संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ५० अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ५० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यादवगणकृतं हस्तिनापुरविजयम् Translation - भाषांतर गर्ग उवाच -तदैव वृष्णयः सर्वे भोजवृष्ण्यंधकादयः ॥माथुरा शूरसेनाद्याः समुत्तीर्य यमस्वसाम् ॥१॥रजोभिश्च नभो व्याप्तं कुर्वंतश्च महीतलम् ॥चालयंतश्च बलिनो महासंग्रामकर्कशाः ॥२॥विलोकयंतस्तुरगं सर्वतस्ते महाबलाः ॥आजग्मुश्चानिरुद्धाद्याः श्रीकृष्णाद्या नृपेश्वर ॥३॥वृष्णयस्तत्र युद्धस्य महाघोषं भयंकरम् ॥शरासनानां टंकारं शतघ्नीनां रवं तथा ॥४॥शूराणां गर्जनं चैव शस्त्राणां चट्चटं तथा ॥कोलाहलं च हाकारं श्रुत्वा ते विस्मयं ययुः ॥५॥मत्वा ते युद्धमासीद्वै यादवानां च कौरवैः ॥शंकिता अनिरुद्धाद्याः कृष्णाद्या आययुर्द्रुतम् ॥६॥श्रीकृष्णमागतं दृष्ट्वानिरुद्धाद्यैः समन्वितम् ॥ससैन्यं च सहायार्थं नेमुः सांबादयो नृप ॥७॥कृष्णे समागते नेदुर्भेर्य्यः शंखाश्च गोमुखाः ॥पुष्पवर्षं जयारावं देवाश्चक्रुश्च यादवाः ॥८॥दृष्ट्वानिरुद्धं प्रधने समागतंह्यक्षौहिणीभिः शतभिः समन्वितम् ॥प्रचालयंतं वसुधां महाबलंविदुद्रुवुस्ते तु भयाच्च कौरवाः ॥९॥प्रलयाब्धिसमं सैन्यमंधकानां विलोक्य च ॥भीताश्च दुद्रुवुर्वैश्या गेहे गेहे कृतार्गलाः ॥१०॥ब्राह्मणाः क्षत्रिया वैश्या वृषलाः स्त्रीजनास्तथा ॥दुर्योधनं शपंतश्च रुरुदुर्निर्गता गृहात् ॥११॥ततो विहाय मूर्च्छां वै मृधे दुःशासनाग्रजः ॥सद्यः सुप्त इवोत्तस्थौ यदुसैन्यं ददर्श ह ॥१२॥दृष्ट्वा भयंकरां सेनां यादवानां सुयोधनः ॥स्वपुरं शंकितो भूत्वा पद्भ्यां भीतस्त्वरं ययौ ॥१३॥कर्णभीष्मकृपद्रोणभूरिदुर्योधनादयः ॥सभायां धृतराष्ट्रं वै नत्वा सर्वमवर्णयन् ॥१४॥स्वानां पराजयं श्रुत्वा यादवानां जयं तथा ॥कृष्णस्यागमनं चैव नृपो विदुरमब्रवीत् ॥१५॥धृतराष्ट्र उवाच -अक्षौहिणीशतयुते वासुदेवे समागते ॥कुपितेऽद्य वयं वीर करिष्यामश्च किं वद ॥१६॥नृपस्य वचनं श्रुत्वा प्रहस्य विदुरोऽब्रवीत् ॥विदुर उवाच -पुरा रामेण चैकेन कुपितेन गजाह्वयम् ॥१७॥विकर्षितं च गंगायां तस्य भ्राता हि चागतः ॥हृत्कंजकोशाद्देवक्यां जातो यः स हरिर्नृप ॥१८॥येन वै संयुगे राजन्कंसाद्याः शकुनादयः ॥मारिता बहवो दैत्या निर्जिताश्च नृपाः सुराः ॥१९॥तस्माद्युद्धस्य समयो नास्ति राजन्विलोकय ॥कौरवे श्यामकर्णं तु कृष्णाय दातुमर्हसि ॥२०॥माभूत्कुरूणां वृष्णीनां कलहो नाशकारकः ॥एवं राजा बोधितस्तु विदुरेणानुजेन वै ॥२१॥उवाच कौरवान्प्राज्ञो देशकालोचितं वचः ॥धृतराष्ट्र उवाच -गत्वा कृष्णस्य निकटे तुरगं दातुमर्हथ ॥२२॥संमुखे देवदेवस्य युद्धं कर्तुं च नार्हथ ॥यादवानां सहायार्थमागतं कुपितं हरिम् ॥२३॥यूयं प्रसन्नं कुरुत गत्वा तन्निकटं शनैः ॥कौरवेंद्रस्य वचनं कौरवास्ते निशम्य च ॥२४॥विविधानुपचारांश्च गंधाक्षतयुतान्किल ॥गृहीत्वा दिव्यवस्त्राणि रत्नानि विविधानि च ॥२५॥वदंतः पुण्यनामानि रामकेशवयोर्मुदा ॥पद्भिर्विनिर्ययुः सर्वे कृष्णं द्रष्टुं भयान्विताः ॥२६॥आगतान्कौरवान्दृष्ट्वा यादवाः क्रोधपूरिताः ॥नानाशस्त्राणि जगृहुस्तत्र युद्धाय वेगतः ॥२७॥ऊचुस्तान्कौरवाः सर्वे वयं युद्धाय नागताः ॥करिष्यामश्च कृष्णस्य दर्शनं दुःखनाशनम् ॥२८॥इति तेषां वचः श्रुत्वा यादवा विस्मयं गताः ॥कृष्णाय कथयामासुः कौरवाणां विचेष्टितम् ॥२९॥ततः कृष्णस्य वचसा कौरवान्यदुसत्तमाः ॥आह्वयामासुस्ते प्रीता निःशस्त्रानागतान्नृप ॥३०॥आहूतास्ते तु हरिणा गत्वा श्रीकृष्णसन्निधौ ॥लज्जयावाङ्मुखाः सर्वे प्रणम्योचुः पृथक्पृथक् ॥३१॥पूर्वं द्रोण उवाचाथ कृष्णभद्र जगत्पते ॥रक्ष मां कौरवान् रक्ष मायया तव मोहितान् ॥३२॥कृपाचार्य उवाच -मज्जन्मनः फलमिदं मधुकैटभारेमत्प्रार्थनीयमदनुग्रह एष एव ॥त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्यभृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥३३॥कर्ण उवाच -भक्तस्यार्थे धनं क्षीणं स्वदारगतयौवनम् ॥स्वामिकार्ये गताः प्राणा अंते तिष्ठंतु माधव ॥३४॥भूरिरुवाच -याचामहे वरद किंचिदनन्यलभ्यंनाथ प्रसीद सुमुखी यदि दिव्यदृष्टिः ॥अस्माभिरंजलिरयं विवशैर्निबद्धएषैव मे भवतु देव भवांतरेऽपि ॥३५॥दुर्योधन उवाच -जानामि धर्मं न च मे प्रवृत्ति-र्जानामि पापं न च मे निवृत्तिः ॥केनापि देवेन हृदि स्थितेनयथा नियुक्तोऽस्मि तथा करोमि ॥३६॥यंत्रस्य गुणदोषेण क्षम्यतां मधुसूदन ॥अहं यन्त्रो भवान्यंत्री मम दोषो न दीयताम् ॥३७॥भीष्म उवाच -रागांधगोपीजनचुंबिताभ्यांयोगीन्द्रभोगींद्रनिवेशिताभ्याम् ॥आताम्रपंकेरुहकोमलाभ्यांचाभ्यां पदाभ्यामयञ्जलिर्मे ॥३८॥विदुर उवाच -आस्तेति विक्रयकृतां सुकृतानि तानिये ब्रह्मबालमिव तत्परिपालयंति ॥यद्दैत्यदेवमुनिभिर्मनसाप्यगम्यंयन्नेति नेति च वदन्न हि वेद वेदः ॥३९॥श्रीगर्ग उवाच -एवं संप्रार्थितः कृष्णः कौरवैः शरणागतैः ॥प्रीतः प्रत्याह तान् राजन्मेघनिर्हादया गिरा ॥४०॥श्रीकृष्ण उवाच -आर्या शृणुत मद्वाक्यमहमागतवान् यतः ॥युद्धं वारयितुं चात्र नारदेन प्रणोदितः ॥४१॥न मन्यन्ते ममाज्ञां वै मत्पुत्राश्च निरंकुशाः ॥दीर्घाणां च प्रकुर्वंति ह्यपराधं च दूषणम् ॥४२॥यूयं धन्याश्च मान्याश्च मिलनार्थं समागताः ॥मत्पुत्रैश्च कृतं यद्वै तत्सर्वं क्षन्तुमर्हथ ॥४३॥उग्रसेनहयं वीराः कृपया च विमुच्यताम् ॥पालनार्थं तु तस्यापि यूयं गच्छत गच्छत ॥४४॥यादवाः कौरवा मित्राः कलहं तु परस्परम् ॥प्रकर्तुं नैव चार्हन्ति पूर्वप्रेम विलोक्य च ॥४५॥एवं ते कृष्णदेवेन मिष्टवाक्यैश्च तोषिताः ॥तुरगं च ददुः प्रीताः पारिबर्हेण संयुतम् ॥४६॥दत्वा तुरंगमं सर्वे कौरवाः खिन्नमानसाः ॥स्वपुरं विविशू राजन्भीष्मो गन्तुं मनो दधे ॥४७॥इति श्रीगर्गसंहितायां हयमेधखण्डेहस्तिनापुरविजयो नाम पंचाशत्तमोऽध्यायः ॥५०॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP