संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः २ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः २ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कृष्णलीलावर्णनम् Translation - भाषांतर सूत उवाच -इति श्रुत्वा वज्रनाभिर्मुनेः श्रीगर्गसंहिताम् ॥भृशं मुमोदाथ गुरुं प्रत्युवाच प्रणम्य च ॥१॥अद्य श्रीकृष्ण्चन्द्रस्य चरित्रं तु श्रुतं मया ॥त्वन्मुखान्मुनिशार्दूल तेन दुःखाश्च मे गताः ॥ २॥मे मनस्तु कृपानाथ पुनः श्रोतुं हरेर्यशः ॥अतृप्तस्यापि कृष्णस्य वदस्व चरितं परम् ॥३॥द्वार्वत्यामुग्रसेनेन हयमेधः कृतः पुरा ॥तच्चरित्रं वद मुने किंचित्पूर्वं श्रुतं मया ॥४॥अनुव्रतानां शिष्याणां सुतानां च मुनीश्वर ॥ब्रूयुर्गुह्यमनापृष्टं गुरवः करुणामयाः ॥५॥श्रीसूत उवाच -एवं भाषितमाकर्ण्य यादवानां गुरुर्मुनिः ॥प्रीतः प्रत्याह राजेन्द्रं स्मरन्पादाम्बुजं हरेः ॥६॥गर्ग उवाच -धन्यस्त्वं कृष्णचन्द्रस्य पादयोर्भक्तिरीदृशी ॥जाता ते यादवश्रेष्ठ दिष्ट्या तु दुर्लभा नृणाम् ॥७॥कथयाम्यत्र ते राजन्नितिहासं शृणुष्व वै ॥यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥८॥द्वापारे पीडिता राजन् धरा भारेण पापिनाम् ॥ब्रह्माग्रे कथयामास सोऽपि श्रुत्वा हरिं ययौ ॥९॥गत्वा च कथयामास श्रुत्वा श्रीराधिकापतिः ॥महीमाश्वास्य देवैश्च भारं हर्तुं मनो दधे ॥१०॥विवाहो वसुदेवस्य मधुपुर्यामभूत्ततः ॥कंसबोधनषट्पुत्रवधः कसंभयं नृप ॥११॥मायाज्ञामनुदेवादिस्तुतिः कृष्णसमुद्भवम् ॥वर्णनं रूपकृष्णस्य वसुदेवस्य संस्तुतिः ॥१२॥देवक्यादिपुराकृत्यकथनं जगदीशितुः ॥गोकुलानयनं कन्यापातनं तद्विभाषणम् ॥१३॥सांत्वनं वसुदेवस्य मोचनं भार्यया सह ॥कंसदुर्मंत्रदैत्येषु साधु बाल उपद्रवः ॥१४॥प्रादुर्भूते व्रजे कृष्णे व्रजराजमहोत्सवः ॥मथुरागमनं नंदवसुदेवसमागमः ॥ १५॥पूतनासुपयःपानं नन्दगोपादिविस्मयः ॥शकटव्यत्यये दैत्यचक्रवातवधः शिशोः ॥१६॥संलालने मुखे धात्र्या जृम्भणे विश्वदर्शनम् ॥रामकेशवयोर्नाम्नोः कारणं केलिरेतयोः ॥१७॥धौर्त्यं गोपवधूगेहे प्रसंगान्मृदभक्षणम् ॥दर्शनं विश्वरूपस्य नन्दभाग्यपुराकथा ॥१८॥चौर्यं हैयङ्गवस्याथ बन्धनं दामभिर्बलात् ॥यमलार्जुनयोः शापो भंगश्चैव स्तुतिस्तयोः ॥१९॥बालक्रीडोपनन्दादिमंत्रणं गमनं ततः ॥वृन्दावने तयोः क्रीडा वयस्यैर्वत्सचारिणोः ॥२०॥वत्सासुरस्य च वधो बकाघासुरयोपि ॥भोजनं सखिभिस्तीरे यमुनाया हरेर्मुदा ॥२१॥वत्साघाहरणं धात्रा कृष्णत्वं वत्सपालयोः ॥ब्रह्मणो गमनं पश्चात्स्तुतिः कृष्णरतिर्गतिः ॥२२॥गोचारणे महाक्रीडा धेनुकादिवधस्तथा ॥व्रज आगमनं कृष्णगोपीनेत्रमहोत्सवः ॥२३॥मृतान् विषांभःपानेन गोपान्हरिरजीवयत् ॥कालीयदमने स्तोत्रं तद्भार्याणां प्रलापनम् ॥२४॥ह्रदे कालीयसम्बन्धकथनं वह्निमोचनम् ॥क्रीडाप्रलंबनिधनं दावाग्नेर्मोचनं गवाम् ॥२५॥वर्षाशरद्वर्णनं च गोपीनां वचनामृतम् ॥व्रतं गोकुलकन्यानां वस्त्राणां हरणं मुदा ॥२६॥वनभाग्यकथा गोपप्रार्थना प्रेषणं मखे ॥विप्रभार्याप्रसादश्च पश्चात्तापो द्विजन्मनाम् ॥२७॥यागभंगो महेन्द्रस्य धृतिर्गोवर्धनस्य च ॥सुरेन्द्रगर्वहरणं गर्गजातकवर्णनम् ॥२८॥गोपशंकापगमनमिंद्रधेन्वाभियाचितम् ॥नन्दस्य मोक्षणं गोपवैकुण्ठगमनं ततः ॥२९॥पञ्चाध्यायनिशाक्रीडा सर्पान्नंदस्य मोक्षणम् ॥शंखचूडवधः पश्चाद्गोपीगीतं वृषार्दनम् ॥३०॥कंसनारदसंवादः कंसाक्रूरकथा ततः ॥केशिनो निधनं कृष्णान्नारदर्षिकथा ततः ॥३१॥व्योमासुरवधोऽक्रूरागमनं गोकुलेषु च ॥दर्शनानंदहृष्टात्मा रोमांचो गद्गदा गिरः ॥३२॥संवादो रामकृष्णाभ्यां वर्णितं कंसचेष्टितम् ॥रामकृष्णप्रयाणं च तथा गोपीप्रलापनम् ॥३३॥मथुरागमनं मध्ये ह्रदे कृष्णस्य दर्शनम् ॥स्तुतिः पुरा गतिः पश्चाद्दर्शनं पुरसंपदः ॥३४॥रजकस्य शिरश्छेदो वायकस्य वरादयः ॥सुदाम्नो वरदानं च कुब्जासंदर्शनं हरेः ॥३५॥धनुर्भंगः सैन्यवधः कंसदुर्हेतुदर्शनम् ॥रंगोत्सवः कुवलयापीडयुद्धविघातनम् ॥३६॥दर्शनं रामकृष्णस्य पौराणां प्रेमवर्धनम् ॥मल्लानां निधनं रंगे कंसस्य सह बन्धुभिः ॥३७॥पित्रोश्च सांत्वनं सर्वसुहृदां चैव तोषणम् ॥उग्रसेनाभिषेकं च नंदादिव्रजप्रेषणम् ॥३८॥ईषद्द्विजातिसंस्कारं पठनं च गुरोर्गृहे ॥मृतपुत्रप्रदानं च गुरोः पंचजनार्दनम् ॥३९॥पुनरागमनं शौरेर्मधुपुर्यां महोत्सवः ॥उद्धवप्रेषणं गोपीविलापपरिसांत्वनम् ॥४०॥मेलनार्थं तु कृष्णस्यागमनं नंदगोकुले ॥पुनर्वै कोलदैत्यस्य वधः पश्चात्प्रकीर्तितः ॥४१॥कुब्जारतिस्तथाक्रूरप्रेषणं गजसाह्वये ॥पांडवेषु च वैषम्यं धृतराष्ट्रस्य बोधनम् ॥४२॥इति श्रीगर्गसंहितायामश्वमेधचरित्रेसुमेरौ कृष्णलीलावर्णनं नाम द्वितीयोऽध्यायः ॥२॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP