज्ञवरं कर्तुं चक्रे मतिं नृप ॥१८॥तदैव सह रामेण कृष्णं वीक्ष्यागतं नृपः ॥पूजयित्वाऽऽसने स्थाप्य साकं च ऋषिणाब्रवीत् ॥१९॥उग्रसेन उवाच -देवदेव जगन्नाथ जगदीश जगन्मय ॥वासुदेव त्रिलोकेश शृणुष्व वचमं मम ॥२०॥मत्पुत्रेण च कंसेन बालकाश्च सहस्रशः ॥विनापराधेन हरे मारिताश्च महासुरैः ॥२१॥तस्य मुक्तिश्च गोविंदं कथं भवति पापिनः ॥कस्मिँलोके गतः कंसो बालाघाती वदस्व मे ॥२२॥तस्य पापेनाहमपि भीतोऽस्मि जगदीश्वर ॥पुत्रस्य पापेन पिता नरके पतति ध्रुवम् ॥२३॥पितुः पापेन पतति निरये हि तथा सुतः ॥तस्माच्च किं कारिष्येऽहमुपायं वद माधव ॥२४॥कथितं नारदेनाद्य तच्छृणुष्व जगत्पते ॥विप्रहा विश्वहा गोघ्नो हयमेधेन शुध्यति ॥२५॥तस्मिन् यज्ञे मनो मेऽस्ति यदि चाज्ञां प्रदास्यसि ॥गर्ग उवाच -इति तस्य वचः श्रुत्वा मुदा मदनमोहनः ॥२६॥मनसि प्राह संपश्यन्धरां भारेण पीडिताम् ॥अहो मया तु बहुशो धराभारोऽवतारितः ॥२७॥तथापि सति कौ मध्ये सोऽश्वमेधेन नश्यति ॥नाहं हनिष्ये शत्रून् वै स्वहस्तेन मृधांगणे ॥२८॥इति प्रतिज्ञा तु कृता विदूरथवधे मया ॥तस्माच्च प्रेषयिष्यामि स्वपुत्रान् यादवांस्तथा ॥२९॥जेतुं वसुंधरां सर्वां हयमेधमिषेण च ॥इति वार्तां वज्रनाभे विष्वक्सेनो विचार्य च ॥३०॥सुधर्मायां च प्रहसन्नुग्रसेनमुवाच वै ॥श्रीकृष्ण उवाच -मया हतो महाराज कंसो वैकुंठमंदिरम् ॥३१॥गतो भूत्वा ममाकारः नित्यं वसति तत्र वै ॥तथा त्वमपि राजेंद्र विपापो दर्शनान्मम ॥३२॥तथापि हयमेधं त्वं यशोऽर्थे कुरु भूपते ॥यज्ञेन ते महत्कीर्तिः पृथिव्यां च भविष्यति ॥३३॥इति तत्कथितं श्रुत्वा कृष्णस्याक्लिष्टकर्मणः ॥उवाच परमं वाक्यमुग्रसेनो मुदा नृप ॥३४॥राजोवाचअद्य देव करिष्येऽहमश्वमेधं क्रतूत्तमम् ॥स भविष्यति शीघ्रं वै गोविंद कृपया तव ॥३५॥हयमेधस्य च विधिं सर्वं मे ब्रूहि विस्तरात् ॥इति श्रुत्वा च तद्वाक्यमवोचद्विष्टरश्रवाः ॥३६॥हयमेधविधिं पृच्छ देवर्षिं नारदं प्रति ॥स तवाग्रे च वदति सर्वज्ञाता यदूद्वह ॥३७॥इति वाक्यं हरेः श्रुत्वा यदुराजो मुदान्वितः ॥सभायां संस्थितं राजन्देवर्षिं निजगाद ह ॥३८॥तुरंगः कीदृशो भाव्यः कतिसंख्या द्विजोत्तमाः ॥दक्षिणा कीदृशी ब्रह्मन् वद मे कीदृशं व्रतम् ॥३९॥उग्रसेनस्य वचनमाकर्ण्य देवदर्शनः ॥स्मयमान इव प्राह प्रीत्या कृष्णं विलोकयन् ॥४०॥श्रीनारद उवाच -चंद्रवर्णं रक्तमुखं पीतपुच्छं मनोहरम् ॥सर्वांगसुंदरं दिव्यं श्यामकर्णं सुलोचनम् ॥४१॥प्रवदंति महाराज यज्ञेऽस्मिन्हयमीदृशम् ॥मधुमासे पूर्णिमायां मोच्योऽयं घोटको नृप ॥४२॥महावीरैः पालनीयो वर्षमात्रं हयोत्तमः ॥अश्वस्यागमनं यावद्भविष्यति स्वके पुरे ॥४३॥निवसेद्धैर्यसंयुक्तस्तावत्कर्ता प्रयत्नतः ॥यत्र यत्र पुरीषं च मूत्रं च कुरुते हयः ॥४४॥कर्तव्यं हवनं विप्रैर्दातव्यं गोसहस्रकम् ॥संलिख्य कांचनं पत्रं स्वनामबलचिह्नितम् ॥४५॥हयस्य भाले बद्ध्वा च कथनीयमिदं वचः ॥सर्वे शृणुत राजानो विमुक्तोऽस्ति हयो मया ॥४६॥कश्चिद्भूयः श्यामकर्णं प्रतिगृह्णातु चेद्बलात् ॥गृह्णाति यस्तं मानेन स जेतव्यो बलात्स्वयम् ॥४७॥विप्रा विंशतिसाहस्रा यज्ञादौ कीर्तिता नृप ॥वेदज्ञाः सर्वशास्त्रज्ञाः कुलीनाश्च तपस्विनः ॥४८॥अत्र ते कथयिष्यामि समर्थस्त्वं शृणुष्व च ॥वाजिमेधे महाराज विप्राणां दीर्घदक्षिणाम् ॥४९॥तुरगाणां सहस्रं च गजानां शतमेव च ॥द्विशतं स्यंदनानां च सहस्रं च गवां तथा ॥५०॥विंशद्भारं सुवर्णानां प्रदातव्यं द्विजे द्विजे ॥यज्ञस्यादौ तथा चांते ईदृशी दक्षिणा मता ॥५१॥असिपत्रव्रतं कृत्वा ब्रह्मचर्यसमन्वितः ॥कौ पत्न्या सार्द्धमेकत्र कुर्याच्च शयनं नीशि ॥५२॥वर्षमात्रं महाराज कर्तव्यं व्रतमीदृशम् ॥दीनानां च प्रदातव्यमन्नं वा बहुशो धनम् ॥५३॥विधिनानेन राजेंद्र क्रतुरेष भविष्यति ॥असिपत्रव्रतयुतो बहुपुत्रफलप्रदः ॥५४॥भीष्मं विना हि मदनं को विजेतुं भवेन्नरः ॥तस्माद्भीता न कुर्वंति कठिनं चैनमद्भुतम् ॥५५॥कामं प्रतिविजेतुं वै शक्तिस्ते विद्यते यदि ॥कुरु गर्गं समाहूय यज्ञारंभं नृपोत्तम ॥५६॥इति श्रीगर्गसंहितायामश्वमेधखंडेयज्ञोद्योगवर्णनं नाम सप्तमोऽध्यायः ॥७॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP