TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
वितस्तामाहत्म्यम्

वितस्तामाहत्म्यम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


वितस्तामाहत्म्यम्
गोनन्द उवाच ।
तीर्थानि व्दिजमुख्यानि कश्मीरेषु वदस्व मे ॥१४८९॥
तेषां स्रानेन यत्पुण्यं तपसा दग्धकिल्विष: ।
बृहदश्व उवाच ।
नि: सृता सरस: पुणयात्‍ कमसारान्महानदी ॥१४९०॥
कैण्डिण्यनाम्री या स्राने पुण्डरीकफलप्रदा ।
तयो: समागमे स्रात्वा गोसहस्रफलं लभेत्‍ ॥१४९१॥
विशोकायां नर: स्रात्वा विशोक: श्रीसमन्वित:।
पुणयं फलमवाप्रोति देवसत्रस्य मानव: ॥१४९२॥
कौण्डिणीसह संयोगं यत्र याति विशोकया ।
तत्र स्रातस्य राजेन्द्र वाजपेयफलं भवेत्‍ ॥१४९३॥
बृध्दतीर्थे नर: स्रात्वा यज्ञमाप्रोति गोसवम्‍ ।
तत्र सन्निहितो नित्यं वासुकिर्भुजगाधिप: ॥१४९४॥
देवलोकमवाप्नोति स्नात्वा देवसरस्यपि ।
अग्रितीर्थे नर: स्नात्वा वन्हिलोकं प्रपद्यते ॥१४९५॥
नदी सरस्वती नाम यस्यां स्नातो दिवं ब्रजेत्‍ ।
पूर्वदक्षिणभागे तु स्थिता देवसरस्यथा ॥१४९६॥
विनतास्वामिपुरत:  कद्रूस्वामिसमीपत:।
तीर्थयोस्तु नर: स्नात्वा गोशतस्य फलं लभेत्‍ ॥१४९७॥
सन्ध्यादेवी नदी पुण्या यस्यां स्नातस्य मानद ।
व्यपैति कल्मषं देहात्‍ स्वर्गलोकं च गच्छति ॥१४९८॥
सन्ध्यापुष्करिणी पुणया पूर्वतुल्यफलप्रदा ।
अवगाह्य नरो भक्त्या पुणयां ब्राह्मणकुण्डिकाम्‍ ॥१४९९॥
नीलकुणडं वितस्ताख्यं शूलघातं तथैव च ।
तीर्थ त्रिनामकं दृष्टा स्वर्गलोके महीयते ॥१५००॥
तथा विनशनं प्राप्य वाजपेयफलं लभेत्‍ ।
ब्राह्मणकुण्डिकायां च नीलकुणडे च पार्थिव ॥१५०१॥
अक्षय्यं फलमुद्दिष्टं दानं श्राध्दं तथा तप: ।
वितसोन्मज्जने स्रात्वा गोसहस्रफलं लभेत्‍ ॥१५०२॥
पश्चघज्ञानवाप्रोति स्रात्वैव पश्चहस्तके ।
प्रत्यहं ये विनिर्दिष्टा गृहस्थस्य महीपते ॥१५०३॥
पुण्यलोकोस्त्यसौ नाम सर्वपापहर: पर: ।
कापोतके नर: स्नात्वा गोप्रदान फलं लभेत्‍ ॥१५०४॥
विष्णवाश्रमे नृसिंहस्य पुरत: पार्थिवोत्तम: ।
वितस्तोन्मज्जनं पुणयं तत्र स्नात्वा च भक्तित: ॥१५०५॥
इह कीर्तिमवाप्यासौ विष्णुलोके महीयते ।
स्नातश्च ध्यानधारिण्यां गोसहस्रफलं लभेत्‍ ॥१५०६॥
वितस्त ध्यानधारिणयो: संगमे पापनाशने ।
पुण्यं फल मवाप्रोति वाजपेयस्य मानव : ॥१५०७॥
वितस्तान्तर्हिता तत्र प्रविश्य ध्यानधारिणीम्‍ ।
अन्तर्हिता मता शीघ्र विशोका यत्रनिम्रगा ॥१५०८॥
धौम्याश्रेम तपो योगे राजसूयफलं लभेत्‍ ।
चतुर्वेदि नदी दृष्टा कन्यादानफलं लभेत्‍ ॥१५०९॥
प्राप्थ दृषे फथं जन्तु: लभेत्‍ वहु सुवर्णकम्‍ ।
त्रिकोटिप्रभवं प्राप्य मुच्यते सर्वकिल्विषै: ॥१५१०॥
प्राप्य चन्द्रवती जन्म चन्द्रलोके महीयते ।
देवतीर्थे नर: स्नात्वा दिव्य: पुत्रोऽपि जायते ॥१५११॥
त्रिकोटयां तु नर: स्नात्वा दिव्यलोके महीयते ।
स्नात्वा वृषपथायां च शुक्रलोके महीयते ॥१५१२॥
चन्द्रवत्यां नर: स्नात्वा दशगोदफलं लभे‍ ।
नदी ऋर्षपथा पुणया तथा चन्दवती त्रपा ॥१५१३॥
संगमे चानपो: प्रोक्तं राजसूयफलं बुधै: ।
त्रिकोढीसंगमाचापि यावत्‍ रौप्येश्वरं हरिम्‍ ॥१५१४॥
तावत्‍ क्षेत्रं समं ज्ञेयं वाराणस्यां महीपते ।
रुद्रलोकमवाप्नोति स्नात्वा तु कपटेश्वरे ॥१५१५॥
विश्वलिंगह्रदे स्नात्वा गोप्रदानफलं लभेत्‍ ।
विजयीशाग्रत: स्नात्वा वितस्तायां महीपते ॥१५१६॥
रुद्रलोकमवाप्नोति कुलमुध्दरते सुखम्‍ ।
पिंगलेशाग्रत: विष्णुलोके महीयते ॥१५१७॥
खुण्डपुच्छाश्रमे स्नात्वा फल्मेतदुदाहृतम्‍ ।
पुणड: रीकेनर: स्नात्वा पुणडारीकफलं लभेत्‍ ॥१५१८॥
शूर्पीरके नर: स्नात्वा गोप्रदानफलं लभेत्‍ ।
वितस्ताध्यान धरिण्यो: संगमेऽन्नप्रदो नर: ॥१५१९॥
अक्षयं फलमाप्नोति यावदिन्द्राश्चतुर्दश ।
सर्वेषां चैव तीर्थानां सन्निधानं नराधिप ।
नरसिंहाश्रमे तत्र कृतमणवपि सत्‍ फलम्‍ ॥१५२०॥
वितस्ताध्यान धारिण्यो: संगमश्चैव भूपते ।
कल्पषोडशनागस्य यावत्‍ मुत्तमम्‍ ॥१५२१॥
तावत्‍ क्षेत्रं समं पुणयं प्रयागेणा नराधिप ।
गंगोद्भेदेनर: स्नात्वा भेडादेवीसमीपत: ॥१५२२॥
गास्नानफलं प्राप्य स्वर्गलोके महीयते ।
अवगाह्य कथां  पुणयां दशगोदफलं लभेत्‍ ॥१५२३॥
औजसे धर्मराजस्य स्नात्वा तु पुरतो नर: ।
न दुर्गतिमवाप्नोति वाजपेयफलं लभेत्‍ ॥१५२४॥
अस्मिन्‍ तीर्थवरे राजन्‍ श्राध्दमानन्स्यमश्नुते ।
मासे चाश्वयुजे कृष्णपंचदश्यां विशेषत: ॥१५२५॥
स्रात्वा नारायणस्थाने विष्णुलोके महीयते ।
रामतीर्थे भवोत्से च फलमेतत्‍ प्रकीर्तितम्‍ ॥१५२६॥
शैलपृष्ठे नर: स्रात्वा तीर्थे वैश्रवणस्य च ।
धनस्य भागी  भवति यत्र यजाभिजायते ॥१५२७॥
तीर्थे चाप्सरसां स्नात्वा भ्वेच्छीमान्‍ नरोत्तम: ।
कामतीर्थे नर: स्नात्वा कामभागभिजायते ॥१५२८॥
ऋषितीर्थे नर: स्नात्वा मुनिवन्निर्मलो भवेत्‍ ।
वैतरण्यां नर: स्नात्वा न दुर्गतिमवाप्नुयात्‍ ॥१५२९॥
ऋषिकुल्यामथासाद्य देवकुल्यां तथैवच ।
अश्वतीर्थ प्रवासं च वारुणं तीर्थमेव च ॥१५३०॥
वह्रितीर्थ चन्द्रतीर्थं नागतीर्थ तथैवच ।
चक्रतीर्थ वामनं च गोप्रदानफलं भवेत्‍ ॥१५३१॥
स्नात्वा तु मरुतीर्थे च स्कन्दतीर्थे च मानव: ।
तथा सुरेश्वरीतीर्थे स्वर्गलोके महीयते ॥१५३२॥
माहुरीं तु समासाद्य तिलप्रस्थफलं लभेत्‍ ।
तत्संगमे वितस्तायां स्नात्वा मुच्येत किल्विषै: ॥१५३३॥
त्रिपुरेशाग्रत: पुण्यां अवगाह्य तु माहुरीम्‍ ।
महादेवगिरिं दृष्टा रुद्रलोके महीयते ॥१५३४॥
अमरेशे नर:  स्नात्वा गोशतस्य फलं लभेत्‍ ।
मालिन्यां तु नर: स्नात्वा दशगोदफलं लभेत्‍ ॥१५३५॥
स्नात्वा पाणडवतीर्थे च पश्चयज्ञानुपश्नुते ।
उच्चेशं तीर्थमासाद्य रुद्रलोके महीयते ॥१५३६॥
स्नात्वा रामह्र्दे तोये भवेव्दहुसुवर्णभाक्‍ ।
मालिनीसंगमं पुण्यं सिन्धुना सह पार्थिव ॥१५३७॥
तथा रामह्रदो यत्र युज्येत सह सिन्धुना ।
तयो: फलमथोद्दिष्टं राजसूयाश्वमेधयो: ॥१५३८॥
संयोगं सिन्धुना यत्र गता कनकवाहिनी ।
गोसहस्रमवाप्रोति धनवानपि जायते ॥१५३९॥
पावना च नदी पुणया रजोबिन्दुविनिर्मिला ।
तस्यां स्रातरत्ववाप्नोति पुण्डरीकफलं नर: ॥१५४०॥
तयो: समागमे पुण्ये राजसूयफलं स्मृतम्‍ ।
तस्मोद्देशादथारभ्य यावत्स्याचीरमोचनम्‍ ॥१५४१॥
तावत्क्षेत्र समं पुण्यं वाराणस्यां प्रकीर्तितम्‍ ।
तन्मध्ये सर्वतीर्थाना सान्निध्यं कथितं मया ॥१५४२॥
स्वर्गमार्गप्रदं प्रोक्तं तीर्थ चीरप्रमोचनम्‍ ।
दिवमुत्सृज्य चीराणि यत्र सप्तर्षयो गता: ॥१५४३॥
स्नात्वा तत्र दिवं यान्ति येपि पापकृतो नरा: ।
सोदरे तु नर: स्रात्वा गोसहस्रफलं लाभेत्‍ ॥१५४४॥
तथा कनकवाहिन्या संगमं याति यो नर: ।
तथा कालोदका पुण्या नदी यत्रैव संगता ॥१५४५॥
तयो: फलं विनिर्दिष्ट राजसूयाश्वमेधयो:  
स्नात्वाश्वमेधमाप्नोति वितस्तासिन्धुसंगमे ॥१५४६॥
प्रोप्ठपद्यां विशेषेण एवमाहुर्मनीषिण: ।
पात्रतीर्थे नर: स्नात्वा पुणडरीकमुपाश्नुते ॥१५४७॥
आपगायां नर: स्नात्वा कुलमुध्दरते स्वकम्‍ ।
अग्रिष्टोममवाप्नोति स्रात्वा सरमि मानसे ॥१५४८॥
आषाठयां तु विशेषेण नात्र कर्या विचारणा ।
वाजपेयमवाप्नोति महापद्मसगस्यपि ॥१५४९॥
हिरण्या वै नदी पुण्या हरमुण्डाव्दिनिर्गता ।
स्नातस्तस्यामवाप्नोति वह्रिष्टोफलं नर: ॥१५५०॥
महापद्मसर: पुणयं हिरण यत्र गच्छति ।
अश्वमेधफलं तत्र पौर्णमास्यां विशेषत: ॥१५५१॥
बहुरुपे नर: स्नात्वाअ विष्णुलोके महीयते ।
बहुरुपे च कथितं फलमतन्नरोत्तम ॥१५५२॥
शतश्रृगे सुतीर्थे च तीर्थे वैश्रवणस्य च ।
तीर्थे पुण्ये तथा राजन्‍ भूर्जस्वामिसमीपत: ॥१५५३॥
वसूनामथ रुद्राणां साध्यानां महतामपि ।
विशेषं चैव देवानां भृगूनां च नराधिप ॥१५५४॥
तथैवाडिरसं राजन्‍ तीर्थे तीर्थे पृथक्‍ पृथक्‍ ।
द्शगोद्फलं प्रोक्तं मुनिभिस्तस्वदर्शिभि: ॥१५५५॥
पालाशा च शुमाला च वितस्तां यत्र गच्छति ।
गोसहस्रफलं तत्र प्रत्येकं कथितं मुने ॥१५५६॥
नदीकूलारणी यत्र संयुज्येत वितस्तया ।
तत्र स्नात्वा कुलं शीघ्रं पुनीते मानवोत्तम: ॥१५५७॥
विगाह्य पुष्करं तीर्थमतिरात्रफलं लभेत्‍ ।
तीर्थ सप्तऋषीणां च वह्रिष्टोमफलं लभेत्‍ ॥१५५८॥
तीर्थ वाराहमासाद्य वितस्ताम्भसि मानव : ।
विष्णुलोकमवाप्रोति कुलमुध्दरते स्वकम्‍ ॥१५५९॥
स्नात्वा नारायणस्थाने वितस्ताम्भसि पार्थिव ।
विष्णुलोकमवाप्रोति नरो नारत्यत्र संशय: ॥१५६०॥
नदी गोत्रवती यत्र वितस्तां प्रतिपद्यते ।
तयो: स्नानस्य कथितं गोसहस्रफलं पृथक्‍ ॥१५६१॥
माहुरी च नदी पुण्यां मथुरेव विशेषत: ।
शतशीला च माला च नदी च विमलोदका ॥१५६२॥
राहुला च नदी पुण्या श्रीशाढया च महानदी ।
व्दितीया च तथा शुध्दा समुला सरसा तथा ॥१५६३॥
आसां प्रत्येकत: स्नात्वा लभेद्‍गोदानजं फलं ।
आसाभेव तु सर्वासां संगमांश्च पृथक्‍ पृथक्‍ ॥१५६४॥
अवगाह्य नर: शुध्दो दशगोदफलं लभेत्‍ ।
अनन्तीर्थे स्नातस्तु नागलोके महीयते ॥१५६५॥
बिन्दुनादेश्वरं तीर्थ सोमतीर्थ पृथूदकम्‍ ।
तुडेक्षुकक्षेत्रे तीर्थ तु उतंकस्वामिन तथा ॥१५६६॥
रामतीर्थ भृगुस्तीर्थ तीर्थमाडिरसं तथा ।
दृष्टैकैकमयो राजन्‍ दशगोदफलं लभेत्‍ ॥१५६७॥
सर्वा: सरिव्दरा: पुण्या: सर्वप्रस्रवणास्तथा ।
इमे तथा च राजेन्द्र सर्वे पुण्या: शिलोचया ॥१५६८॥
सर्वा: ऋषिगताश्चार्या: सुरांसि विपुलानि च ।
सर्वत्रैव महीनाथ कश्मीरेषु विशेषत: ॥१५६९॥
सर्वे च संगमा: पुणया: नागानां ये जलाशया : ।
सुवर्णशतदानस्य फलं प्राप्रोत्य संशयम्‍ ॥१५७०॥
इति तीर्थानि पुण्यानि वितस्ता च विशेषत: ।
सर्वत्र पावनी देवी वितस्ता कथिता नृप ॥१७७१॥
तस्यां स्नात्वा दिवं यान्ति ये‍ऽपि पापकृतो नरा: ।
वह्रिष्ठोमवाप्रोति स्नातस्तस्यां नराधिप ॥१५७२॥
दृष्टाश्रमे वितस्तेयं धूमेशे सिन्धुसंगमे ।
वराहतीर्थे पापघ्रे  राजसूयफलप्रदा ॥१५७३॥
सदैव पुण्या शुल्के च त्रयोदश्यां विशेषत: ।
यत्र यत्र वितस्तायां गोरजोधूतमस्तक: ॥१५७४॥
स्नात्वा त्रयोदशी शुल्कां मुच्यते सर्वकिल्विषै: ।
अदृश्यं मानव: कृत्वा पातकं मुक्तपश्चकम्‍ ॥१५७५॥
स्नानेनैकेन शिशिरे सलिलेन व्यपोहति ।
अनर्काभ्युदिते काल सकलं शिशिरं यदि ॥१५७६॥
अत्र स्नाति नरो राजन्‍ कामानाप्रोत्यभीप्सितम्‍ ।
स्नात्वा यथावध्दिधिना समभ्यर्च्य हुताशनम्‍ ॥१५७७॥
ब्राह्मणेभ्यस्तथा दत्वा कृशरं घृतसंयुतम्‍ ।
स्वर्गलोकमवाप्नोति यवादिन्द्राश्चतुर्दश ॥१५७८॥
एवं सवत्सरं पूर्ण नित्यस्नायी नर: शुचि ।
मोक्षोपायमथासाद्य ततो मोक्षमवाप्स्यति ॥१५७९॥
काश्मीरिकाणां तीर्थानां फलं ते कथितं मया ।
सकलं नीलवाक्यं च गमिष्यामि सुखी भव ॥१५८०॥
इदं धार्य प्रयत्नेन यन्मयभिहितं तव ।
श्रुत्वैतत्फलमाप्नोति दशगोदानजं नर: ॥१५८१॥
वैशम्पायन उवाच ।
एवमुक्त्वा सगोनन्दं बृहदश्वो महीपतिम्‍ ।
धर्मात्मा तीर्थयात्रार्थ जगामाभीप्सितां गतिम्‍ ॥१५८२॥
बहु मेने स चात्मानं गोनन्द: समरप्रिय: ।
प्रशशास धरां सम्यक्‍ राजा धर्मानुसारत: ॥१५८३॥
जनमेजय उवाच ।
भूयो वितस्तामाहत्म्यं कथयस्व व्दिजोत्तम ।
यच्छुत्वैव भविष्यामि व्दिजेन्द्र गतकल्मष: ॥१५८४॥
वैशम्पायन उवाच ।
हरस्य दयिता भार्या सती दाक्षायणी शुभा ।
सैवोमा कथिता राजन्‍ प्राप्ते वैवस्व्तेऽन्तरे ॥१५८५॥
हिमाद्रितनया सैव यमुना पापनाशिनी ।
मन्वन्तरान्ते सैवोक्ता नौर्गरिष्ठा जगत्रये ॥१५८६॥
कश्मीरा कथिता देवी वितस्ता सैव निम्रता ।
पातालादुत्थिता देवी शूलखातात्तरडिणी ॥१५८७॥
स्रातस्य तोये वैतस्ते स्वयमात्मानमात्मना ।
विजानाति गताशेषकल्मषकल्मषालघुभागिमम्‍ ॥१५८८॥
वोतस्ताया महीनाथ न गंगा व्यतिरिच्यते ।
केवलं जान्हवीतोये पुरुषस्यास्थिसंभव: ॥१५८९॥
वितस्तातोऽधिको राजन्‍ड स्नानाद्यं तुल्यमेवच ।
भगीरथेन गंगेयं पुरा राज्ञाऽवतारिता ॥१५९०॥
अस्थाप्लावनकामेन सगराणां महात्मनाम्‍ ।
तेनेयं कथिता राजन्‍  प्रशस्ता तत्र कर्मणि ॥१५९१॥
वितस्ता वै नदी पुण्या सर्वपापहरा शुभा ।
वैतस्तयेन तोयेन जठरस्थेन ये मृता: ॥१५९२॥
सर्वे स्वर्गमनुप्राप्ता: यथा ते सोमपायिन : ।
तीर्थ वाराहमासाद्य वितस्ताम्भसि मानव: ॥१५९३॥
विष्णुलोकमवाप्रोति कुलमुध्दरते स्वकम्‍ ।
स्नात्वा नारायणस्थाने वितस्ताम्भसि पार्थिव ॥१५९४॥
देवलोकानवाप्रोति नरो नास्त्यत्र संशय: ।
न यज्ञैर्दक्षिणावद्भि स्तर्पिता देवतास्तथा ॥१५९५॥
तृप्ति समधिगच्छन्ति यथा तत्सलिलै: शुभै: ।
पात्रे तीर्थे तथा काले मिष्टान्नै: विविधै:कृतै: ॥१५९६॥
यथा तृप्यन्ति पितर: श्राध्दैस्तव्दच तैर्जलै: ।
नागै: बहुविधाकारै : सुहृद्भि: संगति गताम्‍ ॥१५९७॥
तीर्थै: देवैश्च ऋषिभि: गन्धवैर्यक्षराक्षसै: ।
अभिगच्छेत मेधावी जन्मसाफल्यकारणात्‍ ॥१५९८॥
स्नातमात्रो वितस्तायां जानाति वरुणो नरम्‍ ।
जलाधिपेन ज्ञातस्य नरके पतनं कुत: ॥१५९९॥
पापिनां नरके घोरे पततां दुष्टतात्मनाम्‍ ।
हस्तत्राणपदा देवी वितस्ताघनिषूदिनी ॥१६००॥
सर्गारोहणनि:श्रेणीं मनोरथफलप्रदाम्‍ ।
वितस्तां ये गमिष्यन्ति ते यास्यन्त्यमरावतीम्‍ ॥१६०१॥
हंससारसयुक्तेन चक्रवाकोपशोभिना ।
विमानेनार्कवर्णेन किंकिणीजालमालिना ॥१६०२॥
देवरामागणाढयेन वीणामुरजनादिना ।
पुलिनैर्विविधैर्युक्तां पद्मोत्पलैविभूपिताम्‍ ॥१६०३॥
गोकुलारावबहुलां हम्भारव निनादिताम्‍ ।
मत्स्यकच्छपसबाधां सतीर्थ्या कामदायिनीम्‍ ॥१६०४॥
अमृतस्वादसलिलां नृणां दृष्टिम्‍ मनोहराम्‍ ।
येऽभिगच्छन्ति वरदां मातरं वा सुखप्रदाम्‍ ॥१६०५॥
तेऽभिगच्छन्ति राजेन्द्र प्रतिष्ठां भुवि मानवा: ।
समुद्ररुपस्य हरस्व भार्या हिमालयस्याद्रिपतेस्तनूजाम्‍ ।
सुसारतोयां ऋषिवर्यजुष्टां तां त्वं पवित्रां प्रणमस्व राजन्‍ ॥१६०६॥
सिन्धुस्विकोटी च तथाविशोका पुणया नदी हर्षपथाशिवा च ।
पुणया सुखा चन्द्रवती सुगन्धा पुणयोदका किल्विषनाशिनी च ॥१६०७॥
कूलारणी पापहरा च कृष्णा नदी सुपुण्या मधुमत्यथापि ।
नदी परुष्णी च तथा त्रिपुणया पुष्णाति पुणयां वरदां वितस्ताम्‍ ।
तीर्थानि पुण्यानि सरांसि राजन्‍ नद्यस्तडाका: विविधाश्च कूपा:
आयान्ति सर्वे वरदां वितस्तां त्रयोदशीं भाद्रपदस्य शुल्काम‍ ।
कस्यास्ति शक्तिर्नृपते प्रवक्तुं देवीगुणान्‍ वर्षशतैरनेकै: ।
भक्रया मयोक्रं च निशम्य कांचित्‍ भक्ति कुरुष्वात्र सदा नृवीर ।
श्रुत्वा वितस्तामाहात्म्यं मुच्यते सर्वकिल्विषै: ।
श्रुत्वा नीलमतं सर्व दशधेनुफलं लभेत्‍ ॥१६११॥
इत्येवमुक्तं जनमेजयस्य व्यासस्य शिष्येण महाव्रतेन ।
संक्षेपतओ ग्रन्थबहुत्वभीत्या समग्रशास्त्रै: खलु सूचितं यत्‍ ।
सर्वत्र नैतद्‍ध्युपयोगमेति ततो नचोचे भगवान महात्मा ।
अतीव हृद्ये वहुविस्तरेऽपि जनाप्रिये भारतपूर्णचन्द्रे ॥१६१३॥
इति नीलमते वितस्तामाहत्म्यम्‍ ।

समाप्तं चेदं नीलमतपुराणम्‍ ॥ शिवायास्तु लेखकपाठक श्रावकाणाम्‍ ॥
संवत्‍ ४९८९ ॥ श्रावणे त्रयोदश्याम्‍ ॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-09T18:47:00.5270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

kappa particle

  • Bot., Zool. कॅप्पा कण 
RANDOM WORD

Did you know?

What is the Hindu Caste System?
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.